Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, अक्टोबरमासः २९ दिनाङ्कः (हि.स.)। उत्तराखण्डस्य राज्यपालः डॉ. ढालसिंहबिसेनः गुरुवासरे हरिद्वारस्थे पतञ्जलिविश्वविद्यालये ५२ तमस्य अखिलभारतीयप्राच्यविद्यासम्मेलनस्य उद्घाटनं कृतवान्। त्रिदिवसीये अस्मिन् सम्मेलने देशविदेशेभ्यः विद्वांसः, शोधकर्तारः, शिक्षाविदः, विद्यार्थिनश्च सहभागं कुर्वन्ति।
उद्घाटनसत्रं सम्बोधयन् राज्यपालः अवदत् यत् भारतीयज्ञानपरम्परायाः उद्देशः केवलं बौद्धिकविकासः नास्ति, अपितु व्यक्तेः चरित्रनिर्माणं, समाजे सद्भावस्य स्थापनं, मानवकल्याणस्य भावनायाः सुदृढीकरणं च अस्ति। राज्यपालः अवदत् यत् प्राच्यविद्यायाः अध्ययनं केवलम् अतीतस्य ज्ञानप्राप्तिः नास्ति, अपितु भारतीयसभ्यतायाः विकासं, विविधविचारधाराणां संवादं, मानवसमाजस्य बौद्धिकेतिहासं च अवगन्तुं अवसरं प्रददाति। वेदेषु, उपनिषत्सु, रामायणे, महाभारते, भारतीयदर्शनग्रन्थेषु च जीवनस्य, नैतिकतायाः, कर्तव्यस्य, सामाजिकसमरसतायाश्च महत्त्वपूर्णाः विचाराः निहिताः सन्ति।
सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतीयसांस्कृतिकवैभवस्य, प्राचीनज्ञानपरम्परायाः, भारतीयभाषाणां च संरक्षणाय महत्त्वं दीयते। ‘विकासोऽपि, धरहरोऽपि’ इति विचारः आधुनिकप्रगतेः सांस्कृतिकमूलानां च मध्ये समन्वयं प्रदर्शयति। राष्ट्रियशिक्षानीतौ २०२० अपि भारतीयज्ञानपरम्परायाः, मातृभाषाणाम्, अनुसन्धानस्य च विशेषं महत्त्वं प्रदत्तम् अस्ति।
राज्यपालः अवदत् यत् ‘ज्ञानभारतम्-अभियानस्य’ माध्यमेन प्राचीनहस्तलिखितग्रन्थानां सर्वेक्षणं, संरक्षणम्, अङ्कीयकरणं च क्रियते। एतेषु ग्रन्थेषु भारतस्य सभ्यतायाः बौद्धिकोपलब्धीनां च अमूल्यः निधिः निहितः अस्ति। एतान् भाविवंशेभ्यः प्रापयितुं वयं सर्वे उत्तरदायिनः स्मः। सः युवशोधकर्तॄन् प्राचीनग्रन्थानां मूलपाठानां दार्शनिकविचाराणां च अध्ययनाय तथा शोधकार्ये प्रामाणिकतायाः, पारदर्शितायाः, बौद्धिकसत्यनिष्ठायाश्च प्राथमिकतां दातुम् आहूतवान्। सः अवदत् यत् ‘सर्वे भवन्तु सुखिनः’ इति भावना दर्शयति यत् ज्ञानस्य सर्वोच्चः उद्देशः मानवतायाः कल्याणे योगदानं दातुम् अस्ति।
सम्मेलने स्वामी रामदेवः अवदत् यत् अक्टोबरमासस्य ३० दिनाङ्के सम्मेलने भारतविद्वत्परिषदः, अखिलभारतीयाखाडापरिषदः, जगद्गुरुशङ्कराचार्यस्य, रामानन्दाचार्यस्य, रामानुजाचार्यस्य च प्रतिनिधयः तथा सर्वासां गुरुपरम्पराणां प्रतिनिधयः भागं ग्रहीष्यन्ति।
सः अवदत् यत् केचन जनाः अज्ञानवशात् सनातनधर्मस्य खण्डितं स्वरूपं प्रस्तुतयन्ति। ते शास्त्राणां मिथ्याव्याख्यां कृत्वा अस्माकं देवीदेवतानां विषये अनुचितटिप्पणीः कुर्वन्ति। सः अवदत् यत् केनापि प्रकारेण सनातनधर्मस्य अपमानं न सोढुं दीयते।
स्वामी रामदेवः अवदत् यत् सनातनविरोधिनः अस्मान् अप्रासङ्गिकान् वदन्ति, परन्तु अधुना पतञ्जलितः शास्त्रशुद्ध्यभियानस्य आरम्भः भविष्यति। वयं वेदान् जीवन्तः स्मः, वयं रामत्वं, कृष्णत्वं, शिवत्वं च जीवन्तः स्मः। सनातनधर्मे प्रश्नान् उत्थापयितारः विधिपूर्वकम् अपि दण्डिताः कारयिष्यन्ते।
वयं सर्वे एकस्यैव ब्रह्मणः सन्ततयः स्मः, जात्याधारेण विभक्ताः न स्मः।
पतञ्जलिविश्वविद्यालयस्य कुलपतिः आचार्यबालकृष्णः अवदत् यत् एतत् सम्मेलनं केवलम् अकादमिकमहोत्सवः नास्ति, अपितु सनातनधर्मस्य गौरवस्य पुनः प्रतिष्ठापनाय युगान्तरकारी सङ्कल्पः अस्ति। सः अवदत् यत् मध्यकालीनानां विपत्तीनाम्, विदेशीयाक्रमणकारिणाम्, कुटिलषड्यन्त्राणां च कारणेन मूलग्रन्थेषु भ्रामकाः विषयाः मिश्रिताः, येषाम् आधारेण भारतीयसंस्कृतेः अपकीर्तिः क्रियते। यत् वाक्यं तर्कस्य न्यायस्य च स्थितौ सत्यं न तिष्ठति, तत् ऋषिवचनं न भवितुम् अर्हति। सः अवदत् यत् स्वामिरामदेवस्य नेतृत्वे पतञ्जलिना लक्षश्लोकानां रचनां कृत्वा आयुर्वेदे, योगे, वनस्पतिविज्ञाने च कार्यं कृतम् अस्ति। पतञ्जलिविश्वविद्यालयः आधुनिकविज्ञानेन सनातनप्रज्ञया च राष्ट्रनिर्माणस्य सङ्कल्पं धारयन् अग्रे वर्धते।
अस्मिन् अवसरे राज्यपालः विश्वविद्यालयस्य विभिन्नप्रकाशनानाम् अपि लोकार्पणं कृतवान्। सम्मेलने केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसरः श्रीनिवासवरखेडी, कुम्भमेलाधिकारी सोनिका, जनपदाधिकारी मयूरदीक्षितः, वरिष्ठारक्षी अधीक्षकः नवनीतसिंहभुल्लरः, विभिन्नविश्वविद्यालयानां कुलपतयः, विद्वांसः, शोधकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan