Enter your Email Address to subscribe to our newsletters

— यूजीसी-नेट्, जेआरएफ् तथा निर्धारितश्रेणीणाम् अभ्यर्थिनः अवसरं प्राप्स्यन्ति, शोधप्रस्तावसहितम् आवश्यक-तथ्यानां समर्पणम् अनिवार्यम्
प्रयागराजः, २८ अक्टोबरमास: (हि.स.)। इलाहाबादविश्वविद्यालयस्य आङ्ग्ल-भाषायाः आधुनिकयूरोपीयभाषाणां च विभागे विद्यावारिध्युपाध्यर्थं प्रवेशाय आवेदनप्रक्रिया प्रारब्धा अस्ति। इच्छुकाः योग्यताम् आपन्नाश्च अभ्यर्थिनः नवम्बरमासस्य १६ दिनाङ्के सायं पञ्चवादनपर्यन्तं स्वीयम् आवेदनपत्रं, शोधप्रस्तावं, आवश्यकतथ्यानि च विभागीयकार्यालये समर्पयितुं शक्नुवन्ति। प्रवेशप्रक्रियायां यूजीसी-जेआरएफ् उत्तीर्णाः अभ्यर्थिनः, यूजीसी-नेट् परीक्षायाः निर्धारिताङ्कानाम् आधारेण योग्यताम् आपन्नाः अभ्यर्थिनः तथा नियमानुसारं छूटं प्राप्ताः अभ्यर्थिनश्च सम्मिलिताः भविष्यन्ति। शोधाभिरुचिपरीक्षायाः तिथिः अनन्तरं घोषयिष्यते।
यूजीसी-नेट् परीक्षाङ्कानाम् आधारेण प्रवेशस्य अवसरः
विभागेन निर्गतायाः सूचनायाः अनुसारं यूजीसी-नेट् श्रेण्याः अभ्यर्थिनां कृते विभिन्नवर्गानुसारं न्यूनतमाङ्काः निर्धारिताः सन्ति। सामान्यवर्गस्य कृते १९६ अथवा ततोऽधिकाः, आर्थिकरूपेण दुर्बलवर्गस्य कृते १८८ अथवा ततोऽधिकाः, अन्यपृष्ठवर्तिवर्गस्य कृते १७० अथवा ततोऽधिकाः, अनुसूचितजातिवर्गस्य कृते १६२ अथवा ततोऽधिकाः, अनुसूचित-जनजातिवर्गस्य कृते १३८ अथवा ततोऽधिकाः अङ्काः निर्धारिताः सन्ति। दिव्याङ्गवर्गस्य अभ्यर्थिनां कृते १४० अथवा ततोऽधिकाः अङ्काः निर्धारिताः सन्ति।
यूजीसी-जेआरएफ्-योग्यतां धारयन्तः अभ्यर्थिनः अपि आवेदनं कर्तुं शक्नुवन्ति। एतेषाम् अतिरिक्तं निर्धारितनियमानुसारं शिथिलता: प्राप्ताः अभ्यर्थिनः, अंश-कालिकाभ्यर्थिनः, अध्यापकाः च आवेदनं कर्तुं शक्नुवन्ति। सर्वैः अभ्यर्थिभिः स्वस्वश्रेण्याः सम्बन्धिताः योग्यताशर्ताः पूरयितव्याः।
द्विसहस्रात् त्रिसहस्रशब्दपरिमितः शोध-प्रस्तावः अनिवार्यः
आवेदनपत्रेण सह यूजीसी-नेट् अथवा जेआरएफ् परीक्षायाः अङ्कपत्रम्, स्नातकोत्तरस्य स्नातकस्य च अङ्कसूच्यः प्रमाणपत्राणि च, उच्चविद्यालयस्य अन्तर्विद्यालयस्य च प्रमाणपत्राणि अङ्कसूच्यश्च समर्पणीयानि सन्ति। आरक्षितवर्गस्य ईडब्ल्यूएस-वर्गस्य च अभ्यर्थिभिः केन्द्रसर्वकारेण निर्धारितप्रारूपे प्रमाणपत्रं दातव्यम्। दिव्याङ्गाभ्यर्थिभिः सम्बन्धितं प्रमाणपत्रमपि प्रस्तुतव्यम्।
नियोजिताभ्यर्थिभिः, यत्र आवश्यकं भवति, वर्तमाननियोक्तुः अनापत्तिप्रमाणपत्रं दातव्यम्। निर्धारितश्रेण्याम् आवेदनं कुर्वद्भ्यः अभ्यर्थिभ्यः आवश्यकतानुसारं न्यूनातिन्यूनं दशवर्षाणाम् अनुभवस्य प्रमाणपत्रमपि अपेक्षितम् अस्ति। एतदतिरिक्तं परिचयपत्रं, सद्यः कृते द्वे पासपोर्टाकारचित्रे, निर्धारितप्रारूपे २,००० तः ३,००० शब्दपरिमितः शोधप्रस्तावः अथवा शोधसारांशश्च समर्पणीयः।
विश्वविद्यालयस्य जालपुटात् आवेदनपत्रं डाउनलोड् कुर्वन्तु
अभ्यर्थिनः इलाहाबादविश्वविद्यालयस्य आधिकारिकजालपुटे उपलब्धम् आवेदनपत्रं डाउनलोड् कर्तुं शक्नुवन्ति।
आवेदनपत्रस्य साक्षात् सम्पर्कसूत्रम् :
https://allduniv.ac.in/public/forms/1620895489dphil-form.pdf
विभागेन अभ्यर्थिनः परामृष्टाः यत् आवेदनात् पूर्वं प्रवेशसम्बन्धिनीं सूचनां योग्यतायाः शर्ताश्च सावधानतया पठेयुः। सर्वैः आवश्यकतथ्यै: सह निर्धारितसमयसीमायाः अन्तः आवेदनपत्रं समर्पणीयम्। शोधाभिरुचिपरीक्षायाः तिथिः विभागपक्षतः अनन्तरं घोषयिष्यते।
Hindusthan Samachar / Divya Ranjan