Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 28 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य उज्जयिन्यां स्थितेे विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे बुधवासरे प्रभाते भगवान् महाकालस्य भस्मारती राजस्वरूपेण सम्पन्ना। प्रातः चतुर्वादने मन्दिरस्य द्वाराणि उद्घाटितानि। तदनन्तरं वैदिकमन्त्राणाम् उच्चारणेन पूजनम् अभिषेकश्च कृतः। ततः बाबा महाकालाय भस्म समर्प्य शेषनागस्य रजतमुकुटं, रजतमुण्डमालां, रुद्राक्षमालां, सुगन्धितपुष्पाणि च समर्पितानि। दिव्यशृङ्गारेण विभूषितस्य भगवान् महाकालस्य दर्शनाय बहुसङ्ख्याकाः श्रद्धालवः समागताः। भक्ताः भगवतः दर्शनं कृत्वा आशीर्वादं प्राप्तवन्तः जयघोषांश्च अकुर्वन्।
बुधवासरे प्रातः निर्धारितपरम्परानुसारं मन्दिरस्य द्वाराणि उद्घाटितानि। सर्वप्रथमं वीरभद्राय प्रणामं कृत्वा स्वस्तिवाचनं कृतम्। ततः अनुमतिं प्राप्य रजतद्वाराणि उद्घाटितानि। गर्भगृहे अर्चकैः भगवान् महाकालः पूजितः। जलाभिषेकानन्तरं दुग्धं, दधि, घृतं, शर्करां, मधु, फलरसांश्च संयोज्य निर्मितेन पञ्चामृतेन अभिषेकः कृतः। पूजनकाले मन्त्राणाम् उच्चारणेन धार्मिकविधिविधानैश्च भगवतः अभिषेकः सम्पन्नः। ततः कर्पूरारती कृता।
भाङ्गेन चन्दनेन आभूषणैश्च कृतः शृङ्गारः
पञ्चामृतपूजनानन्तरं भगवान् महाकालाय भाङ्गं, चन्दनं, सिन्दूरं च समर्पितम्। ततः बाबा महाकालस्य राजस्वरूपेण दिव्यशृङ्गारः कृतः। भगवते शेषनागस्य रजतमुकुटं, रजतमुण्डमालां, रुद्राक्षमालां, सुगन्धितपुष्पमालाश्च समर्पिताः। आभूषणैः पुष्पैश्च विभूषितस्य बाबा महाकालस्य स्वरूपं श्रद्धालूनाम् आकर्षणस्य केन्द्रम् अभवत्। पूजनकाले शुष्कफलानि, फलानि, मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि।
महानिर्वाणी-अखाडापक्षतः समर्पिता भस्म
भस्मारत्याः परम्परानुसारं भस्मसमर्पणात् पूर्वं भगवते हरिओमजलम् अर्पितम्। प्रथमघण्टानादेन सह मन्त्राणाम् उच्चारणं कृतम्। कर्पूरारत्यनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म समर्पितम्। महानिर्वाणी-अखाडापक्षतः बाबा महाकालाय भस्म अर्पिता। धार्मिकमान्यतानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपेण भक्तेभ्यः दर्शनं ददाति।
जयघोषैः प्रतिध्वनितं मन्दिरपरिसरम्
भस्मारत्याः समये मन्दिरपरिसरे श्रद्धालूनां समागमः अभवत्। भक्ताः बाबा महाकालस्य दर्शनं कृत्वा नन्दिमहाराजस्य दर्शनम् अपि कृतवन्तः तथा स्वमनोकामनानां पूर्तये प्रार्थनां कृतवन्तः। अनेके श्रद्धालवः नन्दिमहाराजस्य कर्णसमीपे स्वमनोकामनाः निवेदयन्तः दृष्टाः। अस्मिन् समये मन्दिरपरिसरः बाबा महाकालस्य जयघोषैः प्रतिध्वनितः अभवत्। धार्मिकश्रद्धायाः पारम्परिकविधिविधानानां च मध्ये सम्पन्नायां भस्मारत्यां श्रद्धालवः भगवान् महाकालस्य आशीर्वादं प्राप्तवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani