कूनो राष्ट्रियाभयारण्यस्य नरचीतेः मृत्योः अन्वेषणाय केन्द्रेण प्रेषिता उच्चस्तरीया समितिः।
नवदिल्ली, 28 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य कूनो राष्ट्रियाभयारण्ये एकोनविंशतिमासीयस्य नरचीतेः गोलिकाछर्रैः आहतस्य मृत्योः अन्वेषणाय केन्द्रसर्वकारेण उच्चस्तरीयदलम् प्रेषितम्। चीता निर्वायाः सन्ततिः केएनजी२२ इत्याख्यः चीता अक्टोबरमासस्य २५ दि
सांकेतिक।


नवदिल्ली, 28 अक्टूबरमासः (हि.स.)।

मध्यप्रदेशस्य कूनो राष्ट्रियाभयारण्ये एकोनविंशतिमासीयस्य नरचीतेः गोलिकाछर्रैः आहतस्य मृत्योः अन्वेषणाय केन्द्रसर्वकारेण उच्चस्तरीयदलम् प्रेषितम्। चीता निर्वायाः सन्ततिः केएनजी२२ इत्याख्यः चीता अक्टोबरमासस्य २५ दिनाङ्के मुरैना इत्यस्य वनक्षेत्रे क्षतावस्थायां प्राप्तः। जबलपुरे शल्यचिकित्सायाः समये तस्य शरीरात् पञ्च छर्राः निष्कासिताः, किन्तु अक्टोबरमासस्य २७ दिनाङ्के तस्य मृत्युः अभवत्।

केन्द्रीयदले राष्ट्रियव्याघ्रसंरक्षणप्राधिकरणस्य (एनटीसीए) वन्यजीवापराधनियन्त्रणब्यूरो इत्यस्य (डब्ल्यूसीसीबी) च अधिकारिणः सम्मिलिताः सन्ति। दलं मध्यप्रदेशस्य वनविभागेन सह मिलित्वा घटनायाः अन्वेषणं करिष्यति तथा सुरक्षाव्यवस्थायाः समीक्षां च करिष्यति। राज्यसर्वकारेण अपि प्रकरणस्य अन्वेषणाय वनविभागस्य पुलिसविभागस्य च अधिकारिणां विशेषान्वेषणदलस्य गठनं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani