Enter your Email Address to subscribe to our newsletters

नवदिल्ली, अक्टोबरमासस्य २९ दिनाङ्कः (हि.स.)। उत्सवकाले खाद्यपदार्थेषु अपमिश्रणं कृत्वा उपभोक्तॄणां स्वास्थ्येन सह क्रीडां कुर्वतां जनानां विरुद्धं दिल्ली-सर्वकारस्य अभियानम् अनवरतं प्रचलति। राज्यस्य खाद्यसुरक्षाविभागस्य दलानि राजधानीक्षेत्रस्य विभिन्नेषु भागेषु निरीक्षणं कुर्वन्ति। अस्यैव क्रमे बुधवासरे दक्षिणपूर्वदिल्लीस्थे भोगल-विपण्यां, दक्षिणपश्चिमदिल्लीस्थे नजफगढ-विपण्यां तथा उत्तरपूर्वदिल्लीस्थे शिवविहारे च कृतेषु कार्याचरणेषु त्रिभ्यः स्थानेभ्यः आहत्य ९४८.९ लीटर घृतं गृहीतम्।
मुख्यमन्त्री रेखा गुप्ता गुरुवासरे एकस्मिन् वक्तव्ये अवदत् यत् खाद्यसुरक्षाविभागस्य परीक्षणव्यवस्थां आधुनिकप्रौद्योगिक्या सुसज्जितां क्रियते। अनियमिततासु निर्धारितसमये कार्याचरणं सुनिश्चितं कर्तुं कर्मचारिणां सङ्ख्या अपि वर्ध्यते।
मुख्यमन्त्रिणा दिल्लीवासिभ्यः खाद्यपदार्थानां गुणवत्तासम्बद्धानां सूचनानां कृते दूरभाषसहायतासङ्ख्यायाः उपयोगः कर्तुम् अपि परामर्शः दत्तः।
खाद्यसुरक्षाविभागस्य दलानि बुधवासरे भोगल-विपण्यां नजफगढ-विपण्यां च घृतस्य आहत्य १५ नमूनानि सङ्गृहीतवन्ति। कार्याचरणकाले भोगल-विपण्याः ३८९.९ लीटर घृतं नजफगढ-विपण्याश्च ३३८ लीटर घृतं गृहीतम्। एतदतिरिक्तं उत्तरपूर्वदिल्लीस्थे शिवविहारे दिल्ली-आरक्षिदलेन सह संयुक्तकार्याचरणे २२१ लीटर घृतं गृहीतम्।
विभागस्य अनुसारं घृतस्य नमूनानि निर्धारितानां खाद्यसुरक्षामानकानाम् अनुरूपं परीक्षणाय प्रयोगशालां प्रेषितानि सन्ति। प्रयोगशालायाः प्रतिवेदनस्य निष्कर्षाणाम् आधारेण अग्रिमं कार्याचरणं भविष्यति। उपभोक्तॄन् अपमिश्रितेभ्यः, निकृष्टगुणवत्तायुक्तेभ्यः असुरक्षितेभ्यश्च खाद्यपदार्थेभ्यः रक्षितुं विभागेन उत्सवकाले खाद्यपदार्थानां गुणवत्तायाः निरीक्षणं नियमानुसारं कार्याचरणं च निरन्तरं क्रियते।
मुख्यमन्त्री अवदत् यत् खाद्यपदार्थानां गुणवत्तां सुनिश्चितं कर्तुम् अपमिश्रणस्य प्रभावी नियन्त्रणं च सर्वकारस्य प्राथमिकतासु अन्तर्भवति। एतदर्थं खाद्यसुरक्षाविभागस्य परीक्षणव्यवस्था आधुनिकप्रौद्योगिक्या सुसज्जिता क्रियते, येन नमूनानां परीक्षणप्रक्रिया शीघ्रा भवेत् तथा च अनियमितता दृष्टे सति निर्धारितसमये कार्याचरणं सुनिश्चितं भवेत्। विभागे कर्मचारिणां सङ्ख्यां वर्धयितुं दिशि अपि पदक्षेपाः स्वीक्रियन्ते। आवश्यकतायां अन्येभ्यः विभागेभ्यः अपि कर्मचारिणः उपलब्धान् कर्तुं व्यवस्था क्रियते, येन अभियानं अधिकव्यापकं भवेत् तथा च राजधानीक्षेत्रस्य अधिकाधिकेषु भागेषु नियमितरूपेण निरीक्षणं कार्याचरणं च कर्तुं शक्येत।
मुख्यमन्त्रिणा विभागाय निर्देशाः दत्ताः यत् अभियाने कस्यापि प्रकारस्य शिथिलता न भवेत्। अपमिश्रणस्य विषये कमपि न त्यक्तव्यम्, ब्राण्डयुक्तानां निर्माणीनां विरुद्धम् अपि कार्याचरणं करणीयम्।
अस्मिन् विषये शीघ्रमेव व्यापकं जनजागरणाभियानम् अपि आरभ्यते। सा स्पष्टम् अवदत् यत् अपमिश्रणस्य विरुद्धं कार्याचरणं केवलम् उत्सवकालपर्यन्तं सीमितं न भविष्यति, अपितु सम्पूर्णे वर्षे प्रभावीरूपेण प्रचलिष्यति।
मुख्यमन्त्रिणा नागरिकेभ्यः आह्वानं कृतं यत् खाद्यपदार्थेषु अपमिश्रणस्य, निकृष्टगुणवत्तायाः अथवा कालातीतानाम् उत्पादानां विक्रयसम्बद्धायाः कस्याश्चित् सूचनायाः प्राप्तौ खाद्यसुरक्षाविभागं सूचयेयुः। एतदर्थं विभागस्य दूरभाषसहायतासङ्ख्यायां १८००-११-३९२१ कार्यालयसमये सम्पर्कं कर्तुं शक्यते।
मुख्यमन्त्री अवदत् यत् खाद्यपदार्थानां शुद्धता केवलं नियमानां पालनस्य विषयः नास्ति, अपितु प्रत्येकं नागरिकस्य स्वास्थ्येन, विश्वासेन सुरक्षया च सम्बद्धः प्रश्नः अस्ति। सामान्यजनाः एतादृशेन विश्वासेन खाद्यसामग्रीं प्राप्नुयुः यत् तस्याः गुणवत्तया सुरक्षया च सह किमपि सन्धिः न कृता अस्ति—इति सुनिश्चितं कर्तुं सर्वकारस्य दायित्वम् अस्ति।
Hindusthan Samachar / Divya Ranjan