डॉ. भारतभूषणेन करडोहग्रामे सार्वजनिकपुस्तकालयस्य उद्घाटनं कृतम्, महाग्रामे सामुदायिकभवनस्य आधारशिला स्थापिता
कठुआ, २८ अक्टोबर (हि.स.)। कठुआविधानसभाक्षेत्रस्य विधायकः डॉ. भारतभूषणः बुधवासरे लखनपुरस्य समीपे करडोहग्रामे सार्वजनिकपुस्तकालयस्य उद्घाटनं कृत्वा तत् जनसामान्येभ्यः समर्पितवान्। ततः सः महाग्रामे रामलीलामण्डलस्य समीपे सामुदायिक-भवनस्य निर्माणकार्यस्
MLA Dr. Bharat Bhushan inaugurated a public library in Karoh.


कठुआ, २८ अक्टोबर (हि.स.)। कठुआविधानसभाक्षेत्रस्य विधायकः डॉ. भारतभूषणः बुधवासरे लखनपुरस्य समीपे करडोहग्रामे सार्वजनिकपुस्तकालयस्य उद्घाटनं कृत्वा तत् जनसामान्येभ्यः समर्पितवान्। ततः सः महाग्रामे रामलीलामण्डलस्य समीपे सामुदायिक-भवनस्य निर्माणकार्यस्य आधारशिलाम् अस्थापयत्। पुस्तकालयस्य विकासाय पञ्चलक्षरूप्यकाणि स्वीकृतानि सन्ति, सामुदायिकभवनस्य निर्माणं च त्रिलक्षरूप्यकाणाम् अनुमानितव्ययेन क्रियते।

करडोहग्रामे पुस्तकालयस्य उद्घाट-नानन्तरं विधायकः डॉ. भारतभूषणः अवदत् यत् ग्रामीणक्षेत्रे पुस्तकालयस्य सुविधा उपलब्धा भवति इति सन्तोषस्य विषयः अस्ति। अनेन युवसु विद्यार्थिषु च पठनस्य अभिरुचिः विकसितुं शक्यते तथा तेभ्यः प्रतियोगितापरीक्षाणाम् अन्यासां च शैक्षणिकपरीक्षाणां सज्जतायां साहाय्यं मिलिष्यति। पुस्तकालयः विद्यार्थिनां ज्ञानवर्धने शैक्षणिकविकासे च महत्त्वपूर्णां भूमिकां निर्वक्ष्यति इति सः अवदत्। विधायकः पुस्तकालयस्य निरीक्षणं कृतवान् तथा तत्र उपस्थितैः विद्यार्थिभिः सह संवादमपि कृतवान्।

विद्यार्थिभिः पुस्तकालयस्य दीर्घकालात् प्रचलितायाः याचनायाः पूर्तये विधायकाय आभारः प्रकटितः। अस्मिन् अवसरे पुस्तकालयस्य विकासे रुचिं प्रदर्शितवतः ग्रामीणविकासविभागस्य, कीरियां-गण्डियालखण्डस्य विकासाधिकारिण्याः सुकृतिकोळमहोदयायाः तस्याः च दलस्य प्रशंसा कृता।

तदनन्तरं विधायकः महाग्रामे रामलीला-मण्डलस्य समीपे सामुदायिकभवनस्य निर्माणकार्यस्य आधारशिलाम् अस्थापयत्। त्रिलक्षरूप्यकाणाम् अनुमानितव्ययेन निर्मीयमाणं भवनम् ग्रामवासिनां दीर्घकालीनायाः आवश्यकतायाः पूर्तये सहायकं भविष्यति। अनेन स्थानीयजनाः सामुदायिककार्यक्रमाणाम् आयोजनाय आवश्यकां सुविधां प्राप्स्यन्ति।

अस्मिन् अवसरे कीरियां-गण्डियाल-खण्डस्य विकासाधिकारिणी सुकृतिकोळः, जनपदविकासपरिषदः पूर्वोपाध्यक्षः रघुनन्दनसिंहः बबलू, लखनपुर-नगरसमितेः पूर्वाध्यक्षः रविन्द्रशर्मा, पवनशर्मा इत्यादयः ग्रामवासिनः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan