Enter your Email Address to subscribe to our newsletters

कोलकाता, 28 अक्टूबरमासः (हि. स.)।
पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्द्वधिकारी बुधवासरे प्रातः स्वामिविवेकानन्दस्य शिष्यायाः भगिनीनिवेदितायाः जयन्त्यवसरे तस्यै विनम्रां श्रद्धाञ्जलिम् अर्पितवान्। सः सामाजिकमाध्यमे सन्देशं प्रकाशित्य भगिनीनिवेदितायाः प्रति स्वसम्मानं प्रकटितवान्।
भगिनीनिवेदितायाः मूलनाम मार्गरेट् एलिजाबेथ् नोबल् इति आसीत्। तस्याः जन्म १८६७ तमस्य वर्षस्य अक्टोबरमासस्य २८ दिनाङ्के आयर्लैण्डदेशे अभवत्। सा शिक्षिका, लेखिका समाजसेविका च आसीत्। स्वामिविवेकानन्दस्य विचारैः प्रभाविता भूत्वा सा भारतं स्वकर्मभूमिम् अकरोत् तथा स्वजीवनं समाजसेवायै महिलाशिक्षायै च समर्पितवती।
१८९८ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के स्वामिविवेकानन्दात् दीक्षां प्राप्तवती। तदनन्तरं तस्यै ‘निवेदिता’ इति नाम प्राप्तम्। सा कोलकातानगरे बालिकानां शिक्षायै विद्यालयस्य स्थापनाम् अकरोत्। तस्मिन् समये महिलाशिक्षायाः प्रोत्साहनं महती सामाजिकसमस्या आसीत्। भगिनीनिवेदितया अस्मिन् क्षेत्रे महत्त्वपूर्णं योगदानं प्रदत्तम्।
१८९९ तमे वर्षे कोलकातानगरे प्लेगमहामार्याः समये सा स्वजीवनस्य चिन्ताम् अकृत्वा रोगिणां सेवाम् अकरोत्। सा भारतीयसंस्कृतेः, शिक्षायाः, राष्ट्रचेतनायाश्च प्रति समर्पिता आसीत्। तया भारतस्य स्वतन्त्रतासङ्ग्रामसम्बद्धानां देशभक्तानां क्रान्तिकारिणां च समर्थनम् अपि कृतम्।
भगिनीनिवेदितायाः निधनं १९११ तमस्य वर्षस्य अक्टोबरमासस्य १३ दिनाङ्के दार्जिलिङ्गनगरे अभवत्। महिलाशिक्षायां, समाजसेवायां, भारतस्य प्रति समर्पणभावे च तस्याः योगदानस्य कारणात् अद्यापि सा सादरं स्मर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani