Enter your Email Address to subscribe to our newsletters



वित्तमन्त्री सीतारमणः अवदत् — वैश्विकानिश्चितता अधुना स्थायिस्थितिरस्ति, अस्माभिः सुदृढता संरक्षणीया
नवदिल्ली, ०३ अक्टूबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः शनिवासरे अवदत् यत् अनिश्चितता वैश्विकस्य अर्थव्यवस्थायाः स्थायिस्थितिरूपेण परिणता अस्ति। अतः नीतयः एताम् अनिश्चिततां ध्यानं निधाय एव निर्मातव्याः। साथमेव सा अवदत् यत् भारतस्य आर्थिकसुदृढतां सहनशीलतां च निरन्तरं वर्धयितुम् आवश्यकता अस्ति।
सीतारमणः नवदिल्ल्यां पञ्चमे कौटिल्यआर्थिकसम्मेलने २०२६ इत्यस्मिन् सम्बोधनं कुर्वती एतद् उक्तवती। वैश्विकानिश्चिततायाः मध्ये भारतस्य प्राथमिकतानां विषये कथयन्ती सा अवदत् यत् अधुना समयः आगतः यत् निजीक्षेत्रं निवेशस्य नेतृत्वं कुर्यात्, यस्मिन् अनुसन्धानं विकासश्च अपि सम्मिलितौ स्तः।
वित्तमन्त्री अवदत्, “अनिश्चितता अधुना वैश्विकस्य अर्थव्यवस्थायाः स्थायिस्थितिः अभवत् तथा नीतयः एताम् अनिश्चिततां ध्यानं निधाय एव निर्मातव्याः। अग्रे गच्छद्भिः अस्माभिः सुदृढता संरक्षणीया, एषा एकवारिकी प्रक्रिया नास्ति। आगामिवर्षाणां कृते सज्जता आवश्यकी अस्ति तथा भारतं सुदृढतया तासां परिस्थितीनां सम्मुखीकरणाय सज्जम् अस्ति।”
वित्तमन्त्री सीतारमणः अवदत् यत् वैश्विकं सार्वजनिकऋणं २०२५ तमे वर्षे वर्धित्वा सकलघरेलूत्पादस्य प्रायः ९४ प्रतिशतं यावत् प्राप्तम्। २०२९ तमं वर्षं यावत् तत् १०० प्रतिशतं यावत् प्राप्स्यतीति अनुमानम् अस्ति। एतादृशः स्तरः द्वितीयविश्वयुद्धोत्तरकाले अन्तिमवारं दृष्टः आसीत्।
सीतारमणः “परिवर्तनस्य काले सुदृढता” इति विषये स्वसम्बोधने अवदत् यत् भारतस्य नेतृत्वं ‘सुधारवादीचिन्तन’सम्पन्नम् अस्ति। सा अग्रे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी सुधारान् विवशतया न, अपितु दृढविश्वासेन स्वीकरोति।
वित्तमन्त्री अवदत् यत् केन्द्रसर्वकारेण वस्तुसेवाकरस्य, दिवालियापनस्य शोधनस्य च संहितायाः, चतुर् श्रमसंहितानां तथा जनविश्वास-अधिनियमस्य माध्यमेन राष्ट्रस्तरे सुधाराः अग्रे वर्धिताः। एतेषां सुधाराणां मुख्योद्देश्यं देशस्य सर्वेषु भागेषु आर्थिकक्रियाकलापान् सरलीकर्तुं, अधिकं पूर्वानुमेयम् उत्पादकं च कर्तुम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani