दुग्धोत्पादने मध्यप्रदेशः अधुना देशस्य तृतीयः बृहत्तमः प्रदेशः - मोहनयादवः
भोपालम्, ३ अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रदेशः नवदुग्धक्रान्तेः दिशि अग्रे सरति। दुग्धोत्पादने मध्यप्रदेशः अधुना देशस्य तृतीयः बृहत्तमः राज्यः अस्ति। अस्माकं लक्ष्यं पूर्णतया स्पष्टम् अस्ति यत् देशस्य सर्
भोपाल में राज्य स्तरीय गोपालक सम्मेलन को संबोधित करते हुए मुख्यमंत्री मोहन यादव


भोपाल में राज्य स्तरीय गोपालक सम्मेलन को संबोधित करते हुए मुख्यमंत्री मोहन यादव


भोपालम्, ३ अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रदेशः नवदुग्धक्रान्तेः दिशि अग्रे सरति। दुग्धोत्पादने मध्यप्रदेशः अधुना देशस्य तृतीयः बृहत्तमः राज्यः अस्ति। अस्माकं लक्ष्यं पूर्णतया स्पष्टम् अस्ति यत् देशस्य सर्वाधिकं दुग्धोत्पादनं मध्यप्रदेशस्य भूमौ भवेत्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् कृषकाणाम् आयवर्धनाय गोपालनात्, दुग्धोत्पादनात्, पशुपालनात्, कुक्कुट-पालनात्, अजपालनात् मत्स्यपालनाच्च आयवर्धनस्य प्रयासाः क्रियन्ते। कृषकाणां सर्वाधिकः आयः दुग्धोत्पादनात् भवति।

मुख्यमन्त्री शनिवासरे केन्द्रीयगृहमन्त्रिणः सहकारितामन्त्रिणश्च अमितशाहस्य उपस्थितौ भोपालस्य भेल-दशहरा-क्रीडाङ्गणे आयोजिते विशालराज्यस्तरीये गोपालकसम्मेलने सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् अद्य स्वयं केन्द्रीयसहकारितामन्त्रिणः उपस्थितौ अत्र अद्भुतं राज्यस्तरीयं गौपालकसम्मेलनम् आयोजितम् अस्ति। प्रदेशे ८० लक्षाधिकगोपालकानां विशालः समृद्धः परिवारः अस्ति। राज्यसर्वकारेण निर्धनानां यूनां महिलानां नारीशक्तेश्च कल्याणाय अनेकानि महत्त्वपूर्णानि कार्याणि कृतानि सन्ति।

सः अवदत् यत् कृषककल्याणवर्षे वयं १७ विभागान् एकत्र संयोजितवन्तः। कृषकाणां समृद्ध्यै तेषाम् आयवर्धनाय च अस्माकं सर्वकारेण सर्वप्रकाराः प्रयासाः प्रारब्धाः सन्ति। प्रदेशस्य प्रत्येकस्मिन् जनपदे कृषिमेलापकाः, कृषियन्त्राणां प्रदर्शनानि, उन्नतकृषेः उपायाश्च कृषकबन्धुभ्यः कथ्यन्ते। प्रदेशस्य प्रत्येकस्मिन् ग्रामे कस्बायां च सर्वाः दुग्धसहकारीसमितयः अधिकं सुदृढाः भवेयुः इत्यर्थं वयं सर्वाणि आवश्यकानि पदानि स्वीकरोमः। अस्यां दिशि प्रदेशे बहवः नवाचारीप्रयासाः क्रियन्ते।

गोवर्धनपूजायाः पूर्वं सर्वकारस्य त्रयः नवीनाः सङ्कल्पाः, मुख्यमन्त्रिणा त्रयः घोषणाः

सम्मेलने मुख्यमन्त्री डॉ. यादवः गोपालकानां दुग्धोत्पादकानां च हिताय सञ्चालितानां विविधकल्याणकारी-योजनानां उल्लेखं कुर्वन् अग्रिममासे गोवर्धनपूजायाः पूर्वं सर्वकारस्य त्रयाणां नवीनसङ्कल्पानां विषये सूचितवान्। एतेषां सङ्कल्पानां पूर्तये घोषणां कुर्वन् सः अवदत् यत् प्रदेशस्य सर्वेषु ३१३ विकासखण्डेषु स्थितेषु वृन्दावनग्रामेषु उत्कृष्टगोपालकानां प्रतियोगिता आयोजयिष्यते। अस्यां प्रतियोगितायां विजेतृभ्यः नगदपुरस्काराः प्रदास्यन्ते। प्रथमविजेतृभ्यः एकलक्ष-रुप्यकाणि, द्वितीयविजेतृभ्यः पञ्चाशत्स-हस्ररुप्यकाणि, तृतीयपुरस्काररूपेण पञ्चविंशतिसहस्ररुप्यकाणि च प्रदास्यन्ते।

सः अवदत् यत् सम्प्रति प्रदेशे ४०६ गो-रुग्णवाहिकाः सञ्चरन्ति। तासां संख्यां वर्धयित्वा अधुना प्रदेशे १६८ नवीनाः गो-रुग्णवाहिकाः सञ्चालयिष्यन्ते। सः अवदत् यत् उन्नतदुग्धदायिन्यः पशुजातयः अधिकं दुग्धं ददति। अतः उन्नतपशुजातीनां पशुपालनस्य प्रोत्साहनाय प्रदेशस्य विभिन्नस्थलेषु पशुपालकानां बृहन्मेलापकाः आयोजयिष्यन्ते।

मध्यप्रदेशः देशे सर्वप्रथमं नक्सलवादात् मुक्तः

मुख्यमन्त्री डॉ. यादवः अवदत् यत् केन्द्रीयमन्त्रिणः शाहस्य अटलसङ्कल्पेन एव देशः नक्सलवादस्य समस्यायाः स्थायिरूपेण मुक्तः अभवत्। मध्यप्रदेशः देशे सर्वप्रथमं दशकानां पुरातनायाः अस्याः समस्यायाः मुक्तः अभवत्। सः अवदत् यत् मध्यप्रदेशः प्रत्येकं केन्द्रीययोजनायाः शतप्रतिशतं परिणामं प्राप्तुं केन्द्रसर्वकारेण सह पदे पदे अग्रे सरति।

पूर्वं दुग्धोत्पादकेभ्यः मध्यस्थाः लाभं प्राप्नुवन्ति स्म। किन्तु केन्द्रीयसह-कारितामन्त्रिणः शाहस्य प्रयासैः अधुना राष्ट्रियदुग्धविकासमण्डलेन सह सन्धि-ज्ञापनपत्रं हस्ताक्षरितम् अस्ति। केन्द्रीय-मन्त्रिणः शाहस्य करकमलाभ्यां अद्य मध्यप्रदेशाय दुग्धोत्पादनस्य डेयरीक्षेत्रस्य च विषये अनेकानि महत्त्वपूर्णानि उपहाराणि प्राप्तानि सन्ति।

सः अवदत् यत् विश्वे प्रतिदिनं प्रतिव्यक्ति ३३० ग्राममितं दुग्धोत्पादनं भवति। भारतदेशे एषः परिमाणः ४८५ ग्राममितः अस्ति, मध्यप्रदेशे च राष्ट्रियसरासरीतः अधिकं ७५० ग्राममितम् अस्ति। अद्य प्रदेशे श्वेतक्रान्तेः २.० इत्यस्य शुभारम्भः भवति। सः अवदत् यत् अस्माकं सर्वकारेण दुग्धसहकारीसमितीनां संख्या वर्धयित्वा प्रतिदिनं ५० लक्षलीटरं दुग्धसङ्कलनस्य लक्ष्यं निर्धारितम् अस्ति। येषु ग्रामेषु समितयः न निर्मिताः सन्ति, तत्रापि समितयः गठयिष्यन्ते।

मध्यप्रदेशे भोपालम्, इन्दौरम्, ग्वालियरम्, उज्जयिनी इत्यादिषु स्थानेषु सहितं कुलं षट् दुग्धसहकारीसङ्घाः सञ्चाल्यन्ते। एतेषां श्रेष्ठप्रदर्शनं, पारदर्शिनीतयः तथा दुग्धोत्पादनमूल्यशृङ्खला च सुदृढीकृत्य कार्यं करिष्यामः।

सः अवदत् यत् प्रदेशे ६ कोट्यधिकं पशुधनम् अस्ति। राज्ये गिर्, साहिवाल् इत्यादीनां गोवंशानां तथा दुग्धदायिनां पशूनां संख्या वर्धयितुं आवश्यकता अस्ति। प्रदेशस्य गोशालासु उन्नतजातीयाभिः गौभिः दुग्धोत्पादनं वर्धिष्यते। अस्माकं कृषकबन्धवः सहकारितायाः पशुपालनस्य च माध्यमेन स्वजीवनं परिवर्तितवन्तः। प्रदेशे ३५०० गोशालाः सन्ति, तासु ५ लक्षाधिकस्य गौवंशस्य संरक्षणं क्रियते। सः अवदत् यत् प्रदेशस्य प्रत्येकस्मिन् विकासखण्डे वृन्दावनग्रामाः विकसिताः क्रियन्ते। वृन्दावनग्रामेषु उन्नतजातीय-पशुपालनं, दुग्धोत्पादनं प्राकृतिककृषिश्च प्रोत्साह्यते।

गौपालकान् समृद्धान् करिष्यामः

मुख्यमन्त्री डॉ. यादवः अवदत् यत् वयं गौपालकान् समृद्धान् गोपालनं च प्रकृतेः पर्यावरणं च प्रति प्रेम्णः अनुपमम् उदाहरणं करिष्यामः। दुग्धोत्पादनं व्यक्तिगतस्तरे गोशालानां माध्यमेन च वर्ध्यमानम् अस्ति। नगरनिगमक्षेत्रेषु स्थितासु गौशालासु अपि अनुदानं प्रतिगौ २० रुप्यकाणि इत्यस्मात् वर्धयित्वा प्रतिगौ ४० रुप्यकाणि कृतम् अस्ति।

राज्ये डॉ. भीमराव-अम्बेडकर-कामधेनु-योजना प्रारब्धा अस्ति। अस्याः योजनायाः अन्तर्गतं ४० लक्षरुप्यकाणां ऋणं स्वीकृत्य २५ गौपालने सर्वकारेण १० लक्षरुप्यकाणां अनुदानं दीयते। सः अवदत् यत् प्रदेशवासिभ्यः २१ वर्षाणाम् अनन्तरं मध्यप्रदेश-सुगम-परिवहन-बससेवायाः सौगातं प्राप्तम् अस्ति। मध्यप्रदेशे स्वामित्वाधिकार-अभिलेखनिष्पादन-योजनायाः अन्तर्गतं ५० लक्षाधिकेभ्यः पट्टाधारकेभ्यः पक्काः पञ्जीकरणपत्राणि निष्पाद्य निःशुल्कं प्रदीयन्ते।

कार्यक्रमे भाजपायाः प्रदेशाध्यक्षः हेमन्तखण्डेलवालः तथा मध्यप्रदेशस्य सहकारितामन्त्री विश्वासकैलाशसारङ्गः अपि सम्बोधितवन्तौ। अस्मिन् अवसरे उपमुख्यमन्त्रिणौ जगदीशदेवडा राजेन्द्र-शुक्लश्च, मन्त्रिणौ एदलसिंहकंषना कृष्णागौरश्च, भोपालस्य आलोकशर्मा, विधायकाः रामेश्वरशर्मा, भगवानदास-सबनानी, विष्णुखत्री, महापौरः मालतीरायः, कृभको-संस्थायाः प्रबन्धनिदेशकः एस.-एस.यादवः, अन्ये जनप्रतिनिधयः तथा भोपालसहितं समीपस्थेषु रायसेन, सीहोर, विदिशा, राजगढ, नर्मदापुरम् हरदा च जनपदेषु स्थितानां सर्वासां दुग्धसहकारी-समितीनां सहस्रशः गोपालकसदस्याः उपस्थिताः आसन्।

––––––––––––––––––––––––––––––––––––––––––––––––––

Hindusthan Samachar / Divya Ranjan