Enter your Email Address to subscribe to our newsletters

— भारतं स्वसहभागिभिः सह सुरक्षितस्य, स्थिरस्य, शान्तिपूर्णस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणाय प्रतिबद्धम्
नवदिल्ली
२९ अक्टोबरमासः (हि.स.)। फिलिपीन्सदेशस्य सेबूनगरे आयोजितायां त्रयोदशायां आसियान-रक्षामन्त्रिणां विस्तारितायां सभायां रक्षामन्त्री राजनाथसिंहः अवदत् यत् आतङ्कवादस्य विरुद्धं भारतस्य सङ्घर्षः केवलं सैद्धान्तिकः नास्ति, अपितु दशकेभ्यः प्राप्तेन प्रत्यक्षानुभवेन सफलाभियानैश्च अधिकं सुदृढः अभवत्। ‘सिन्दूर-अभियानेन’ आतङ्कवादिनां संरचनां विनाश्य विश्वाय आतङ्कवादस्य विरुद्धं भारतस्य दृढसङ्कल्पः प्रदर्शितः। भारतं स्वसहभागिभिः सह एतम् अनुभवं संविभज्य सुरक्षितस्य, स्थिरस्य, शान्तिपूर्णस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणाय प्रतिबद्धम् अस्ति।
भारतीयप्रतिनिधिमण्डलेन सह सभायां भागं गृह्णन् राजनाथसिंहः आसियानदेशानां रक्षामन्त्रिणां समक्षम् अवदत् यत् भारतस्य आसियानदेशानां च युवजनसङ्ख्या अस्माकं महत्तमा शक्तिः अस्ति। अस्याः क्षमतायाः सदुपयोगाय भारतं सुदृढस्य ‘रक्षा-युवा-सेतुः’ स्थापनायाः प्रस्तावम् उपस्थापितवान्। अयं सेतुः जनानां परस्परसम्पर्कं, अङ्कीयनवाचारं, क्षमतानिर्माणं च प्रोत्साहयिष्यति। युवजनान् सशक्तीकृत्य वयं सुखदस्य, स्थिरस्य, समृद्धस्य च हिन्द-प्रशान्तक्षेत्रस्य भविष्यं सुदृढं करिष्यामः।
सः अवदत् यत् ‘सर्वे भवन्तु सुखिनः’ इत्यस्य भावनायाः भारतस्य रक्षानीतेः विदेशनीतेश्च मूलाधारः अस्ति। एडीएमएम-प्लस-समागमस्य ‘अस्माकं भविष्यं मिलित्वा अग्रे नयामः’ इति विषयवस्तु सामूहिकदायित्वस्य, पारस्परिकविश्वासस्य, सहयोगस्य च महत्त्वं प्रदर्शयति। भारतम् उदारस्य, समावेशिनः, नियमाधारितस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणाय प्रतिबद्धम् अस्ति, यस्मिन् आसियानस्य केन्द्रीयभूमिका भारतस्य च दीर्घकालीनं सामरिकसहभागित्वं महत्त्वपूर्णे स्तः। भारतं दशकेभ्यः भारतीयनौसेनायाः माध्यमेन वैश्विकसमुद्रीव्यापारस्य महत्त्वपूर्णानां समुद्रीसञ्चारमार्गाणां च सुरक्षां सुनिश्चितवान् अस्ति।
विश्वसनीयस्य सुरक्षाप्रदातुः रूपेण भारतं नौसञ्चारस्वातन्त्र्यस्य अन्ताराष्ट्रियसमुद्रीविधेः सम्मानस्य च माध्यमेन सुरक्षितस्य स्थिरस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणाय प्रतिबद्धम् अस्ति।
राजनाथसिंहः आतङ्कवादस्य सर्वेषां रूपाणाम् उन्मूलनाय सामूहिकक्षेत्रीयसुरक्षायै च भारतस्य प्रतिबद्धतां पुनः दृढीकृतवान्। सः अवदत् यत् आतङ्कवादविरोधिकार्याचरणेषु भारतस्य व्यापकः अनुभवः केवलं कक्षायां प्राप्तं सैद्धान्तिकज्ञानं नास्ति, अपितु सीमापारं विद्यमानानां जटिलानां सुरक्षा-समस्यानां दशकेभ्यः प्रत्यक्षं सम्मुखीकरणेन क्षेत्रे अर्जितः अनुभवः अस्ति। भारतस्य प्रत्येकं रणनीतिः वास्तविकपरिस्थितिषु सञ्चालितेषु अभियानेषु परीक्षिता, अधिकं प्रभावशालिनी कृता, तस्याः उपयोगिता च सिद्धा अभवत् इति सः अवदत्।
भारतस्य अस्य सक्रियस्य प्रत्यक्षानुभवाधारितस्य च सिद्धान्तस्य निर्णायकं प्रदर्शनं ‘सिन्दूर-अभियानस्य’ समये अभवत्। तस्मिन् अभियाने भारतेन आतङ्कवादिनां संरचना ध्वस्ता कृता तथा राज्यप्रायोजितस्य आतङ्कवादस्य विरुद्धं कस्यापि प्रकारस्य सन्धिः न भविष्यति इति स्पष्टा दृढा च सीमारेखा निर्धारितः।
राजनाथसिंहः पुनः अवदत् यत् भारतम् आसियानस्य केन्द्रीयभूमिकायै सुरक्षिताय, मुक्ताय, समावेशिन्यै, सुदृढायै, नियमाधारितायै च हिन्द-प्रशान्तक्षेत्राय विशेषमहत्त्वं ददाति। अस्मिन् क्षेत्रे शान्तिः स्थिरता च केवलम् आकाङ्क्षाः न, अपितु सामूहिकप्रतिबद्धतायाः परिणामौ स्तः। आसियानदेशैः सह भारतस्य सामरिकसम्बन्धः दीर्घकालीनः अस्ति तथा सहभाग-हितेषु, पारस्परिकसम्माने, व्यावहारिकसहयोगे च आधारितः अस्ति। गतवर्षे अक्टोबरमासे कुआलालम्पुरनगरे आयोजितायाः द्वितीयायाः आसियान-भारत-अनौपचारिक-रक्षामन्त्रि-सभायाः उल्लेखं कुर्वन् सः अवदत् यत् तस्यां सभायां आसियान-भारतयोः व्यापकसामरिकसहभागित्वस्य रक्षासुरक्षासम्बद्धानां पक्षाणां संवर्धनाय तथा वर्ष २०२६ तः २०३० पर्यन्तम् आसियान-भारत-कार्ययोजनायाः अग्रे प्रवर्तनाय प्रतिबद्धता पुनः दृढीकृता आसीत्।
रक्षामन्त्री भारत-आसियानयोः रक्षासहयोगस्य सुदृढीकरणे युवजनानां सहभागितायाः महत्त्वं रेखाङ्कितवान्।
सः अवदत् यत् उभयपक्षयोः युवजनसङ्ख्यायाः समानाः जनसाङ्ख्यिकविशेषताः आकाङ्क्षाश्च अधिकगहनस्य क्षेत्रीयसहभागित्वस्य सुदृढम् आधारं प्रददति। संस्थागतस्तरे जनानां परस्परसम्पर्कं वर्धयितुं, अङ्कीयनवाचारं प्रोत्साहयितुं, एडीएमएम-प्लस-उपक्रमाणाम् अनुरूपं क्षमतानिर्माणं सुलभं कर्तुं च रक्षाक्षेत्रे समर्पितस्य ‘युवा-सेतोः’ स्थापनायाः प्रस्तावं सः उपस्थापितवान्। युवजनान् सशक्तीकृत्य क्षेत्रीयशान्तौ सुरक्षायां च योगदानं दातुं तेभ्यः अधिकाः अवसराः प्रदातुं च ‘युवा, शान्तिः, सुरक्षा’ इत्यस्य विषयवस्तुनः अनुरूपम् अस्ति। शान्तिपूर्णस्य, सुदृढस्य, समृद्धस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणाय अपि एतत् आवश्यकम् अस्ति।
Hindusthan Samachar / Divya Ranjan