भारत-यूरोपीयसङ्घयोः मुक्तव्यापारसन्धौ अस्मिन्नेव वर्षे हस्ताक्षराणि भविष्यन्तीति आशा - राधाकृष्णन्
नवदिल्ली, २८ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः राज्यसभायाश्च सभापतिः सी.पी. राधाकृष्णनः बुधवासरे आशाम् अव्यक्तवान् यत् भारतस्य यूरोपीयसङ्घस्य च मध्ये प्रस्ताविते मुक्तव्यापारसन्धौ अस्मिन्नेव वर्षे हस्ताक्षराणि भविष्यन्ति। सः अस्य सन्धौ वर्णनं ‘सर्
उपराष्ट्रपति और राज्यसभा के सभापति सी. पी. राधाकृष्णन बुधवार को संसद भवन में यूरोपीय संसद की विदेश मामलों की समिति (एएफईटी) के अध्यक्ष डेविड मैकलिस्टर के नेतृत्व में आए प्रतिनिधिमंडल से मुलाकात के दौरान


नवदिल्ली, २८ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः राज्यसभायाश्च सभापतिः सी.पी. राधाकृष्णनः बुधवासरे आशाम् अव्यक्तवान् यत् भारतस्य यूरोपीयसङ्घस्य च मध्ये प्रस्ताविते मुक्तव्यापारसन्धौ अस्मिन्नेव वर्षे हस्ताक्षराणि भविष्यन्ति। सः अस्य सन्धौ वर्णनं ‘सर्वेषां सन्धिनां जननी’ इति कृतवान् तथा च सन्धौ अन्तिमरूपप्रदाने आवश्यकसहयोगार्थं यूरोपीयसंसदः साहाय्यम् अयाचत।

राधाकृष्णनः संसद्भवने यूरोपीयसंसदः विदेशसम्बन्धसमितेः अध्यक्षस्य डेविड् मैकलिस्टर इत्यस्य नेतृत्वे आगतं प्रतिनिधिमण्डलं मिलितवान्। तस्मिन् अवसरे सः एतत् उक्तवान्। सः अवदत् यत् विगतेषु कतिपयेषु वर्षेषु भारतस्य यूरोपीयसङ्घस्य च सम्बन्धेषु विविधक्षेत्रेषु उल्लेखनीयः विकासः अभवत्। एतयोः सम्बन्धयोः प्रगतये उभयपक्षीयनेतृत्वस्य योगदानम् अपि सः प्रशंसितवान्।

उपराष्ट्रपतिः अवदत् यत् विश्वस्य द्वयोः बृहत्तमयोः लोकतान्त्रिकदेशयोः मुक्त-विपणाधारितार्थव्यवस्थयोः च रूपेण भारतं यूरोपीयसङ्घश्च विविधतापूर्णौ बहुलता-वादीसमाजौ स्तः। सुदृढायाः बहुध्रुवीयायाः वैश्विकव्यवस्थायाः निर्माणे उभयोः समानहितम् अस्ति।

सः अवदत् यत् २०२५ तमे वर्षे यूरोपीयायोगस्य अध्यक्षा उर्सुला वॉन डेर लेयेन इत्यस्याः नेतृत्वे सर्वकारीय-व्यवस्थायाः सर्वेषां विभागानां सहभागितया सम्पन्नस्य भारतदौरेण अनन्तरं उभयपक्षयोः संस्थागतसम्बन्धाः सुदृढाः अभवन् तथा च तेषां सकारात्मकपरिणामाः अपि दृष्टाः।

राधाकृष्णनः अवदत् यत् यूरोपीयपरिषदः यूरोपीयायोगस्य च अध्यक्षौ गणतन्त्र-दिवससमारोहे मुख्यातिथिरूपेण भागम् अगृह्णीताम्। ततः षोडशस्य भारत-यूरोपीयसङ्घशिखरसम्मेलनस्य कृते तयोः राजकीययात्रया उभयपक्षीयसहभागिता अत्यधिकं गतिम् अलभत।

व्यापारस्य निवेशस्य च विषये बलं ददन् सः अवदत् यत् भारतस्य यूरोपीयसङ्घस्य च संयुक्तविपण्यस्य मूल्यं प्रायः २५,००० अरब-अमेरिकीडॉलर-परिमितम् अस्ति तथा च अस्मिन् प्रायः द्विअर्बुदा: जनाः अन्तर्भवन्ति। भारतस्य प्रतिष्ठितायाः ‘होराइजन यूरोप’ इति अनुसन्धान-नवाचारयोजनाभि: सह सम्बद्धतायै वार्तानां समाप्तौ अपि सः सन्तोषम् अव्यक्तवान्।

उपराष्ट्रपतिः उच्चस्तरीयस्य रणनीतिक-समन्वयस्य क्षेत्रे भारत-यूरोपीय-सङ्घव्यापार-प्रौद्योगिकीपरिषदः भूमि-कायाः प्रशंसाम् अकरोत्। सः अवदत् यत् प्रौद्योगिक्याः अनुसन्धानस्य नवाचारस्य च क्षेत्रेषु सहयोगः उभयपक्षीय-सम्बन्धान् अधिकं सुदृढान् करिष्यति।

राधाकृष्णनः स्पेनदेशे बुधवासरे सम्पन्ने भीषणरेलदुर्घटनायाम् अपि गहनं दुःखम् अव्यक्तवान् तथा च मृतान् प्रति शोकसंवेदनाम् अर्पितवान्।

अस्मिन् उपवेशने राज्यसभायाः सदस्याः सञ्जयकुमारझा, सुरेन्द्रसिंहनागरः, अमर-पालमौर्यः तथा पी.टी. उषा च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan