आयुष्मान्-वयवन्दनायोजनायाः द्विवर्षाणि पूर्णानि, २३.४६ लक्षेभ्यः चिकित्सालयप्रवेशप्रकरणेभ्यः केन्द्रेण ५,६६८.८० कोटिरूप्यकाणि व्ययीकृतानि
नवदिल्ली, अक्टोबरमासः २९ दिनाङ्कः (हि.स.)। केन्द्रसर्वकारस्य आयुष्मान्-वयवन्दनायोजनायाः द्विवर्षपूर्त्यवसरे केन्द्रीयस्वास्थ्यमन्त्री जे.पी. नड्डा सन्देशं प्रसारितवान्। तस्मिन् सः अवदत् यत् अस्माकं ज्येष्ठनागरिकाणां सम्मानपूर्णं जीवनम्, उत्तमस्वास्
आयुष्मान वय वंदना योजना के दो साल पूरे,


नवदिल्ली, अक्टोबरमासः २९ दिनाङ्कः (हि.स.)। केन्द्रसर्वकारस्य आयुष्मान्-वयवन्दनायोजनायाः द्विवर्षपूर्त्यवसरे केन्द्रीयस्वास्थ्यमन्त्री जे.पी. नड्डा सन्देशं प्रसारितवान्। तस्मिन् सः अवदत् यत् अस्माकं ज्येष्ठनागरिकाणां सम्मानपूर्णं जीवनम्, उत्तमस्वास्थ्यम्, आर्थिकसुरक्षां च सुनिश्चितं कर्तुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्वकारस्य प्राथमिकता अस्ति।

प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२४ तमवर्षस्य अक्टोबरमासस्य २९ दिनाङ्के अस्याः योजनायाः शुभारम्भः कृतः आसीत्।

एषा योजना सप्ततिवर्षाणि ततोऽधिकं वयः प्राप्तेभ्यः सर्वेभ्यः पात्रेभ्यः ज्येष्ठनागरिकेभ्यः तेषाम् सामाजिक-आर्थिकस्थितिं विना विचार्य पञ्चलक्षरूप्यकाणि यावत् निःशुल्कचिकित्सालयीयोपचारस्य सुविधां प्रदाति। विगतेषु द्विवर्षेषु १.३८ कोटि आयुष्मान्-पत्राणां निर्माणं तथा २३.४६ लक्षेभ्यः चिकित्सालयप्रवेशप्रकरणेभ्यः अनुमोदनं प्राप्तम् इति तथ्यं दर्शयति यत् एषः प्रयत्नः ज्येष्ठनागरिकेभ्यः आवश्यकचिकित्सां प्राप्तुं साहाय्यं करोति। ५,६६८ कोटिरूप्यकेभ्यः अधिकमूल्यस्य चिकित्सालयीयोपचारस्य अनुमोदनं अस्याः वित्तीयसुरक्षायाः महत्त्वं प्रतिपादयति।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयस्य अधीनस्थेन राष्ट्रियस्वास्थ्यप्राधिकरणेन सञ्चालिता एषा योजना आयुष्मान् भारत-प्रधानमन्त्री-जन-आरोग्ययोजनायाः विस्तारः अस्ति। अस्याः योजनायाः उद्देश्यं देशे प्रायः ४.५ कोटिपरिवाराणां षट्कोटिसमीपस्थेभ्यः ज्येष्ठनागरिकेभ्यः स्वास्थ्यसुरक्षां चिकित्साव्ययात् च सहायतां प्रदातुम् अस्ति।

अस्याः योजनायाः माध्यमेन ज्येष्ठनागरिकाः मोतिबिन्दुशस्त्रक्रियातः आरभ्य हृदयरोगाणां चिकित्सापर्यन्तं विविधाः स्वास्थ्यसेवाः प्राप्नुवन्ति। योजनायां हृदयरोगाणां चिकित्सायै अपि विशेषं महत्त्वं प्रदत्तम् अस्ति। उन्नतहृदयचिकित्सायै चिकित्साप्रक्रियाभ्यश्च ६४९ कोटिरूप्यकेभ्यः अधिका राशिः अनुमोदिता अस्ति।

Hindusthan Samachar / Divya Ranjan