निर्देशकः विवेक अग्निहोत्रिणः ‘ऑपरेशन सिंदूर’ इति चलचित्रे कार्तिक आर्यन् मुख्यभूमिकायां दृश्यते।
मुंबई, 28 अक्टूबरमासः (हि.स.)। निर्देशकस्य विवेक अग्निहोत्रिणः चलचित्रे ‘ऑपरेशन सिंदूर’ इत्यस्मिन् अभिनेता कार्तिक आर्यन् दृश्येत इति सम्भावना अस्ति। अस्मिन् चलचित्रे प्रमुखभूमिकायै तस्य चयनं कृतम् इति कथ्यते। तथापि निर्मातृभिः अद्यावधि तस्य सहभा
कार्तिक आर्यन - फोटो सोर्स एक्स


मुंबई, 28 अक्टूबरमासः (हि.स.)।

निर्देशकस्य विवेक अग्निहोत्रिणः चलचित्रे ‘ऑपरेशन सिंदूर’ इत्यस्मिन् अभिनेता कार्तिक आर्यन् दृश्येत इति सम्भावना अस्ति। अस्मिन् चलचित्रे प्रमुखभूमिकायै तस्य चयनं कृतम् इति कथ्यते। तथापि निर्मातृभिः अद्यावधि तस्य सहभागितायाः आधिकारिकपुष्टिः न कृता। अस्य चलचित्रस्य घोषणा विवेक अग्निहोत्रिणा अस्यैव वर्षस्य मार्चमासे कृता आसीत्। एतत् चलचित्रं लेफ्टिनेन्ट जनरल के. जे. एस. ‘टिनी’ ढिल्लन् इत्यस्य ‘ऑपरेशन सिंदूर: द अनटोल्ड स्टोरी ऑफ इण्डियाज डीप स्ट्राइक्स इनसाइड पाकिस्तान’ इति पुस्तकम् आधारीकृत्य निर्मीयते।

प्राप्तवृत्तानुसारं कार्तिक आर्यन् सम्प्रति निर्देशकस्य शिमित अमीनस्य ‘कैप्टन इण्डिया’ इति चलचित्रे व्यस्तः अस्ति। एतत् चलचित्रं यमनदेशे हूथीसंघर्षस्य पृष्ठभूमिम् आधारीकृत्य निर्मीयते। अस्य चलचित्रस्य छायाङ्कनं समाप्य सः ‘ऑपरेशन सिंदूर’ इति चलचित्रस्य सज्जतासु संलग्नः भवितुम् अर्हति। ‘द कश्मीर फाइल्स’ तथा ‘द वैक्सीन वॉर’ इत्यादीनि चलचित्राणि निर्माय प्रसिद्धस्य विवेक अग्निहोत्रिणा सह कार्तिकस्य एतत् प्रथमं चलचित्रं भविष्यति। अस्य चलचित्रस्य निर्माणं भूषणकुमारस्य टी-सीरीज् तथा विवेक अग्निहोत्रिणः आई एम बुद्धा प्रोडक्शन्स् इत्येताभ्यां संयुक्तरूपेण क्रियते।

विवेक अग्निहोत्रिणः कथनानुसारं ‘ऑपरेशन सिंदूर’ इति चलचित्रं केवलं देशभक्तिप्रधानचलचित्रत्वेन अथवा युद्धक्रियाप्रधाननाट्यरूपेण च सीमितं न भविष्यति। घटनानां यथार्थपरकं चित्रणं कर्तुं चलचित्रस्य गहनम् अनुसन्धानं क्रियते। अस्य कथानकं पहलगामे अभवत् आतङ्कवादी आक्रमणस्य तदनन्तरं भारतीयसेनया कृते प्रत्युत्तरात्मकसैन्याभियानस्य च पृष्ठभूमिम् आधारीकृत्य निर्मीयते। २०२५ तमस्य वर्षस्य मईमासस्य षष्ठदिनाङ्कात् दशमदिनाङ्कपर्यन्तं सञ्चालितस्य अभियानस्य घटनाः चलचित्रे प्रमुखतया प्रदर्शिताः भविष्यन्ति इति कथ्यते। अधुना दर्शकाः चलचित्रस्य आधिकारिककलाकारसूच्याः अन्येषां विवरणानां च घोषणायाः प्रतीक्षां कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani