आजमखानेन सम्बद्धस्य जौहरविश्व-विद्यालयस्य ४२६.४६ कोटिरूप्यकाणां सम्पत्तिः गृहीता
नवदिल्ली, २८ अक्टोबरमास: (हि.स.)। प्रवर्तननिदेशालयेन धनशोधनप्रकरणे उत्तरप्रदेशस्य पूर्वमन्त्रिणः मोहम्मद-आजमखानेन सम्बद्धस्य रामपुरस्थस्य मौलानामोहम्मदअलीजौहरविश्वविद्यालयस्य ४२६.४६ कोटिरूप्यकाणां भूमिः भवनानि च अस्थायिरूपेण कुर्कीकृतानि। गृहीतायाः
ईडी लोगो संग्रहित फोटो


नवदिल्ली, २८ अक्टोबरमास: (हि.स.)। प्रवर्तननिदेशालयेन धनशोधनप्रकरणे उत्तरप्रदेशस्य पूर्वमन्त्रिणः मोहम्मद-आजमखानेन सम्बद्धस्य रामपुरस्थस्य मौलानामोहम्मदअलीजौहरविश्वविद्यालयस्य ४२६.४६ कोटिरूप्यकाणां भूमिः भवनानि च अस्थायिरूपेण कुर्कीकृतानि। गृहीतायाः सम्पत्तेः वर्तमानं विपणिमूल्यं प्रायः १,१७० कोटिरूप्यकाणि आकलितम् अस्ति। ईडी-संस्थायाः लखनऊक्षेत्रीय-कार्यालयेन धनशोधननिवारणाधि-नियमस्य, २००२ इत्यस्य अन्तर्गतं एषा कार्यवाही कृता।

ईडी-संस्थायाः अनुसारं विश्वविद्यालयस्य परिसरः रामपुरजनपदस्य सिंहनखेड़ाग्राम-स्थिते जौहरनगरे अस्ति। अयं परिसरः मौलानामोहम्मद-अलीजौहरन्यासस्य अधीनः अस्ति। आजमखानेन अस्य न्यासस्य स्थापना कृता आसीत् तथा सः विश्वविद्यालयस्य मानदकुलाधिपतिः अपि अस्ति। न्यासस्य, आजमखानस्य अन्येषां च जनानां विरुद्धं पञ्जीकृतस्य प्रकरणस्य अन्वेषणाधारेण एषा कार्यवाही कृता इति संस्थया उक्तम्।

ईडी-संस्थया सूचितं यत् रामपुरस्य अजीमनगर-आरक्षकस्थानके पञ्जी-कृतानां २६ प्राथमिकी-अभियोगानाम् आधारेण अन्वेषणम् आरब्धम्। एतेषु कृषकाणां कृषिभूमिः बलात् गृहीत्वा विश्वविद्यालयस्य निर्माणे उपयोगे च आनीता इति आरोपाः आसन्। रामपुरजनपदप्रशासनस्य अन्वेषणप्रति-वेदनानुसारं सिंहनखेड़ाग्रामे शत्रुसम्पत्तेः ४५ भूखण्डेषु, येषां क्षेत्रफलं प्रायः ३४ एकरमितम् अस्ति, विश्वविद्यालयस्य प्रयोजनाय अवैधः अधिकारः अपि कृतः इति आरोपः आसीत्। संस्थायाः अनुसारं सम्बद्धभूमेः पट्टे निरस्ते सति गृहमन्त्रालयस्य शत्रुसम्पत्तिसंरक्षकेण जनपदप्रशासनस्य माध्यमेन तस्याः भूमेः पुनरधिकारः प्राप्तः।

अन्वेषणकाले ईडी-संस्थया ज्ञातं यत् सर्वकारीयकार्याणां कृते आवण्टितं धनं विश्वविद्यालयस्य निर्माणे विनियोजितम्। सर्वकारीयकार्याणां ठेके प्राप्तवन्तः ठेकेदाराः धनं दानरूपेण पुनः न्यासाय प्रेषितवन्तः इत्यपि आरोपः अस्ति। संस्थायाः अनुसारम्, एकस्याः निर्माण्या: प्रबन्ध-निदेशकेन उक्तं यत् लोकनिर्माण-विभागस्य प्रायः १८६ कोटिरूप्यकाणां ठेकेषु ३० तः ४० प्रतिशतं धनं विश्वविद्यालयस्य निर्माणार्थं सामग्रीक्रयणे विनियोजितम्। अन्यस्याः संस्थायाः सहभागिताभि: आजमखानस्य प्रभावाधीने कार्यं कृतवन्तः तथा न्यासाय ४० लक्षरूप्यकाणि दानरूपेण दत्तानि इति स्वीकृतम्।

ईडी-संस्थायाः अनुसारं विश्वविद्यालय-परिसरे विधायकनिधेः विधानपरिषद्सद-स्यस्य च स्थानीयक्षेत्रविकासनिधितः ६.६० कोटिरूप्यकाणां कार्याणि कारितानि। तदतिरिक्तं उत्तरप्रदेशसर्वकारेण परिसरस्य मण्डपस्य, अन्यपश्चाद्वर्गीयच्छात्राणां छात्रा-वासस्य, चिकित्सालयस्य खण्डस्य च निर्माणार्थं २३.४१ कोटिरूप्यकाणि स्वीकृतानि आसन्।

संस्थया उक्तं यत् मण्डपनिर्माणार्थं २०१५ तमे वर्षे स्वीकृतायाः १२.१६ कोटिरूप्यकाणां राशेः विषये एष: शर्तः आसीत् यत् मण्डपस्य स्वामित्वं संस्कृतिविभागस्य समीपे एव स्थास्यति तथा राज्यसर्वकारः तस्य निःशुल्कम् उपयोगं कर्तुं शक्ष्यति। किन्तु २०१६ तमे वर्षे आदेशे परिवर्तनं कृत्वा मण्डपस्य स्वामित्वं विश्वविद्यालयाय प्रदत्तम् तथा राज्यसर्वकारस्य उपयोग-सम्बन्धि-शर्तः अपि निरस्त:।

ईडी-संस्थया विश्वविद्यालयपरिसरस्य सम्पत्तेः मूल्याङ्कनस्य विवरणं दत्त्वा सूचितं यत् ५९ भवनानां निर्माणव्ययः ४९४.४६ कोटिरूप्यकाणि आकलितः। विश्वविद्यालयस्य भूमेः मूल्यं ४.६३ कोटिरूप्यकाणि आसीत्। एवं परिसरस्य समग्रव्ययः ४९९.०९ कोटिरूप्यकाणि आकलितः। न्यासेन आयकरविवरणपत्रे ७८.३२ कोटिरूप्यकाणां पूँजीगतव्ययः प्रदर्शितः आसीत्। तस्मिन् १२.२९ कोटिरूप्यकाणां दानराशिः अवास्तविकी इति पृष्टा।

संस्थायाः अनुसारं वैधस्रोतः केवलं ७२.६३ कोटिरूप्यकाणां व्ययस्य लेखा प्राप्तः, किन्तु अवशिष्टानां ४२६.४६ कोटि-रूप्यकाणां स्रोतः प्रमाणितः न अभवत्। अतः ईडी-संस्थया एतां राशिम् अपराध-जनिताम् आयं मत्वा सम्बद्धसम्पत्तिः गृहीता।

ईडी-संस्थया इदमपि सूचितं यत् आयकरविभागेन आयकराधिनियमस्य, १९६१ इत्यस्य प्रावधानानाम् अन्तर्गतं न्यासस्य पञ्जीकरणं निरस्तम्। अस्मिन् प्रकरणे १९ अगस्त २०२६ दिनाङ्के संस्थया विश्वविद्यालये तेन सम्बद्धेषु परिसरेषु च अन्वेषणं कृतम्। तस्मात् स्थानेभ्यः विद्युतीयोपकरणानि आपत्तिजनका: अभिलेखा: च अधिगृहीता:। प्रकरणस्य अग्रिमम् अन्वेषणं प्रचलति।

Hindusthan Samachar / Divya Ranjan