Enter your Email Address to subscribe to our newsletters

गीतामहोत्सवस्य आयोजनं डिसेम्बरमासस्य ५ दिनाङ्कात् २५ दिनाङ्कपर्यन्तम्, पश्चिमबङ्गालं दिल्ली च सहभागिराज्ये भविष्यतः
चण्डीगढम्, २९ अक्टोबरमासः (हि.स.)।
कुरुक्षेत्रे डिसेम्बरमासस्य ५ दिनाङ्कात् २५ दिनाङ्कपर्यन्तम् आयोज्यमाने अन्ताराष्ट्रियगीतामहोत्सवे प्रथमवारं भारतीयान्तरिक्षानुसन्धानसंस्थायाः, भारतीयनौसेनायाः वायुसेनायाश्च प्रदर्शिनी आयोजयिष्यते। महोत्सवे पश्चिमबङ्गालं दिल्ली च सहभागिराज्यरूपेण भागं ग्रहीष्यतः। आयोजनस्य दृष्ट्या कुरुक्षेत्रस्य एकादश चतुष्पथानां नवीनीकरणं करिष्यते, यदा तु ज्योतिसरे प्रवेशद्वारं गीतास्तम्भश्च निर्मास्येते।
अन्ताराष्ट्रियगीतामहोत्सवं भव्यं कर्तुं योजनारूपरेखा हरियाणाराज्यस्य राज्यपालस्य प्रोफेसर-असीमकुमारघोषस्य अध्यक्षतायां गुरुवासरे आयोजिता कुरुक्षेत्रविकासमण्डलस्य प्रबन्धमण्डलस्य त्र्यशीतितमीसभायां सज्जीकृता। सः अवदत् यत् महोत्सवं सुव्यवस्थिततरं कर्तुं श्रद्धालूनां पर्यटकाणां च अनुभवम् अधिकं श्रेष्ठं कर्तुं निरन्तरं प्रयत्नाः करणीयाः।
राज्यपालः प्रो. असीमकुमारघोषः मुख्यमन्त्री नायबसिंहसैनी च ‘अङ्कीयधरोहर-अनुप्रयोगस्य’ तथा ‘कुरुक्षेत्रसारथि-चलदूरभाष-अनुप्रयोगस्य’ च शुभारम्भम् अकुरुताम्।
मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् कुरुक्षेत्रे अन्ताराष्ट्रियगीताजयन्तीसमारोहस्य आयोजनं डिसेम्बरमासस्य ५ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं भविष्यति। अस्मिन् काले अनेके धार्मिकाः, आध्यात्मिकाः सांस्कृतिकाश्च कार्यक्रमाः आयोजयिष्यन्ते। जनजागरणाय डिसेम्बरमासस्य २ दिनाङ्के यात्रा प्रारप्स्यते, या अष्टचत्वारिंशत्कोशक्षेत्रे स्थितेषु १८२ तीर्थस्थलेषु गमिष्यति। एतदतिरिक्तं डिसेम्बरमासस्य ४ दिनाङ्के पिपलीतः शोभायात्रा निष्कासयिष्यते। भागवतकथायाः गीतासम्मेलनानां च अतिरिक्तं हरियाणाराज्यस्य गठनस्य षष्टिवर्षपूर्त्युपलक्ष्ये प्रदर्शिनी अपि आयोजयिष्यते।
कुरुक्षेत्रविकासमण्डलस्य सदस्यसचिवः डॉ. अमित-अग्रवालः अन्ताराष्ट्रियगीतामहोत्सवं भव्यं स्मरणीयं च कर्तुं सज्जीकृतानां योजनानां विस्तृतं प्रस्तुतिकरणम् अकरोत्। सः महोत्सवस्य विभिन्नकार्यक्रमाणां, व्यवस्थायाः सज्जतानां च विषये सूचनाः दत्त्वा अवदत् यत् आयोजनम् आकर्षकं कर्तुं अधिकाधिकजनान् गीतायाः सन्देशेन सह संयोजयितुं च योजनाबद्धरीत्या कार्यं क्रियमाणम् अस्ति।
सभायां कुरुक्षेत्रस्य सांसदः नवीनजिन्दलः, गीतामनीषी स्वामीज्ञानानन्दमहाराजः, विधायकः अशोक-अरोडा, मुख्यसचिवः अनुरागरस्तोगी, गृहसचिवः सुधीरराजपालः, आयुक्तः सचिवश्च के. मकरन्दपाण्डुरङ्गः, मुख्यमन्त्रिणः उपप्रधानसचिवः डॉ. यशपालयादवः, सूचनाजनसम्पर्कविभागस्य निदेशकः डॉ. आदित्यदहिया, कुरुक्षेत्रस्य उपायुक्तः विश्राममीणा इत्यादयः कुरुक्षेत्रविकासमण्डलस्य सर्वकारीयाः असर्वकारीयाश्च सदस्याः उपस्थिताः आसन्।
शिल्पकारमेला गीतापुस्तकमेला च आकर्षणस्य केन्द्रे भविष्यतः
मुख्यमन्त्री अवदत् यत् अस्मिन् वर्षे पश्चिमबङ्गालं दिल्ली च सहभागिराज्यरूपेण भागं गृह्णीतः। अन्ताराष्ट्रियगीताजयन्त्युपलक्ष्ये आयोज्यमानायां प्रदर्शिन्यां इसरो-संस्था, नौसेना, वायुसेना भारतीयसांस्कृतिकसम्बन्धपरिषद् च भागं ग्रहीष्यन्ति। अस्मिन् काले शिल्पकारमेला गीतापुस्तकमेला च आयोजयिष्येते। अत्र विश्वस्तरीयाः शिल्पकाराः भागं ग्रहीष्यन्ति।
सः अवदत् यत् जनपदस्तरे डिसेम्बरमासस्य १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं गीताजयन्तीसमारोहाः आयोजयिष्यन्ते। अस्मिन् काले प्रदेशस्य प्रत्येकस्मिन् ग्रामे स्थिते मन्दिरे गीतापाठः आयोजयिष्यते। एतदतिरिक्तं देशस्य सर्वेषु केन्द्रीयविद्यालयेषु जवाहरनवोदयविद्यालयेषु च विद्यार्थिनः सहभागिनः करिष्यन्ते।
सः अवदत् यत् अन्ताराष्ट्रियगीताजयन्तेः पूर्वं कुरुक्षेत्रविकासमण्डलस्य क्षेत्रं स्वच्छं सुन्दरं च स्थापयितुं मासपर्यन्तं स्वच्छताभियानं चालयेत् तथा च विभिन्नस्थानेषु स्वच्छतापेटिकाः स्थापयेयुः, येन मेलाक्षेत्रे कुत्रापि अस्वच्छता न प्रसरेत्। एतदर्थं समर्पिता स्वच्छतादलव्यवस्था अपि स्थापनीया।
Hindusthan Samachar / Divya Ranjan