Enter your Email Address to subscribe to our newsletters

— राष्ट्रियैक्यस्य अखण्डतायाश्च कृते समर्पितम् आसीत् लौहपुरुषस्य जीवनम् : जगदीशपटेलः
वाराणसी, २८ अक्टोबर (हि.स.)। लौहपुरुषस्य भारतरत्नस्य सरदार-वल्लभभाईपटेलस्य जयन्त्यवसरे भारतीयजनतापक्षेण राष्ट्रवादस्य, सामाजिकसमरसतायाः, राष्ट्रियैक्यस्य च सन्देशं जन-जनं यावत् प्रापयितुं ‘सर्वोच्चः सरदारः’ इति अभियानस्य शुभारम्भः कृतः। भाजपायाः पृष्ठवर्गमोर्चाद्वारा बुधवासरात् अक्टोबरमासस्य ३१ दिनाङ्कपर्यन्तं प्रचलिष्यमाणस्य अस्य अभियानस्य शुभारम्भः उत्तरप्रदेशस्य सर्वेषु ९८ सङ्गठनात्मकेषु जनपदेषु कृतः।
अस्यैव अभियानस्य अन्तर्गतं भाजपायाः पृष्ठवर्गमोर्चाया: काशीक्षेत्रेण सिगरा-स्थितात् भारतमातामन्दिरात् मलदहिया-स्थितां सरदारपटेलस्य प्रतिमां यावत् पदयात्रा आयोजिता। अस्यां यात्रायां सर्वकारस्य मन्त्रिणः, जनप्रतिनिधयः, भाजपायाः पदाधिकारिणः, कार्यकर्तारश्च भागं गृहीतवन्तः। ‘सरदारपटेलः अमरः भवतु’ इति उद्घोषैः सह पदयात्रा इङ्ग्लिशियालैन्-मार्गेण मलदहियां प्राप्तवती।
पदयात्रायाः पूर्वं भारतमातामन्दिरस्य परिसरे स्वच्छताभियानं सञ्चालितम्। ततः भारतमातुः प्रतिमायै पुष्पाञ्जलिः समर्पिता तथा दीपाराधना कृता। पदयात्रायाः समापनावसरे अतिथिभिः सरदारपटेलस्य प्रतिमायाः दुग्धेन गङ्गाजलेन च अभिषेकः कृतः। ततः माल्यार्पणं कृत्वा ते सरदारपटेलं नतवन्तः।
पिछडावर्गमोर्चाया: कार्यकर्तॄणां राष्ट्र-भक्तानां च सहभागितया आयोजितस्य कार्यक्रमस्य माध्यमेन भाजपया सरदारपटेलस्य राष्ट्रनिर्माणे, देशीयानां संस्थानानाम् एकीकरणे, देशस्य ऐक्यस्य अखण्डतायाश्च रक्षणे च तस्य योगदानं प्रमुखतया प्रस्तुतम्।
पदयात्रायां सम्मिलितः पक्षस्य राष्ट्रियसचिवः उत्तरप्रदेशस्य सहप्रभारी च जगदीशपटेलः अवदत् यत् भारतरत्नस्य सरदारवल्लभभाईपटेलस्य सम्पूर्णं जीवनं राष्ट्रियैक्यस्य अखण्डतायाश्च कृते समर्पितम् आसीत्। देशस्य संस्थानानाम् एकीकरणेन सः सुदृढभारतस्य आधार-स्थापनायां ऐतिहासिकीं भूमिकाम् निर्वुढवान्।
‘सर्वोच्चः सरदारः’ इत्यभियानस्य उद्देश्यम् युववंशे राष्ट्रभक्तेः, सामाजिकसमरसतायाः, राष्ट्रियैक्यस्य च भावनां सुदृढां कर्तुं तथा सरदारपटेलस्य राष्ट्रनिर्माणे योगदानं जनं जनं यावत् प्रापयितुम् अस्ति।
काशीक्षेत्रस्य अध्यक्षः अशोकचौरसिया अवदत् यत् सरदारपटेलस्य सम्पूर्णं जीवनं युवभ्यः प्रेरणादायकम् अस्ति। देशस्य ऐक्यस्य, अखण्डतायाः, सार्वभौमत्वस्य च रक्षणाय तस्य योगदानम् अटूटः सङ्कल्पश्च देशवासिनः ‘एकभारतं श्रेष्ठभारतं’ निर्मातुं सर्वदा प्रेरयिष्यतः।
प्रदेशसर्वकारस्य राज्यमन्त्री हंसराज-विश्वकर्मा अवदत् यत् आधुनिकभारतस्य स्वरूपनिर्माणे सरदारपटेलस्य योगदानं सर्वदा स्मरिष्यते। तस्य जीवनं राष्ट्रहितं सर्वोपरि स्थापयितुं देशस्यैक्यरक्षणाय च दृढसङ्कल्पेन कार्यं कर्तुं प्रेरणां ददाति।
कार्यक्रमस्य संयोजनं भाजपायाः पृष्ठवर्गमोर्चाया: क्षेत्रीयाध्यक्षेण चौधरी-इन्द्रभूषणमौर्येण कृतम्।
अस्मिन् कार्यक्रमे भाजपायाः जनपदा-ध्यक्षः रामसकलपटेलः, जनपदपञ्चा-यतस्य अध्यक्षा पूनममौर्या, प्रदेशप्रवक्ता कौशलेन्द्रपटेलः, पृष्ठवर्गमोर्चस्य काशी-क्षेत्राध्यक्षः चौधरीइन्द्रभूषणमौर्यः, पृष्ठ-वर्गमोर्चाया: प्रदेशमहासचिवा ज्योतिसोनी, क्षेत्रीयोपाध्यक्षः नवरतनराठी, क्षेत्रीय-महासचिवः अनूपजायसवालः, क्षेत्रीयसह-मीडियाप्रभारी सन्तोषसोलापुरकरः इत्यादयः सहभागिनः अभवन्।
Hindusthan Samachar / Divya Ranjan