२०२७ तमे वर्षे निषादपक्षः भाजपादलेन सहैव निर्वाचनं समरिष्यति : डॉ. सञ्जयनिषादः
अयोध्या, 03 अक्टूबरमासः (हि.स.)।मंडलीयमन्त्री तथा निषादपक्षस्य अध्यक्षः सञ्जयनिषादः शनिवासरे अयोध्यां प्राप्तवान्। तत्र सः विभागीयाधिकारिभिः सह समीक्षोपवेशनं कृत्वा योजनानां विकासकार्याणां च प्रगतिविषये सूचनां प्राप्तवान्। माध्यमप्रतिनिधिभिः सह वार
संजय निषाद


अयोध्या, 03 अक्टूबरमासः (हि.स.)।मंडलीयमन्त्री तथा निषादपक्षस्य अध्यक्षः सञ्जयनिषादः शनिवासरे अयोध्यां प्राप्तवान्। तत्र सः विभागीयाधिकारिभिः सह समीक्षोपवेशनं कृत्वा योजनानां विकासकार्याणां च प्रगतिविषये सूचनां प्राप्तवान्। माध्यमप्रतिनिधिभिः सह वार्तालापे सः २०२७ तमे वर्षे आयोज्यमानस्य विधानसभानिर्वाचनस्य विषये निषादपक्षस्य स्थितिं स्पष्टां कृतवान्। सञ्जयनिषादः उक्तवान् यत् २०२७ तमे वर्षे निषादपक्षः भाजपादलेन सहैव अस्ति। सः दावां कृतवान् यत् केन्द्रस्य प्रदेशस्य च भाजपासर्वकाराभ्यां निषादसमाजस्य कृते बहूनि कार्याणि कृतानि सन्ति। निषादसमाजस्य आरक्षणस्य प्रश्नस्य विषये सः उक्तवान् यत् मोदीयोगिसर्वकारे एव आरक्षणसम्बन्धी प्रश्नः समाधातुं शक्यते। सः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना राममन्दिरस्य निर्माणं, निषादराजस्य प्रतिमायाः स्थापना, महिलाभ्यः आरक्षणं च इत्यादीनि कार्याणि कृतानि सन्ति। सञ्जयनिषादः उक्तवान् यत् रामस्य निषादराजस्य च मैत्रीसम्बन्धस्य कारणेन अयोध्यया सह निषादसमाजस्य विशेषा श्रद्धा सम्बद्धा अस्ति। सः आगामीविधानसभानिर्वाचने निषादपक्षाय तासु आसनेषु अवसरं प्रदातुं आग्रहं कृतवान्, यासु आसनेषु पक्षः पूर्वं निर्वाचनं पराजितवान् अस्ति।

Hindusthan Samachar / Dheeraj Maithani