अधुना प्रत्येकं कक्षां यावत् क्रीडासन्देशः प्राप्स्यति, क्रीडाशिक्षामन्त्रालयस्य यूनेस्कोसंस्थया सह सहमतिः
अधुना प्रत्येकं कक्षां यावत् क्रीडायाः सन्देशः प्राप्स्यति, क्रीडामन्त्रालयस्य शिक्षामन्त्रालयस्य यूनेस्कोसंस्थायाश्च मध्ये सहमतिपत्रे हस्ताक्षराणि। नवदिल्ली, २८ अक्टोबरमासः (हि.स.)। देशस्य सर्वेषु विद्यालयेषु क्रीडामूल्यानां तथा डोपिङ्गदोषरहितक्र
खेल और शिक्षा मंत्रालय ने यूनेस्को के साथ किया ऐतिहासिक समझौता


अधुना प्रत्येकं कक्षां यावत् क्रीडायाः सन्देशः प्राप्स्यति, क्रीडामन्त्रालयस्य शिक्षामन्त्रालयस्य यूनेस्कोसंस्थायाश्च मध्ये सहमतिपत्रे हस्ताक्षराणि।

नवदिल्ली, २८ अक्टोबरमासः (हि.स.)। देशस्य सर्वेषु विद्यालयेषु क्रीडामूल्यानां तथा डोपिङ्गदोषरहितक्रीडायाः विषये जागरूकतायाः संवर्धनार्थं युवा-कार्यक्रम-क्रीडामन्त्रालयेन, शिक्षामन्त्रालयेन, यूनेस्कोसंस्थया च बुधवासरे ऐतिहासिके सम्झौतापत्रे हस्ताक्षराणि कृतानि। अस्याः पहलस्य उद्देश्यं ‘प्रत्येकस्मिन् कक्षाकोष्ठे क्रीडामूल्यसम्बद्धं साधनसङ्ग्रहम्’ इत्यस्य माध्यमेन बालकेषु सम्मानः, सत्यनिष्ठा, निष्पक्षता इत्यादीन् मूल्यान् शिक्षायाः, क्रीडायाः, कक्षायाः दैनिकक्रियाकलापानां च अभिन्नभागं कर्तुम् अस्ति। साधनसङ्ग्रहस्य दृश्यचित्राधारिताः शिक्षणांशाः त्रयोदशभारतीयभाषासु उपलब्धाः कारयिष्यन्ते, येन देशस्य सर्वेषां विद्यार्थिनां यावत् एतेषां प्राप्तिः भवेत् तथा सुदृढा निष्पक्षा च क्रीडाव्यवस्था विकसितुं शक्नुयात्।

अस्मिन् सहमतिपत्रे अत्र आयोजिते राष्ट्रियप्रतिडोपिङ्गसंस्थायाः (नाडा इण्डिया) स्वच्छक्रीडासम्मेलने हस्ताक्षराणि अभवन्। केन्द्रीययुवा-कार्यक्रम-क्रीडामन्त्री डॉ. मनसुखमाण्डवियः तथा केन्द्रीयशिक्षामन्त्री प्रल्हादजोशी च अस्मिन् अवसरे क्रीडायाः शिक्षायाश्च एकीकरणस्य आवश्यकतायाः विषये बलं दत्तवन्तौ। एषा पहलः ‘खेलो भारतनीतिः २०२५’ इत्यस्यां प्रतिपादितायाः क्रीडाशिक्षयोः समन्वयसम्बद्धायाः अवधारणायाः अनुरूपा अस्ति।

सम्मेलने दक्षिण एशियायै यूनेस्कोसंस्थायाः क्षेत्रीयकार्यालयस्य निदेशकः डॉ. टिम कर्टिसः, शिक्षामन्त्रालयस्य विद्यालयशिक्षाविभागस्य सचिवः टी. के. अनिलकुमारः, युवा-कार्यक्रम-क्रीडामन्त्रालयस्य क्रीडासचिवः हरिरञ्जनरावः, नाडा संस्थायाः महानिदेशकः अनन्तकुमारश्च उपस्थिताः आसन्। मङ्गलवासरे यूनेस्कोसंस्थायाः प्रतिडोपिङ्गसम्मेलनानां वैधानिकोपवेशनेषु भागं गृहीतवन्तः अन्तरराष्ट्रीयप्रतिनिधयः अपि सम्मेलने भागम् अगृह्णन्। भारतीयभालाक्षेपकः सचिनयादवः अपि अस्मिन् सम्मेलने सम्मिलितः अभवत्।

क्रीडायाम् उत्कृष्टतया सह सत्यनिष्ठा अपि आवश्यकी : माण्डवियः

डॉ. मनसुखमाण्डवियः शिक्षामन्त्रालयस्य सहयोगस्य प्रशंसां कुर्वन् अवदत् यत् एषा सहभागिता प्रधानमन्त्री नरेन्द्रमोदिनः दृष्टिकोणानुसारं क्रीडायाः शिक्षायाश्च समन्वयं स्थापयितुं भारतसर्वकारस्य प्रतिबद्धतां प्रदर्शयति। तेन उक्तम्, “क्रीडायाम् उत्कृष्टता क्रीडायाः सत्यनिष्ठया सहैव गन्तव्या। क्रीडायां सफलतायै प्रतिभा, अनुशासनं, कठिनपरिश्रमश्च आवश्यकाः, किन्तु सत्यनिष्ठा, निष्पक्षता, विश्वसनीयता च समानरूपेण महत्त्वपूर्णाः सन्ति।”

क्रीडामन्त्रिणा एशियाईक्रीडासु एशियाईपैराक्रीडासु च भारतस्य चतुर्थस्थानप्राप्तेः उल्लेखः कृतः। तेन उक्तं यत् एतत् भारतीयक्रीडायाः वर्धमानं सामर्थ्यं महत्त्वाकाङ्क्षां च प्रदर्शयति। तथापि डोपिङ्गदोषः अद्यापि गम्भीरचिन्तायाः विषयः अस्ति। अस्य निवारणाय शिक्षा, प्रतिरोधः, परीक्षणं, नियमानां प्रभाविप्रवर्तनं च निरन्तरं कर्तव्यम्।

डॉ. माण्डवियः अवदत्, “२०२५-२६ तमे वर्षे भारतीयराष्ट्रियप्रतिडोपिङ्गसंस्थया सप्तसहस्राधिकानि परीक्षणानि कृतानि तथा जागरूकतायाः शिक्षायाश्च त्रिशताधिकानि सत्राणि आयोजितानि। एतेषां सत्राणां माध्यमेन सप्तविंशतिसहस्राधिकाः प्रतिभागिनः सम्पर्किताः।”

तेन अग्रे उक्तम्, “गान्धीनगरे स्थिते राष्ट्रियविधिविज्ञानविश्वविद्यालये हैदराबादनगरे स्थिते राष्ट्रियम्औषधीयशिक्षानुसन्धानसंस्थाने च पूरकपदार्थानां परीक्षणसुविधाः अनवधानतः सम्भवमानानि डोपिङ्गप्रकरणानि निवारयितुं अधिकं साहाय्यं कुर्वन्ति। एतदतिरिक्तं नाडा संस्थायाः अन्तः अन्वेषणव्यवस्था वैश्विकप्रथानाम् अनुरूपं सुदृढा करिष्यते। राष्ट्रियप्रतिडोपिङ्गविधिः अस्मिन् वर्षे प्रवृत्तः अस्ति तथा शासनं डोपिङ्गसम्बद्धक्रियाकलापान् अपराधश्रेण्यां समावेशयितुं प्रावधानानि संसदः पुरतः प्रस्तोतुं सज्जताम् अपि करोति।”

सहमतिपत्रेण शिक्षायाः क्रीडायाश्च अन्तरं न्यूनीभविष्यति : जोशी

केन्द्रीयशिक्षामन्त्री प्रल्हादजोशी अवदत् यत् एतत् सम्झौतापत्रं शिक्षायाः क्रीडायाश्च मध्ये दीर्घकालात् विद्यमानम् अन्तरं न्यूनीकर्तुं साहाय्यं करिष्यति। तेन उक्तं यत् बहुवारं अध्ययनक्षेत्रे उत्तमं प्रदर्शनं कुर्वन्तः विद्यार्थी क्रीडासु भागं न गृह्णन्ति। अतः आधारस्तरे क्रीडावसरान् वर्धयितुं युवा-क्रीडकानां कृते च उन्नत्यर्थं उत्तमान् मार्गान् निर्मातुम् आवश्यकता अस्ति।

जोशी अवदत्, “एतत् सम्झौतापत्रं शिक्षायाः क्रीडायाश्च सम्बन्धं सुदृढं कर्तुं महत्त्वपूर्णं पदम् अस्ति। अस्याः आवश्यकतायाः अभावः दीर्घकालात् अनुभूयते स्म। अस्याः पहलस्य माध्यमेन वयं सुनिश्चितं कर्तुं प्रयतामहे यत् क्रीडामूल्यानि प्रत्येकस्य बालकस्य शैक्षणिकानुभवस्य अभिन्नभागानि भवन्तु।”

तेन अग्रे उक्तम्, “बालकाः अधुना स्वच्छक्रीडायाः तया सम्बद्धानां मूल्यानां च विषये शिक्षिताः क्रियन्ते इति ज्ञात्वा महती प्रसन्नता भवति। अस्य साधनसङ्ग्रहस्य माध्यमेन प्रसारितानि मूल्यानि कक्षाकोष्ठेभ्यः बहिः गत्वा समाजस्य प्रत्येकं वर्गं यावत् प्राप्नुयुः। शिक्षायां क्रीडामूल्यानां समावेशेन वयं उत्तरदायिनः नागरिकान् निर्मातुं तथा अल्पवयः एव निष्पक्षतायाः सत्यनिष्ठायाश्च संस्कृतिं विकसितुं साहाय्यं कर्तुं शक्नुमः।”

बालकान् नियमानुसारं क्रीडितुं शिक्षयिष्यति साधनसङ्ग्रहः : यूनेस्को

दक्षिण एशियायै यूनेस्कोसंस्थायाः क्षेत्रीयकार्यालयस्य निदेशकः डॉ. टिम कर्टिसः अस्य सम्झौतापत्रस्य भारतस्य सह यूनेस्कोसंस्थायाः सहभागितायाः नूतनाध्यायः इति वर्णितवान्। तेन उक्तं यत् अस्याः पहलस्य माध्यमेन लक्षशः युवजनान् यावत् प्राप्नुं शक्यते तथा एषा अन्येषां देशानाम् अपि आदर्शः भवितुम् अर्हति। कर्टिसः अवदत्, “कक्षायां उपविष्टः प्रत्येकः बालकः नियमानुसारं क्रीडनस्य अर्थं ज्ञातुं शक्नोति। अस्य साधनसङ्ग्रहस्य माध्यमेन वयं शिक्षायां क्रीडायां च त्रयः मूलभूतमूल्यानि समावेशयामः—सम्मानः, सत्यनिष्ठा, निष्पक्षता च।”

तेन अग्रे उक्तम्, “एषः साधनसङ्ग्रहः विचारान् व्यावहारिकसंसाधनानि च प्रददाति, किन्तु एतेषां मूल्यानां वास्तविकरूपप्रदानस्य कार्यं शिक्षकाः कुर्वन्ति। विद्यालयस्य क्रीडाङ्गणे किं भवति, बालकाः च दैनन्दिनपरिस्थितिषु परस्परं कथं व्यवहरन्ति इति अस्माभिः द्रष्टव्यम्। एतेषां मूल्यानां वास्तविकपरीक्षा तदा भवति, यदा कोऽपि न पश्यति, तथापि बालकाः निष्पक्षतया क्रीडन्ति। वयं बाल्यावस्थायाः एव बालकेषु एतादृशीं सत्यनिष्ठां विकसितुम् इच्छामः।

अनेन सहमतिपत्रेण शासनस्य यूनेस्कोसंस्थायाश्च लक्ष्यं क्रीडामूल्यानि केवलं क्रीडाङ्गणपर्यन्तं सीमितानि न स्थापयित्वा बालकानां शिक्षायाः दैनिकजीवनस्य च अभिन्नभागानि कर्तुम् अस्ति, येन देशे निष्पक्षायाः, उत्तरदायिन्याः, डोपिङ्गदोषरहितायाश्च क्रीडासंस्कृतेः संवर्धनं भवेत्।

Hindusthan Samachar / Dheeraj Maithani