Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३ अक्टोबरमासः (हि.स.)। शिक्षामन्त्रालयेन शास्त्रीय-असमिया-भाषायाः, बङ्गलाभाषायाः, मराठीभाषायाः, पालिभाषायाः प्राकृतभाषायाश्च अध्ययनाय पञ्च उत्कृष्टताकेन्द्राणां स्थापनाय अनुमोदनं प्रदत्तम् अस्ति।
मन्त्रालयस्य उच्चशिक्षाविभागानुसारम्, एतेषां केन्द्राणां उद्देश्यं सम्बन्धितासु भाषासु उन्नतशैक्षणिकशोधस्य प्रोत्साहनं, भाषिकसाहित्यिकपरम्पराणां संरक्षणं, अङ्कीयकरणं, व्यापकप्रसाराय संस्था-गतसहयोगस्य च उपलब्धता अस्ति।
शास्त्रीय-असमियाभाषायै असमस्य तेजपुरविश्वविद्यालयः, शास्त्रीयबङ्गला-भाषायै पश्चिमबङ्गालस्य विश्वभारती-विश्वविद्यालयः, शास्त्रीयमराठीभाषायै पुणेस्थितः डेक्कन-कॉलेज-स्नातकोत्तर-अनुसन्धान-संस्थानम्, शास्त्रीयपालि-भाषायै केन्द्रीय-ओडिशाविश्वविद्यालयः तथा शास्त्रीय-प्राकृतभाषायै केन्द्रीय-गुजरात-विश्वविद्यालयश्च चयनिताः सन्ति।
एतेषु केन्द्रेषु सम्बन्धितासां शास्त्रीय-भाषाणाम् उन्नतशोधाय, विद्वत्कार्याय शैक्षणिकक्रियाकलापेभ्यश्च समर्पितं मञ्चं प्रदास्यते। तदनन्तरं भाषिकसाहित्यिक-संसाधनानां तथ्यकरणे, संरक्षणे तथा अङ्कीयकरणे अपि विशेषं ध्यानं दीयते।
मन्त्रालयेन उक्तं यत् एते केन्द्राः सम्बन्धिताभिः भाषाभिः सम्बद्धानां साहित्यिकानां, भाषिकानां ज्ञानपरम्पराणां च व्यापकप्रसारं तासां प्रति सुगमप्रवेशं च सुनिश्चितं करिष्यन्ति। पञ्चसु राज्येषु एतेषां केन्द्राणां स्थापनया शास्त्रीयभाषाणाम् अध्ययनाय अनुसन्धानाय च क्षेत्रीय-शैक्षणिकव्यवस्था अपि सुदृढा भविष्यति।
शिक्षामन्त्रालयानुसारं पञ्च उत्कृष्टता-केन्द्राणां स्थापना भारतस्य समृद्धायाः भाषिकसाहित्यिकपरम्परायाः संरक्षण-संवर्धनयोः दिशि महत्त्वपूर्णं पदम् अस्ति। एतेन उच्चशिक्षणसंस्थासु शास्त्रीय-भाषासम्बद्धस्य शोधस्य विद्वत्पूर्णा-ध्ययनस्य च प्रोत्साहनं भविष्यति।
Hindusthan Samachar / Divya Ranjan