होर्मुजजलडमरूमध्यस्य उद्घाटनाय सर्वसम्भवप्रयत्नान् कुर्वद् अस्ति ब्रिटेनम् : बर्नहैमः
लंदनम्, 29 अक्टूबरमासः (हि.स.)।ब्रिटेनस्य प्रधानमन्त्री एण्डी बर्नहैमः अवदत् यत् तस्य देशः होर्मुजजलडमरूमध्यं पुनः उद्घाटयितुं क्षेत्रे तनावं न्यूनीकर्तुं च सर्वसम्भवप्रयत्नान् कुर्वन् अस्ति। अस्मिन् विषये अमेरिकायाः राष्ट्रपतिना डोनाल्डट्रम्पेन सह
ब्रिटेन के प्रधानमंत्री एंडी बर्नहैम (फाइल फोटो)


लंदनम्, 29 अक्टूबरमासः (हि.स.)।ब्रिटेनस्य प्रधानमन्त्री एण्डी बर्नहैमः अवदत् यत् तस्य देशः होर्मुजजलडमरूमध्यं पुनः उद्घाटयितुं क्षेत्रे तनावं न्यूनीकर्तुं च सर्वसम्भवप्रयत्नान् कुर्वन् अस्ति। अस्मिन् विषये अमेरिकायाः राष्ट्रपतिना डोनाल्डट्रम्पेन सह अपि चर्चा अभवदिति तेन सूचितम्।

गुरुवासरे पत्रकारैः सह वार्तालापं कुर्वन् बर्नहैमः अवदत् यत् ब्रिटेनं परिस्थितेः अधिकं गम्भीरतां निवारयितुं होर्मुजजलडमरूमध्यस्य पूर्णरूपेण उद्घाटनाय च प्रयत्नशीलम् अस्ति। एतैः प्रयत्नैः सह ईरानदेशः परमाणुक्षमतां न प्राप्नुयादिति सुनिश्चितमपि आवश्यकम् इति तेन उक्तम्।

होर्मुजजलडमरूमध्यः वैश्विकऊर्जापूर्तेः दृष्ट्या अत्यन्तं महत्त्वपूर्णः समुद्रीमार्गः अस्ति। अस्य मार्गस्य अवरुद्धत्वेन अन्ताराष्ट्रियतेलस्य प्राकृतिकवायोश्च आपूर्तौ तथा वैश्विकविपण्येषु प्रभावः भवितुम् अर्हति।

------------------------

Hindusthan Samachar / Dheeraj Maithani