Enter your Email Address to subscribe to our newsletters

कोलकाता, अक्टोबरमासः २९ दिनाङ्कः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी गुरुवासरे उत्तरदिनाजपुरमण्डलस्य रायगञ्जे जनसभां सम्बोधयन् महत्त्वपूर्णां घोषणां कृतवान्। सः अवदत् यत् बाङ्गलादेशे कथितरूपेण जमात्-सङ्घटनस्य सदस्येभ्यः आक्रमणेभ्यः रक्षितुं भारतस्य सीमां प्रविष्टवन्तः हिन्दुशरणार्थिनः शीघ्रमेव सुधारगृहेभ्यः अर्थात् कारागारेभ्यः मोचयिष्यन्ते। मुख्यमन्त्री स्पष्टं कृतवान् यत् एते हिन्दवः स्वजीवनस्य धर्मस्य च रक्षणाय भारतदेशे शरणम् अगृह्णन्, अतः ते लौहशृङ्खलानां पृष्ठे न स्थापनीयाः।
मुख्यमन्त्रिणा उत्तरदिनाजपुरमण्डलस्य सुधारगृहेषु निरुद्धानां शरणार्थिनां मोचनं सुनिश्चितं कर्तुं शीघ्रं पदक्षेपान् स्वीकर्तुं निर्देशः दत्तः। जनसभायाम् उपस्थिताय राज्यस्य विधिमन्त्रिणे बिराजविश्वासाय मञ्चात् एव एतदर्थम् आवश्यकविधिप्रक्रियायाः आरम्भस्य दायित्वं समर्पितम्। अधिकारी प्रशासनम् अपि अविलम्बेन अस्य प्रकरणस्य अन्वेषणं कर्तुम् आग्रहं कृतवान्।
नागरिकतायाः विषये भाषमाणः मुख्यमन्त्री आश्वासनं दत्तवान् यत् योग्येभ्यः शरणार्थिभ्यः नागरिकतासंशोधनाधिनियमस्य अन्तर्गतं भारतीयनागरिकता प्रदास्यते। सः सूचितवान् यत् एतावता प्रायः ९,००० आवेदनपत्राणि प्राप्तानि सन्ति। नवम्बरमासस्य ३० दिनाङ्कपर्यन्तम् एषा प्रक्रिया सम्पूर्णा भविष्यति इति सः आशां प्रकटितवान्।
मुख्यमन्त्री अवदत् यत् केन्द्रीयगृहमन्त्रिणा तेभ्यः नागरिकताप्रमाणपत्राणि प्रदातुं मह्यं दायित्वं समर्पितम् अस्ति।
अनुसूचितजातिवर्गस्य आवेदकेभ्यः जातिप्रमाणपत्राणि अपि प्रदास्यन्ते इति सः सूचितवान्। सर्वे योग्याः आवेदकाः २०२७ तमस्य वर्षस्य जनवरीमासे मतदातृसूच्यां समावेशयिष्यन्ते। सीमावर्तिक्षेत्रेषु निवसद्भ्यः बाङ्गलादेशात् आगतेभ्यः जनेभ्यः अपि पात्रतामानदण्डान् पूरयन्तः नागरिकतासंशोधनाधिनियमस्य अन्तर्गतं नागरिकतायै आवेदनं कर्तुम् आह्वानं कृतम्।
उत्तरदिनाजपुरमण्डलस्य भारत-बाङ्गलादेशसीमायाः समीपस्थतां दृष्ट्वा मुख्यमन्त्री सीमासुरक्षाबलस्य राज्यारक्षिदलस्य च मध्ये समन्वयस्य महत्त्वं प्रतिपादितवान्।
स्थानीयजनान् सुरक्षासंस्थानां सहयोगं कर्तुम् अपि आहूतवान्। सः कठोरस्वरेण सञ्चेतनाम् अयच्छत् यत् अन्ताराष्ट्रियसीमायाः समीपे कस्यापि अवैधस्य मदरसा इत्यस्य विकासः न अनुमन्यते तथा राष्ट्रविरोधिनः क्रियाकलापाः कदापि न सहिष्यन्ते। बाङ्गलादेशस्य वर्तमानघटनाक्रमस्य तत्र जमात्-सङ्घटनस्य गतिविधीनां च सन्दर्भे अधिकारी अवदत् यत् तिलचट्टकवत् मत्कूणवत् च असामाजिकगणानां पुनः सङ्घटनं स्वजालस्य विस्तारं वा कर्तुं न अनुमतिः भविष्यति। धार्मिकोत्सवकाले आक्रमणानि न सहिष्यन्ते इति सञ्चेतनाम् दत्त्वा सः अधिकारिभ्यः एतादृशानां घटनानां विरुद्धं कठोरकार्याचरणं कर्तुं निर्देशान् दत्तवान्।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः डॉ. श्यामाप्रसादमुखर्जीमहोदयस्य दर्शनम् अनुसृत्य कार्यं करोति। सः स्थानीयजनान् मदरसानां गतिविधिषु दृष्टिं स्थापयितुम् आग्रहं कृतवान् तथा च तत्र प्रार्थनासमये ‘वन्दे मातरम्’ इत्यस्य पूर्णसंस्करणं गीयते वा न इति सुनिश्चितं कर्तुं सूचितवान्।
शरणार्थिनां अवैधप्रवेश-कर्तॄणां च मध्ये स्पष्टं भेदं प्रतिपादयन् मुख्यमन्त्री अधिकारी अवदत् यत् भारतीयनागरिकतायै योग्याः जनाः विधिप्रावधानानुसारं व्यवह्रियन्ते।
अपरतः, अवैधप्रवेशकर्तारः निरोधकेन्द्रेषु स्थापयिष्यन्ते। तेषां भोजनाय जनधनं न व्ययीकृतं भविष्यति तथा ते बाङ्गलादेशं प्रति प्रत्यागन्तुमेव बाध्याः भविष्यन्ति इति सः स्पष्टं कृतवान्। मुख्यमन्त्री दृढतया अवदत्, “वयं तान् अस्मात् देशात् निष्कास्य पुनः बाङ्गलादेशं प्रेषयिष्यामः।”
Hindusthan Samachar / Divya Ranjan