Enter your Email Address to subscribe to our newsletters






प्रशांत शेखर मिश्रः
नवदिल्ली, 28 अक्टूबरमासः (हि.स.)।
पश्चिमाशियायां अशैथिल्यस्य मध्ये उत्तरप्रदेशस्य हरदोईजनपदस्य भैलामऊग्रामनिवासी युवा उद्यमी आद्य उपेन्द्रतिवारी परालीतः गोमयाच्च वायुमुत्पाद्य देशम् आत्मनिर्भरं कुर्वन् अस्ति। ब्रिटेनस्य लिवरपूलविश्वविद्यालयात् एमबीए उपाधिं प्राप्त्यानन्तरम् आद्यतिवारी हरदोईनगरे ‘यूटीएम् एनर्जी’ इत्यस्य अन्तर्गतं संपीडितजैववायुसंयन्त्रम् अस्थापयत्। अत्र परालीतः, इक्षोः अवशिष्टांशात्, मलीनपदार्थात् गोमयाच्च वायुः उत्पाद्यते। संयन्त्रस्य वर्तमानोत्पादनक्षमता प्रतिदिनं त्रयः तः सार्धत्रयः टनपरिमिता अस्ति, यां वर्धयित्वा प्रतिदिनं द्वादशटनपर्यन्तं नेतुं लक्ष्यम् अस्ति। अनेन द्वासष्टिजनाः प्रत्यक्षतया तथा द्वादशशताधिकाः जनाः परोक्षतया रोजगारं प्राप्तवन्तः।
पश्चिमाशियासङ्कटजनितपरिस्थितीनां ग्रामीणार्थव्यवस्थायाश्च विषये आद्यतिवारीणा सह हिन्दुस्थानसमाचारसंस्थया विस्तृतवार्ता कृता। तस्याः सम्पादितांशाः अत्र प्रस्तुताः।
प्रश्नः : होर्मुजसङ्कटेन वैश्विकी ऊर्जापूर्तिः बाधिता भवति। एतादृशे समये हरदोईजनपदस्य इदं संयन्त्रं देशस्य आर्थिकसुरक्षायां कथं योगदानं ददाति?
उत्तरम् : एषः विषयः साक्षात् देशस्य सार्वभौमत्वेन आर्थिकसुरक्षया च सम्बद्धः अस्ति। भारतं स्वस्य आवश्यकतायाः अधिकांशं कच्चं तैलं प्राकृतिकवायुं च विदेशेभ्यः आयातयति। अस्माकम् आयातस्य विशालः भागः होर्मुजजलडमरूमध्यस्य सङ्कीर्णसमुद्रीमार्गेण आगच्छति। यदा कदापि खाडिदेशेषु तनावः वर्धते अथवा पोतयानानि निरुध्यन्ते, तदा अन्तर्राष्ट्रीयविपण्यां वायोः मूल्यं अप्रत्याशितरूपेण वर्धते तथा च अस्माकं देशस्य विशालं विदेशीयमुद्राभाण्डारं विदेशं निर्गच्छति।
अस्माकं संयन्त्रं विदेशीयनिर्भरता समाप्तुं दिशि कार्यं करोति। वयं विदेशेभ्यः आयातितवायोः पूर्णतया स्वदेशीयं विकल्पं प्रस्तुतं कुर्मः। अत्र उत्पादिता संपीडितजैववायुः वाहनानां ईन्धनस्य पाकवायोश्च विकल्परूपेण उपयोक्तुं शक्यते। यदा वयं स्वकीयायाः भूमेः, पराल्याः गोमयस्य च उपयोगेन ऊर्जाम् उत्पादयामः, तदा भारतस्य धनं देशस्य अन्तरे एव तिष्ठति, कृषकाणां हस्तेषु प्राप्यते, राष्ट्रं च विदेशीयमार्गस्य व्यवधानस्य सम्मुखे विवशं न भवति।
प्रश्नः : सम्प्रति प्रतिदिनं त्रिटनाधिकं वायुः उत्पाद्यते तथा द्वादशटनस्य लक्ष्यं निर्धारितम् अस्ति। एतत् संयन्त्रं आयातव्यये विदेशीयमुद्रायाः च कियतीं बचतं कारयति?
उत्तरम् : गणितीयदृष्ट्या पश्यामः चेत्, अस्य योगदानं महत्त्वपूर्णम् अस्ति। संयन्त्रस्य मूलोत्पादनक्षमता प्रतिदिनं २.४ टनपरिमिता अस्ति, किन्तु सम्प्रति वयं प्रतिदिनं त्रयः तः सार्धत्रयः टनपरिमितां वायुं उत्पादयामः। एकस्य टनस्य जैववायोः उत्पादनस्य प्रत्यक्षः अर्थः अस्ति यत् अन्तर्राष्ट्रीयविपण्यात् आयातितवायोः तावत् परिमाणं प्रतिस्थापितम्।
वर्तमानोत्पादनस्तरे एव वयं प्रतिवर्षम् आयातितस्य ईन्धनस्य द्वादशशतटनाधिकं परिमाणं प्रतिस्थापयामः, येन देशस्य कोटिशः रूप्यकाणां विदेशीयमुद्रा सुरक्षितं तिष्ठति। यदा वयं संयन्त्रस्य विस्तारं कृत्वा प्रतिदिनं द्वादशटनस्य पूर्णोत्पादनक्षमतां प्राप्स्यामः, तदा प्रतिवर्षं चतुश्चत्वारिंशदधिकशतटनपरिमितां वायुं उत्पादयिष्यामः। अस्य प्रत्यक्षः अर्थः अस्ति यत् प्रतिवर्षं देशस्य आयातव्यये पञ्चाशत् तः षष्टिकोटिरूप्यकाणां मूल्यस्य विदेशीयमुद्रायाः साक्षात् बचतं भविष्यति।
एकस्य लघुग्रामस्य इदं संयन्त्रं यदा एतावतीं बचतं कारयितुं शक्नोति, तदा चिन्तयतु यत् सम्पूर्णे देशे एतादृशानि सहस्राणि संयन्त्राणि कार्यं करिष्यन्ति चेत्, देशस्य लक्षकोटिरूप्यकाणां बचतिः भविष्यति। एषा पूर्णतया राष्ट्रसेवा आर्थिकस्वावलम्बनस्य च दिशा अस्ति।
प्रश्नः : वैश्विकविपण्यस्य अस्थिरतायाः मध्ये ग्रामीणजैववायुसंयन्त्राणि देशस्य कृते मूल्यनियन्त्रणस्य सुरक्षाकवचरूपेण कार्यं कर्तुं शक्नुवन्ति किम्?
उत्तरम् : निश्चयेन। एतानि मूल्यवृद्धेः आघातान् निवारयितुं सुदृढरक्षाकवचमिव कार्यं कुर्वन्ति। अन्तर्राष्ट्रीयविपण्ये वायोः मूल्यवृद्ध्या सामान्यजनानाम् उपरि महङ्गतायाः भारः वर्धते। अस्माकं संयन्त्रे परालीतः, गोमयात्, शर्कराकारखानानां मलीनपदार्थाच्च वायुः उत्पाद्यते। अतः अस्य उत्पादनव्ययः अन्तर्राष्ट्रीयविपण्यस्य मूल्यपरिवर्तनैः प्रभावितः न भवति। वयं सर्वकारीयाभ्यः तैलकम्पनीभ्यः निर्धारितमूल्येन वायुं विक्रीणीमः। एतादृशैः संयन्त्रैः घरेलूईन्धनस्य आवश्यकतां पूरयितुं मूल्यवृद्धेः प्रभावं च न्यूनीकर्तुं सहायता भवितुं शक्नोति।
प्रश्नः : लिवरपूलविश्वविद्यालयात् स्नातकोत्तरशिक्षां प्राप्त्यानन्तरं सुखसुविधापूर्णं जीवनं त्यक्त्वा हरदोईजनपदस्य ग्रामीणक्षेत्रे गोमयस्य पराल्याश्च चयनं किमर्थं कृतम्?
उत्तरम् : २०२२ तमे वर्षे लिवरपूलविश्वविद्यालयात् शिक्षां समाप्य मम पुरतः विदेशे बृहत्यां कम्पन्यां कार्यं प्राप्तुं विकल्पः आसीत्, किन्तु अहं देशं प्रत्यागत्य किञ्चित् कार्यं कर्तुं निश्चयं कृतवान्। हरदोईजनपदे गोमयेन, पराल्या, शर्कराकारखानानां च अपशिष्टपदार्थैः कार्यस्य आरम्भस्य मम निर्णयेन बहवः आश्चर्यचकिताः अभवन्। मम विश्वासः आसीत् यत् यं वयं कचरम् इति मन्यामहे, तस्मादपि उपयोगिवस्तूनि निर्मातुं शक्यन्ते तथा ग्रामान् ऊर्जोत्पादनेन सम्बद्धान् कर्तुं शक्यते।
प्रश्नः : विदेशीयकक्षाणां सैद्धान्तिकज्ञानस्य ग्रामीणवास्तविकतायाश्च मध्ये प्रथमः व्यावहारिकः कष्टः कः आसीत्?
उत्तरम् : कक्षासु सर्वं प्रपत्रेषु आँकडेषु च अत्यन्तं सरलम् इव दृश्यते, किन्तु ग्रामीणक्षेत्रस्य वास्तविकताः भिन्नाः व्यावहारिकाश्च भवन्ति। २०२४ तमे वर्षे संयन्त्रस्य सञ्चालनारम्भसमये कृषकाणां ग्रामीणजनानां च विश्वासं प्राप्तुं महती समस्या आसीत्। तेभ्यः बोधयितुं आवश्यकम् आसीत् यत् पराल्या गोमयेन च आधुनिकसंयन्त्रं सञ्चालयितुं शक्यते। वयं कृषकैः सह प्रत्यक्षं संवादं कृतवन्तः समये च भुगतानम् अकरोत्। अनेन प्रारम्भे सन्देहं कुर्वन्तः कृषकाः अपि अधुना अस्माभिः सह सम्बद्धाः सन्ति।
प्रश्नः : यस्याः पराल्याः दाहे दण्डात्मककार्यवाही क्रियते स्म, ताम् आयस्य साधनरूपेण कृषकान् कथम् आश्वासितवन्तः?
उत्तरम् : बहुवर्षेभ्यः कृषकाः अग्रिमस्य सस्यस्य कृषिकार्यस्य सज्जतायाः दबावेन परालीं दग्धुं विवशाः आसन्। शासनद्वारा नियन्त्रणानि दण्डाश्च आरोपिताः आसन्, किन्तु कृषकाणां समीपे सस्यावशेषाणां निष्कासनस्य सुलभः उपायः नासीत्। वयं कृषकेभ्यः प्रतिकिलोग्रामं द्विरूप्यकाणां दरया परालीं तथा प्रतिक्विण्टलं पञ्चाशीतिरूप्यकाणां दरया गोमयं क्रेतुम् आरब्धवन्तः। अनेन कृषकाः परालीं दग्ध्वा न, अपितु विक्रीय धनम् अर्जयितुं अवसरं प्राप्तवन्तः। अधुना कृषकाः परालीं न दहन्ति, अपितु सङ्गृह्य अस्मभ्यं विक्रीणन्ति। अनेन परालीदाहजनितप्रदूषणस्य न्यूनीकरणे अपि सहायता भवति।
प्रश्नः : संयन्त्रस्य सञ्चालनं निरन्तरं भवितव्यम्, किन्तु सस्यस्य उपलब्धेः कालः सीमितः भवति। शेषकाले कच्चामालस्य भण्डारणं कथं क्रियते?
उत्तरम् : वयं संयन्त्रपरिसरे प्रायः त्रयाणां एकराणां क्षेत्रे भण्डारणकेन्द्रं निर्मितवन्तः। सस्यकर्तनस्य द्वित्रिमासेषु सम्पूर्णवर्षस्य कृते परालीम् अन्यं कच्चामालं च सङ्गृह्णीमः। अग्निदुर्घटनां निवारयितुं अग्निशामकयन्त्राणि, जलसिञ्चनव्यवस्था निरीक्षणव्यवस्था च सन्ति। अनेन सस्यकर्तनानन्तरम् अष्टनवमासेष्वपि संयन्त्रस्य सञ्चालनं निर्बाधं भवति।
प्रश्नः : द्वासष्टिः प्रत्यक्षरोजगाराः द्वादशशताधिकाः परोक्षरोजगाराश्च। किं एतत् संयन्त्रं ग्रामीणार्थव्यवस्थायाः नूतनं केन्द्रं जातम्?
उत्तरम् : निश्चयेन। एतत् केवलम् औद्योगिकैककं न, अपितु आत्मनिर्भरग्रामीणार्थव्यवस्थायाः जीवन्तम् उदाहरणम् अस्ति। अस्माकं संयन्त्रे द्वासष्टिभ्यः स्थानीययुवकेभ्यः प्रत्यक्षरूपेण रोजगारः प्राप्तः, यदा तु द्वादशशताधिकाः जनाः परोक्षरूपेण अस्माभिः सह सम्बद्धाः सन्ति। समीपस्थानां ग्रामाणां जनाः ट्रैक्टरयानैः ट्रॉलीयानैश्च कच्चामालस्य परिवहनं कुर्वन्ति। शर्कराकारखानेभ्यः मलीनपदार्थम् आनयने ते प्रतिचक्रं त्रिसहस्ररूप्यकाणि प्राप्नुवन्ति। बहवः ग्रामीणाः गोमयं सङ्गृह्य संयन्त्रं प्रति आनयन्ति। अनेन स्थानीयकृषकाणां, वाहनचालकानां पशुपालकानां च आयस्य नूतनः स्रोतः प्राप्तः।
प्रश्नः : सर्वकारीयतैलकम्पनीभ्यः भुगतानस्य स्थितिः कीदृशी अस्ति? किं संयन्त्रस्य सञ्चालनम् आर्थिकदृष्ट्या लाभप्रदम् अस्ति?
उत्तरम् : केन्द्रसर्वकारेण अस्याः व्यवस्थायाः कृते प्रमुखगैसोपक्रमं समन्वयकसंस्थारूपेण नियुक्तम्। संयन्त्रे उत्पादितवायुः प्रायः २५० बार्-दाबेन विशेषसिलिण्डरेषु पूर्य शाहजहाँपुरजनपदस्य पिपरोलास्थितं वितरणकेन्द्रं समीपस्थान् वायुवितरणकेन्द्रांश्च प्रति प्रेष्यते। ऋणस्य किश्तीनां भुगतानानन्तरमपि समुचितः लाभः प्राप्यते।
प्रश्नः : मुख्यवायुप्रणालिकाजालेन सह वायोः प्रत्यक्षसम्बन्धस्थापनस्य व्यवस्था धरातले कार्यान्विता अभवत् किम्?
उत्तरम् : संयन्त्रे उत्पादितवायुः उच्चदाबेन सिलिण्डरेषु पूरयित्वा शाहजहाँपुरजनपदस्य पिपरोलास्थितं वितरणकेन्द्रं प्रति प्रेष्यते। तत्र दाबं सन्तुल्य वायुः नगरवायुवितरणस्य मुख्यपाइपलाइनप्रणालिकायां संयोज्यते। ततः एषा वायुः विभिन्नेषु जनपदेषु औद्योगिकैककेभ्यः, वाहनेभ्यः, घरेलूपयोगाय च प्रेष्यते।
प्रश्नः : रासायनिकखादेभ्यः अनुदानं प्राप्यमाणे सति कृषकाः संयन्त्रे उत्पादिताम् जैविकखादं किमर्थम् अङ्गीकुर्वन्ति?
उत्तरम् : एषः अस्माकं संयन्त्रस्य सर्वाधिकं क्रान्तिकारी लाभप्रदश्च पक्षः अस्ति। वायोः उत्पादनानन्तरम् उच्चगुणवत्तायुक्ता जैविकखादः प्राकृतिकगन्धकश्च प्राप्यते। अस्याः खाद्याः प्रयोगेण सस्यस्य गुणवत्ता उत्पादनं च वर्धते तथा रासायनिकखादेषु निर्भरता न्यूनीभवति। अनेन मृदायाः उर्वरता संरक्षितुं सर्वकारस्य उर्वरकानुदानस्य भारं न्यूनीकर्तुं च सहायता भवति। अधुना कृषकाः स्वयमेव खादं क्रेतुं संयन्त्रं प्रति आगच्छन्ति।
प्रश्नः : केन्द्रसर्वकारस्य ‘सतत्’ योजनायाः राज्यस्य जैवऊर्जानीतेश्च क्षेत्रस्तरीयः अनुभवः कीदृशः आसीत्?
उत्तरम् : केन्द्रसर्वकारस्य ‘सतत्’ ‘गोवर्धन’ इति योजनाभ्यां तथा उत्तरप्रदेशसर्वकारस्य जैवऊर्जानीतेः माध्यमेन अस्मिन् क्षेत्रे प्रोत्साहनं प्राप्तम्। प्रारम्भे नवीनप्रौद्योगिक्याः कारणात् आवश्यकानाम् अनुमतीनां प्राप्तौ समयः अभवत्, किन्तु अधुना प्रक्रियाः सरलाः अभवन् तथा नूतनानाम् उद्यमिनां कृते सहकारिता प्राप्यते।
प्रश्नः : प्रतिदिनं त्रिटनतः द्वादशटनपर्यन्तम् उत्पादनं वर्धयितुं प्रमुखं आव्हानं किम् अस्ति, पूँजी अथवा कच्चामालः?
उत्तरम् : संयन्त्रस्य उत्पादनक्षमतां वर्धयितुं सर्वप्रमुखम् आव्हानं कच्चामालस्य निरन्तरलब्धता अस्ति। वित्तपोषणस्य कापि महती समस्या नास्ति। अस्माकं ध्यानं कृषकैः शर्कराकारखानैश्च सह आपूर्तिव्यवस्थायाः सुदृढीकरणे अस्ति, येन प्रतिदिनं द्वादशटनस्य उत्पादनलक्ष्यं प्राप्तेऽपि कच्चामालस्य अभावः न भवेत्। अस्माकं व्यावहारिकानुभवानुसारं कच्चामालस्य सुलभा निरन्तरलब्धता एव सर्वाधिकं महत्त्वपूर्णः विषयः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani