Enter your Email Address to subscribe to our newsletters

भोपालम्, २९ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः गुरुवासरे नवदिल्ली इत्यत्र केन्द्रीयपर्यावरण-वन-जलवायुपरिवर्तनमन्त्रिणः भूपेन्द्रयादवस्य निवासस्थाने तेन सह सौजन्यसाक्षात्कारं कृतवान्।
अस्य साक्षात्कारस्य समये मुख्यमन्त्री डॉ. यादवः केन्द्रीयमन्त्रिणं यादवम् अवदत् यत् मध्यप्रदेशः प्राकृतिकसम्पदः, समृद्धवनसम्पदः जैवविविधतायाश्च दृष्ट्या महत्त्वपूर्णं राज्यम् अस्ति। राज्ये पर्यावरणसंरक्षणाय, वनक्षेत्राणां संवर्धनाय, वन्यजीवानां संरक्षणाय तथा सततविकासस्य प्रोत्साहनाय निरन्तरं प्रयत्नाः क्रियमाणाः सन्ति।
अस्मिन् अवसरे प्रदेशे वनक्षेत्राणां संवर्धनं वन्यजीवानां संरक्षणं च सम्बद्धानां विषयाणां विषये विस्तृतचर्चा अभवत्।
Hindusthan Samachar / Divya Ranjan