बॉलीवुडस्य भागः सन्नपि स्वं बहिरागतः मन्यते मनोजबाजपेयी।
मुंबई, 29 अक्टूबरमासः (हि.स.)। अभिनेता मनोजबाजपेयी बॉलीवुड इत्यस्य कार्यशैल्याः चलचित्रोद्योगे स्वकीयपरिचयस्य च विषये स्वाभिमतं स्पष्टतया प्रस्तुतवान्। दीर्घकालात् चलचित्रजगति सक्रियः सन्नपि मनोजः अद्यापि स्वं बॉलीवुडस्य अभिन्नं भागं न मन्यते। सः
मनोज बाजपेयी - फोटो सोर्स एक्स


मुंबई, 29 अक्टूबरमासः (हि.स.)।

अभिनेता मनोजबाजपेयी बॉलीवुड इत्यस्य कार्यशैल्याः चलचित्रोद्योगे स्वकीयपरिचयस्य च विषये स्वाभिमतं स्पष्टतया प्रस्तुतवान्। दीर्घकालात् चलचित्रजगति सक्रियः सन्नपि मनोजः अद्यापि स्वं बॉलीवुडस्य अभिन्नं भागं न मन्यते। सः अवदत्, “अहं चलचित्रोद्योगस्य भागः अस्मि, तथापि न अनुभावयामि यत् अहम् अस्यैव जगतः अस्मि।”

अभिनेतुः मते चलचित्रोद्योगं परिवाररूपेण प्रस्तुतिकरणं वास्तविकतायाः दूरम् अस्ति। अत्र प्रतिभायाः परिश्रमस्य च सह परिचयस्य अपि महत्त्वम् अस्ति, परन्तु कलाकाराणां मध्ये परस्परस्य सफलतायाः उत्सवं समाचरितुं भावना विरलतया एव दृश्यते। मनोजस्य मतम् अस्ति यत् कस्यापि कलाकारस्य वास्तविकः परिचयः तस्य कार्येण कौशलेन च निर्मीयते। तस्य कृते व्यक्तिगतसम्बन्धेभ्यः जनानां प्रशंसायाश्च अपेक्षया स्वकार्ये सत्यनिष्ठः भवितुम् अधिकं महत्त्वपूर्णम् अस्ति।

अभिनेतुः बलम् अस्मिन् विषये अस्ति यत् कलाकारः स्वकलायां ध्यानं दद्यात् तथा निरन्तरं श्रेष्ठतरं कार्यं कर्तुं प्रयतेत। तस्य मते कस्मिन्नपि क्षेत्रे दीर्घकालपर्यन्तं स्थातुं कौशलस्य प्रति निष्ठा कार्यस्य गुणवत्ता च सर्वाधिकमहत्त्वपूर्णे स्तः।

सम्प्रति मनोजबाजपेयी नेटफ्लिक्स् इत्यस्य जालधारावाहिकायाः ‘गजब रात’ इत्यस्य अभिनयेन दर्शकानां सम्मुखे दृश्यते। स्वकीयव्यावसायिकजीवने सः विविधैः भूमिकाभिः अभिनयक्षेत्रे विशिष्टां परिचयम् निर्मितवान्। बॉलीवुडस्य गुटबन्दीं परस्परसम्बन्धान् च उद्दिश्य तस्य स्पष्टाः टिप्पण्यः पुनः चर्चायाः विषयः अभवन्। मनोजस्य वक्तव्येभ्यः स्पष्टं भवति यत् सः चलचित्रोद्योगे स्वस्थानं सम्बन्धानां प्रशंसायाः वा अपेक्षया स्वकीयकार्यस्य बलेन स्थापयितुम् इच्छति।

------------

Hindusthan Samachar / Dheeraj Maithani