Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।दिल्लीविश्वविद्यालयस्य अन्तर्महाविद्यालयीयायां पुरुषमहिलाहॉकीप्रतियोगितायां २०२६-२७ तमस्य सत्रस्य द्वितीये दिने पुरुषवर्गे आयोजकः श्यामलालमहाविद्यालयः (प्रातः), श्रीगुरुतेगबहादुरखालसामहाविद्यालयः, हंसराजमहाविद्यालयः, श्रीरामवाणिज्यमहाविद्यालयश्च स्वस्वक्वार्टरफाइनलस्पर्धाः विजित्य सुपरलीगचक्रे प्रवेशं प्राप्तवन्तः।
आयोजकः श्यामलालमहाविद्यालयः किरोडीमलमहाविद्यालयं ७-० इति गोलाङ्कैः पराजितवान्। विजेतृदलस्य नवीनबिधूडी उत्कृष्टं प्रदर्शनं कुर्वन् त्रयः गोलान् कृतवान्, प्रत्यूषसिंहजग्गी नन्दकिशोरश्च द्वौ द्वौ गोलौ कृतवन्तौ।
द्वितीये स्पर्धायां श्रीगुरुतेगबहादुरखालसामहाविद्यालयस्य इन्दिरागान्धीशारीरिकशिक्षाक्रीडाविज्ञानसंस्थानस्य च मध्ये तीव्रा स्पर्धा अभवत्। निर्धारितसमयपर्यन्तम् उभे दले गोलं कर्तुं न अशक्नुताम्, परिणामतः अङ्कस्थितिः ०-० आसीत्। ततः निर्णायकप्रहारस्पर्धायां खालसामहाविद्यालयः ३-१ इति गोलाङ्कैः विजयं प्राप्य सुपरलीगचक्रे स्थानं प्राप्तवान्।
हंसराजमहाविद्यालयः सेन्ट् स्टीफन्समहाविद्यालयं ३-० इति गोलाङ्कैः पराजितवान्। हंसराजमहाविद्यालयस्य हर्षः द्वौ गोलौ कृतवान्, रविराजश्च एकं गोलं कृतवान्।
श्रीरामवाणिज्यमहाविद्यालयः राजधानीमहाविद्यालयं ७-० इति गोलाङ्कैः पराजितवान्। विजेतृदलस्य इन्द्रपालः द्वौ गोलौ कृतवान्। रक्षितसिंहः, चिरागः, आयुषः, अनमोलसिंहः, मनसिमरनश्च एकैकं गोलं कृत्वा दलस्य महाविजये योगदानम् अददुः।
---------------
Hindusthan Samachar / Dheeraj Maithani