मध्यप्रदेशे २०३०-३१ तमवर्षपर्यन्तं पञ्चदशसहस्राधिकानां बसयानानां सञ्चालनस्य लक्ष्यं, नगरात् ग्रामान् यावत् प्राप्स्यति सुविधा
सार्वजनिकपरिवहनस्य विस्तारः क्रियते, १८० तः अधिकानि बसयानस्थानकानि विश्रामस्थानकानि च निर्मास्यन्ते, विद्युद्बसयानेषु विशेषः आग्रहः भोपालम्, २९ अक्टोबरमासः (हि.स.)। मध्यप्रदेशसर्वकारः सामान्यजनान् श्रेष्ठां सुरक्षितां बसयानपरिवहनसुविधां प्रदातुं त
मुख्यमंत्री सुगम परिवहन सेवा की बसों की फाइल फोटो


सार्वजनिकपरिवहनस्य विस्तारः क्रियते, १८० तः अधिकानि बसयानस्थानकानि विश्रामस्थानकानि च निर्मास्यन्ते, विद्युद्बसयानेषु विशेषः आग्रहः

भोपालम्, २९ अक्टोबरमासः (हि.स.)। मध्यप्रदेशसर्वकारः सामान्यजनान् श्रेष्ठां सुरक्षितां बसयानपरिवहनसुविधां प्रदातुं तथा प्रदेशस्य परिवहनव्यवस्थां आधुनिकीं कर्तुं योजनाबद्धरीत्या चरणबद्धरीत्या च कार्यं कुर्वन् अस्ति। प्रदेशपरिवहनदृष्टिपत्रस्य २०३०-३१ इत्यस्य अन्तर्गतं पञ्चदशसहस्राधिकानां बसयानानां सञ्चालनस्य तथा नगरात् ग्रामान् यावत् परिवहनसुविधां प्रापयितुं पञ्चसहस्राधिकानां बसयानमार्गाणां विकासस्य लक्ष्यं निर्धारितम् अस्ति। सम्प्रति सप्त प्रमुखनगरेषु ३५१ बसयानानि सञ्चालितानि सन्ति।

जनसम्पर्काधिकारी सुनीलवर्मा गुरुवासरे सूचनां दत्त्वा अवदत् यत् मध्यप्रदेशपरिवहनदृष्टिपत्रस्य २०३०-३१ इत्यस्य अन्तर्गतं नगरेभ्यः ग्रामेभ्यश्च बससेवानां विस्ताराय, यात्रिभ्यः निर्धारितसमये बसयानस्य उपलब्धतायै, अङ्कीयमाध्यमेन चलदूरभाष-अनुप्रयोगाधारितायाः प्रच्छिकापत्रव्यवस्थायाः कार्यान्वयनाय तथा विद्युद्बसयानानां प्रोत्साहनाय विशेषः आग्रहः क्रियते। अस्य प्रयत्नस्य उद्देश्यं जनानां यात्रां सरलां कर्तुं सार्वजनिकपरिवहनं च अधिकं सुविधाजनकं कर्तुम् अस्ति।

सः अवदत् यत् यात्रीपरिवहनदृष्टिपत्रसम्मेलनस्य २०२६ तमवर्षस्य अनुशंसानाम् अनुरूपं प्रदेशे मुख्यमन्त्रिणः सुगमपरिवहनसेवायाः प्रारम्भः अभवत्। मध्यप्रदेशस्य सप्त प्रमुखनगरेषु ३५१ बसयानानि सञ्चरन्ति। योजनायाः अन्तर्गतं यात्रिभ्यः श्रेष्ठसुविधाः प्रदातुं विशेषः आग्रहः क्रियते। सम्प्रति अङ्कीयप्रौद्योगिक्याः माध्यमेन बसयात्रिणां प्रच्छिकापत्रप्राप्तेः अनुभवः सरलः जातः। तेन सह इन्दौर-भोपाल-जबलपुरनगराणां नगरबसयानेषु ‘चलो’ इति चलदूरभाष-अनुप्रयोगस्य माध्यमेन अन्तर्जालीयप्रच्छिकापत्रस्य आरक्षणसुविधा अपि प्रदीयते।

पञ्चसहस्राधिकानां बसयानमार्गाणां विकासः, त्रिंशल्लक्षाधिकयात्रिभ्यः सुविधा प्राप्स्यते

जनसम्पर्काधिकारी अवदत् यत् मध्यप्रदेशयात्रीपरिवहन-अधोसंरचनानिगमस्य २०३०-३१ तमवर्षस्य दृष्टिपत्रस्य अन्तर्गतं प्रदेशे सार्वजनिकबसपरिवहनस्य व्यापकविस्तारस्य लक्ष्यं निर्धारितम् अस्ति। अस्य अन्तर्गतं पञ्चदशसहस्राधिकानां सार्वजनिकबसयानानां सञ्चालनं भविष्यति तथा पञ्चसहस्राधिकानां बसयानमार्गाणां विकासः करिष्यते। दृष्टिपत्रानुसारं प्रतिदिनं त्रिंशल्लक्षाधिकयात्रिणः बससेवया सह संयोजयितुं लक्ष्यं निर्धारितम् अस्ति। प्रदेशे १८० तः अधिकानि बसयानागाराः विश्रामस्थानकानि च विकसितानि करिष्यन्ते। चरणबद्धरीत्या प्रदेशस्य पञ्चसप्ततिप्रतिशताः ग्रामपञ्चायताः बसयानजालकेन प्रत्यक्षतया संयोज्यन्ते। अनेन ग्रामीणक्षेत्राणां जनानां शिक्षायै, रोजगाराय, चिकित्सायै, व्यापाराय अन्येषाम् आवश्यककार्याणां च कृते आवागमनस्य श्रेष्ठा सुविधा प्राप्स्यते।

चलदूरभाषे बसयानानां स्थानविवरणं प्राप्स्यते, अङ्कीयप्रच्छिकापत्रस्य सुविधा

सः अवदत् यत् प्रदेशस्य सार्वजनिकपरिवहनव्यवस्थां आधुनिकां सुविधाजनकां च कर्तुं अङ्कीयप्रौद्योगिक्याः उपयोगः वर्ध्यते। अस्य अन्तर्गतं यात्रिभ्यः चलदूरभाषे बसयानानां स्थानविवरणं, तेषाम् आगमनप्रस्थानसमयः निर्धारितमार्गस्य च सूचना अङ्कीयमाध्यमेन उपलब्धा भवेत्, एतादृशी व्यवस्था क्रियते। इन्दौरनगरे नगरबसयात्रिभ्यः बसयानपत्रस्य व्यवस्था अपि कृता अस्ति। अङ्कीयप्रच्छिकापत्रेण अन्तर्जालीयप्रदानेन च यात्रिभ्यः प्रच्छिकापत्रप्राप्तिः सरला अभवत्। प्रच्छिकापत्राणाम् अङ्कीयनिरीक्षणेन भाटकात् प्राप्ते आये पारदर्शिता भविष्यति तथा अनियमिततानां नियन्त्रणाय सहायता मिलिष्यति। बसयानेषु सीसीटीवी-चित्रग्राहकयन्त्राणि अन्याः सुरक्षाव्यवस्थाश्च स्थापयित्वा यात्रिणां सुरक्षा सुदृढा क्रियते।

सार्वजनिकनिजीसहभागिताप्रतिरूपेण बसयानानां सञ्चालनम्

जनसम्पर्काधिकारी अवदत् यत् प्रदेशे बसपरिवहनव्यवस्थां श्रेष्ठां कर्तुं सार्वजनिकनिजीसहभागिताप्रतिरूपम् अवलम्ब्यते। अस्य अन्तर्गतं निजिबसयानसञ्चालकानां चयनं पारदर्शिनिविदाप्रक्रियया क्रियते। बसयानानां सञ्चालनस्य, समयसारिण्याः, यात्रिसुरक्षायाः सेवागुणवत्तायाश्च सुनिश्चित्य स्पष्टाः नियमाः निर्धारिताः सन्ति। बसयानानां परिरक्षणाय, विद्युद्भरणाय सञ्चालनाय च आवश्यकसुविधाः बसयानसञ्चालकेभ्यः प्रदातुं व्यवस्था क्रियते। एतदतिरिक्तं चालकानां, परिचालकानां अन्येषां सम्बद्धकर्मचारिणां च प्रशिक्षणाय विशेषः आग्रहः क्रियते, येन यात्रिभ्यः सुरक्षिताः समयबद्धाः श्रेष्ठाश्च परिवहनसेवाः प्राप्येरन्।

बसयानानां सङ्ख्यायाः आवृत्तेश्च वर्धनेन यात्रिभ्यः सुविधा प्राप्स्यते

सः अग्रे अवदत् यत् यात्रिणाम् आवश्यकतानाम् अनुरूपं बसयानमार्गेषु सञ्चालनसमयेषु च सुधारः करिष्यते। अनेन तेषु क्षेत्रेषु बससेवानां विस्ताराय सहायता भविष्यति, यत्र यात्रिणः बसयानानां कृते दीर्घकालं यावत् प्रतीक्षां कुर्वन्ति। सुरक्षितानि बसस्थानकानि, स्वच्छानि प्रतीक्षालयानि, श्रेष्ठानि यात्रिटर्मिनलस्थानानि च विकसितानि सति महिलाभ्यः, वृद्धेभ्यः, बालकेभ्यः सर्वेभ्यश्च यात्रिभ्यः अधिका सुविधा प्राप्स्यते। अङ्कीयभुगतानं प्रोत्साहयितुं प्रच्छिकापत्रेषु न्यूनताप्रदानस्य नियमितयात्रिभ्यः विशेषसुविधानां च विकल्पेषु अपि विचारः क्रियते। एतैः प्रयत्नैः सार्वजनिकबसपरिवहनं अधिकं सुविधाजनकं आकर्षकं च क्रियते, येन यात्रिणः निजिवाहनानां स्थाने सार्वजनिकबसयानानां प्रयोगं अधिकं सुविधाजनकं मन्येरन्।

जनसम्पर्काधिकारी अवदत् यत् प्रदेशस्य परिवहनव्यवस्थां पर्यावरणानुकूलां कर्तुं विद्युद्बसयानानि स्वच्छेन्धनेन चालितानि वाहनानि च प्रोत्साह्यन्ते। विद्युद्बसयानानां सञ्चालनेन प्रतिवर्षं सप्ततिसहस्रटनपरिमितस्य कार्बन-उत्सर्जनस्य न्यूनता भविष्यति। एतदर्थम् आवश्यकानां विद्युद्भरणसुविधानां आधुनिकबसयानागाराणां च विकासे अपि ध्यानं दीयते।

तस्य कथनम् अस्ति यत् मुख्यमन्त्रिणः सुगमपरिवहनसेवायाः उद्देश्यं सामान्यनागरिकेभ्यः एतादृशीं बससेवां प्रदातुम् अस्ति, या समये उपलब्धा भवेत्, भाटकदृष्ट्या न्यूना भवेत् तथा यात्राकाले सुरक्षायाः सुविधायाश्च ध्यानं दद्यात्। परिवहनविभागस्य अस्याः योजनायाः माध्यमेन नगरेषु ग्रामीणक्षेत्रेषु च आवागमनं सुगमं भविष्यति।

Hindusthan Samachar / Divya Ranjan