टर्फ २०२६ इत्यस्य षोडशतमं संस्करणं नवम्बरमासस्य २० दिनाङ्के, भारत-फ्रान्सदेशयोः क्रीडासहभागितायाः विषये विशेषेण बलं दीयते।
नवदिल्ली, 29 अक्टूबरमासः (हि.स.)। भारतीयवाणिज्य-उद्योगमहासङ्घेन (फिक्की) क्रीडाव्यापारस्य वैश्विकसम्मेलनस्य इण्डियास्पोर्ट्स अवार्ड्स इत्यस्य च षोडशतमस्य संस्करणस्य ‘टर्फ २०२६’ इत्यस्य घोषणां कृता अस्ति। अस्य आयोजनं नवम्बरमासस्य विंशतितमे दिनाङ्क
फिक्की लोगो


नवदिल्ली, 29 अक्टूबरमासः (हि.स.)।

भारतीयवाणिज्य-उद्योगमहासङ्घेन (फिक्की) क्रीडाव्यापारस्य वैश्विकसम्मेलनस्य इण्डियास्पोर्ट्स अवार्ड्स इत्यस्य च षोडशतमस्य संस्करणस्य ‘टर्फ २०२६’ इत्यस्य घोषणां कृता अस्ति। अस्य आयोजनं नवम्बरमासस्य विंशतितमे दिनाङ्के नवदेहल्यां स्थिते फेडरेशन हाउस् इति स्थाने भविष्यति। अस्मिन् वर्षे फ्रान्सदेशः सम्मेलनस्य सहभागिदेशः भविष्यति। सम्मेलनस्य विषयः ‘भारतस्य क्रीडाऽर्थव्यवस्थायाः गतिवर्धनम् : सहभागिता, नवाचारः, वैश्विकनेतृत्वं च’ इति निर्धारितः अस्ति।

फिक्कीद्वारा प्रकाशितायां विज्ञप्तौ उक्तं यत् सम्मेलने फ्रान्सदेशस्य क्रीडाप्रतिनिधिमण्डलं भागं ग्रहीष्यति। अस्मिन् बिजनेस फ्रान्स, चूज पेरिस रीजन, अटूट फ्रान्स, आईएनएसईपी, अल्कोर इक्विपमेण्ट् तथा ग्रुप एबीईओ इत्येतेषां संस्थानां प्रतिनिधयः सम्मिलिताः भविष्यन्ति। प्रतिनिधिमण्डलं भारतीयहितधारकैः सह आमन्त्रणाधारितेन शीघ्रसम्पर्कसत्रेण स्वसहभागिताम् आरभिष्यति। अनन्तरं भारतफ्रान्सयोः क्रीडासहभागिता, पेरिस-ओलम्पिक् २०२४ इत्यस्मात् प्राप्ताः अनुभवाः, भारतस्य ओलम्पिकसम्बद्धाः महत्त्वाकाङ्क्षाः, क्रीडाप्रौद्योगिकी च इत्यादिषु विषयेषु विभिन्नेषु सत्रेषु चर्चा भविष्यति।

सम्मेलनस्य उद्घाटनसत्रे द्वे ज्ञानप्रतिवेदने प्रकाशयिष्येते। तयोः फिक्की-विसीआई ज्ञानप्रतिवेदनं तथा फिक्की-पीडब्ल्यूसी इत्यनयोः संस्थयोः ‘क्रिकेट् २.० : अग्रपादेन क्रीडनम्’ इति शीर्षकयुक्तं प्रतिवेदनं च अन्तर्भविष्यतः।

फिक्क्याः क्रीडासमितेः अध्यक्षः तथा जीएमआरसमूहस्य सामरिकपरामर्शदाता पीकेएसवी सागरः अवदत् यत् पेरिस-ओलम्पिक् २०२४ इत्यस्य आयोजनविषये फ्रान्सदेशस्य अनुभवाः भारतस्य क्रीडासम्बद्धाभिः महत्त्वाकाङ्क्षाभिः कृते उपयोगिनः शिक्षाप्रदाः पाठाः प्रददति। टर्फ २०२६ सम्मेलने फ्रान्सदेशस्य प्रतिनिधिमण्डलं भारतीयहितधारकैः सह उच्चस्तरीयक्रीडाप्रदर्शनस्य, आधारभूतसंरचनायाः, प्रौद्योगिक्याः, क्रीडायोजनानां च क्षेत्रेषु सहभागितायाः सम्भावनानां विषये विचारविमर्शं करिष्यति।

तेन उक्तं यत् क्रीडाविषयकज्ञानप्रतिवेदनस्य प्रकाशनम् अपि आनन्दस्य विषयः अस्ति। एतत् प्रतिवेदनं क्रीडोद्योगाय उपयोगी सन्दर्भग्रन्थरूपेण सिद्धं भविष्यतीति अपेक्षा अस्ति।

फिक्क्याः क्रीडासमितेः सहाध्यक्षः तथा अडाणी स्पोर्ट्सलाइन इत्यस्य मुख्यव्यवसायाधिकारी सञ्जय अडेसरा अवदत् यत् भारतीयक्रीडाजगत् सम्प्रति केवलं सङ्कल्पानां चरणात् अग्रे गत्वा तेषाम् कार्यान्वयनस्य चरणं प्राप्तम् अस्ति। अस्मिन् परिवर्तने समुचितसहभागितानां महत्त्वपूर्णा भूमिका भविष्यति। टर्फ २०२६ भारतीयफ्रान्सीयहितधारकेभ्यः विचारविनिमयस्य दीर्घकालीनसहकारितायाः विकासस्य च मञ्चं प्रदास्यति।

टर्फ इति सम्मेलनं देशस्य प्रमुखेषु क्रीडाव्यापारमञ्चेषु अन्यतमम् अभवत्। एतत् नीतिनिर्मातॄन्, क्रीडकान्, निवेशकान्, ब्राण्ड्-प्रतिनिधीन्, नवाचारसम्बद्धान् जनांश्च एकत्र आनयति। सम्मेलनस्य समापनं सायंकाले इण्डिया स्पोर्ट्स अवार्ड्स इत्यनेन सह भविष्यति। अस्मिन् क्रीडाव्यापारे नेतृत्वक्षेत्रे च उत्कृष्टं योगदानं ददतां व्यक्तीनां संस्थानां च सम्मानः क्रियते। ततः भव्यस्य सम्पर्कवर्धकस्य रात्रिभोजस्य आयोजनमपि भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani