Enter your Email Address to subscribe to our newsletters

वन्दना, बीकानेरवाला तथा चेलारामस्वीट्स इत्येतेषां खाद्यपदार्थानां नमूनाः परीक्षणाय प्रेषिताः
झाँसी, २९ अक्टोबरमासः (हि.स.)।उत्तरप्रदेशस्य झाँसीनगरे दीपावलीपर्वणः दृष्ट्या अपमिश्रितखाद्यपदार्थानां विक्रयं निवारयितुं खाद्यसुरक्षा-औषधप्रशासनस्य दलं गुरुवासरे नगरस्य त्रयाणां मिष्टान्नविक्रयणापणानां निरीक्षणम् अकरोत्। स्वच्छतायाः परिरक्षणस्य च व्यवस्था सम्यक् न प्राप्ता इति कारणेन आपणिकेभ्यः सूचनापत्राणि निर्गतानि। अपरतः खाद्यपदार्थानां नमूनाः संगृह्य परीक्षणाय राजकीयप्रयोगशालां प्रेषिताः सन्ति।
जनपदाधिकारिणः गौराङ्गराठिनः निर्देशानुसारं दलम् इलाइट्चतुष्पथे स्थितस्य वन्दनास्वीट्स इत्यस्य, इलाहाबाद-बैङ्क-चतुष्पथे स्थितस्य बीकानेरवाला इत्यस्य, सीपरीविपणे स्थितस्य चेलाराम स्वीट्स इत्यस्य च निरीक्षणम् अकरोत्। अस्मिन् अवसरे रङ्गयुक्तच्छेनायाः, आमीक्षस्य, क्षीरसारस्य, बून्दीमोदकानां अवलेहस्य च नमूनाः संगृहीताः। परीक्षणप्रतिवेदनस्य आधारेण अग्रे कार्यवाही करिष्यते।
अभियानस्य अन्तर्गतं खाद्यसुरक्षायाः चलप्रयोगशालायुक्तया वाहन्या खाद्यव्यापारिणः जागरूकाः अपि कृताः। डोम-२४ इति उपकरणस्य माध्यमेन खाद्यपदार्थानां तर्जनाय प्रयुक्तस्य उष्णतैलस्य गुणवत्तायाः परीक्षणं कृत्वा शुद्धतायाः विषये जागरूकता प्रसारिता।
सहायकखाद्यायुक्तः पवनकुमारः अवदत् यत् सर्वेषां खाद्यव्यापारिणां कृते अनुज्ञापत्रं पञ्जीकरणं वा अनिवार्यम् अस्ति। नियमानाम् उल्लङ्घने खाद्यसुरक्षामानकाधिनियमानुसारं कार्यवाही क्रियते। अस्मिन् दले सत्यमभारती, सुनीलकुमारः, झङ्कारसिंहः, सैनिकसिंहः, ज्ञानेन्द्रपालसिंहचन्देलः जितेन्द्रसिंहश्च सम्मिलिताः आसन्।
परिवादाय निःशुल्कदूरभाषसङ्ख्या
खाद्यपदार्थैः सम्बद्धस्य परिवादस्य कृते विभागस्य निःशुल्कदूरभाषसङ्ख्या १८००१८०५५३३ इत्यत्र सम्पर्कं कर्तुं शक्यते। झाँसीनगरसम्बद्धं परिवादं सहायकखाद्यायुक्तस्य द्वितीयस्य चलदूरभाषसङ्ख्यायाम् ९३६८४१४७११ इत्यत्र अपि कर्तुं शक्यते।
Hindusthan Samachar / Divya Ranjan