पञ्चके तर्पणं श्राद्धं च कृत्वा पञ्चगुणितं फलम् अवाप्यते।
अयोध्या, 03 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्याजनपदे सपरशुरामशिवपञ्चायतनमन्दिरस्य दुर्वासाआश्रमस्य अधिष्ठाता आचार्यः श्रवणकुमारमिश्रः शनिवासरे अवदत् यत् पितृपक्षः पूर्णिमातिथितः आरभ्य अमावास्यातिथिपर्यन्तं षोडशदिनात्मकः भवति। सः अवदत् यत्
आचार्य श्रवण कुमार मिश्र तर्पण व श्राद्ध करते हुए


अयोध्या, 03 अक्टूबरमासः (हि.स.)।

उत्तरप्रदेशस्य अयोध्याजनपदे सपरशुरामशिवपञ्चायतनमन्दिरस्य दुर्वासाआश्रमस्य अधिष्ठाता आचार्यः श्रवणकुमारमिश्रः शनिवासरे अवदत् यत् पितृपक्षः पूर्णिमातिथितः आरभ्य अमावास्यातिथिपर्यन्तं षोडशदिनात्मकः भवति। सः अवदत् यत् सम्प्रति पितृपक्षः प्रवर्तमानः अस्ति। पूर्णिमातः अमावास्यापर्यन्तं प्रतिदिनं तर्पणं करणीयम्। पितुः तिथौ तर्पणं, श्राद्धं ब्राह्मणभोजनान्तं कर्म च सम्पादनीयम्। एतेन प्रसन्नाः पितरः तर्पणं श्राद्धं च कुर्वद्भ्यः सर्वं प्रददति।

सः अवदत् यत् याज्ञवल्क्यमहर्षिः कथयति यत्

“आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः॥”

पितृगणे प्रसन्ने सति ते दीर्घायुः, सदाचारीं विद्वांसं पुत्रं, सद्विद्यां, सर्वाधिपत्यं, समस्तानि सांसारिकसुखानी, स्वर्गादीन् उत्तमान् लोकान् तथा परमानन्दलक्षणं मोक्षं च प्रददति। यतः पितृगणाः देवतानामपि पूर्वजाः सन्ति। मनुस्मृतावपि उक्तम् अस्ति - “महाभागाः पितरः पूर्वदेवताः।” गृहस्थानां कृते देवकार्यादपि पितृकार्यं विशिष्यते। पितृपूजनस्य कदापि लोपः न करणीयः। “देवकार्याद् गृहस्थानां पितृकार्यं विशिष्यते।”

सः अवदत् यत् अधुना जनाः विवाहस्य, मुण्डनस्य, यज्ञोपवीतस्य इत्यादीनां बहानानां अन्वेषणं कृत्वा पितृकार्येभ्यः वञ्चिताः भवन्ति। किन्तु शास्त्रस्य मतम् अस्ति यत् विवाहादीनां त्रिमासानन्तरं यदि पितृपक्षः आगच्छति तर्हि पिण्डदानम् अवश्यं करणीयम्। तर्पणं तु नित्यकर्म अस्ति, अतः तस्य त्यागः कदापि न करणीयः।

विवाहादीनां त्रिमासाभ्यन्तरे यदि पितृपक्षः आगच्छति तर्हि तिलवर्जितं तर्पणं करणीयम्, पिण्डदानं न करणीयम्। अर्थात् तिलरहितं तर्पणं कृत्वा ब्राह्मणभोजनं कारयितव्यम्। ये स्वपितॄन् न तर्पयन्ति, पितरः तेषां रक्तं पिबन्ति। पितृदोषस्य निवारणाय एतत् सुवर्णावसरम् अस्ति।

केचन जनाः अज्ञानवशात् कथयन्ति यत् पञ्चके तर्पणं श्राद्धं च न करणीयम्। किन्तु पञ्चके तर्पणं श्राद्धं च कृतं चेत् पञ्चगुणितं फलम् अवाप्यते।

----------

Hindusthan Samachar / Dheeraj Maithani