नेपालः यथेच्छविमानशुल्कग्राहिभ्यः वायुसेवासंस्थाभ्यः १५ लक्षरुप्यकाणां यावत् दण्डस्य प्रस्तावः
काठमाण्डू, ०३ अक्टूबरमासः (हि.स.)। नेपालदेशे पर्वसु, उत्सवेषु वा आपत्कालीनावस्थासु यात्रिभ्यः यथेच्छं वायुयानशुल्कं गृह्णन्तीः वायुसेवासंस्थाः सर्वकारः कठोरविधिक्रियायाः आर्थिकदण्डस्य च व्याप्तौ आनेतुं प्रयतते। संघीयसंसदि प्रस्तुतस्य ''नेपालनागरिक
नेपाल नागरिक उड्डयन प्राधिकरण


काठमाण्डू, ०३ अक्टूबरमासः (हि.स.)। नेपालदेशे पर्वसु, उत्सवेषु वा आपत्कालीनावस्थासु यात्रिभ्यः यथेच्छं वायुयानशुल्कं गृह्णन्तीः वायुसेवासंस्थाः सर्वकारः कठोरविधिक्रियायाः आर्थिकदण्डस्य च व्याप्तौ आनेतुं प्रयतते।

संघीयसंसदि प्रस्तुतस्य 'नेपालनागरिकविमानप्राधिकरण'सम्बन्धिनः नियमस्य संशोधनार्थम् एकीकरणार्थं च निर्मितविधेयके स्वीकृतशुल्कात् अधिकधनग्राहिणीभ्यः वायुसेवाकंपनीभ्यः १५ लक्षनेपालीयरुप्यकाणां यावत् दण्डविधानस्य प्रस्तावः कृतः अस्ति।

यात्रिभ्यः अधिकशुल्कग्रहणस्य प्रवृत्तिं हतोत्साहितुं विधेयकस्य ४७ तमधारायां विमानशुल्कसम्बन्धिनीम् अनियमिततां गम्भीरोपराधवर्गे स्थापितमस्ति।

प्राधिकरणेन स्वीकृतविमानशुल्कदरात् अधिकं शुल्कं गृहीत्वा उड्डयनसञ्चालनं नियमानुसारम् अपराधः मंस्यते।

एतादृशे अपराधे सिद्धे सति वायुसेवासंस्थाभिः भारी आर्थिकदण्डः सोढव्यः भविष्यति। विधेयकस्य ४८(१)(ख) धारायाः अन्तर्गतं स्वीकृतशुल्कात् अधिकधनसंग्रहं कुर्वत्याः वायुसेवाकंपन्याः व्यक्तिविशेषस्य वा उपरि ५ लक्षतः १५ लक्षनेपालीयरुप्यकाणां यावत् दण्डमारोपयितुं महानिदेशकस्य अधिकारः दत्तः अस्ति।

सकृत् दण्डं दत्त्वापि पुनः यात्रिभ्यः अधिकशुल्कं गृह्णन्तीनां वायुसेवासंस्थानाम् उपरि कठोरतरा क्रिया भविष्यति। अस्याः धारायाः प्रावधाने अस्ति यत् पूर्वं दण्डितः जनः संस्था वा यदि तमेव अपराधं पुनः करोति, तर्हि तस्मै पूर्वदण्डस्य अपेक्षायाम् द्विगुणः दण्डः दातव्यः भविष्यति।

नियमस्य प्रवृत्तेः अनन्तरम् उत्सवेषु, प्रतिकूलर्तौ, प्राकृतिकविपत्तिषु च यात्रिणाम् अतिव्ययि-पत्रिकेभ्यः यथेच्छविमानशुल्कात् च राहतं प्राप्स्यते तथा च पत्रिकाणां कृष्णापणस्य (कालाबाजारी) नियन्त्रणं भविष्यति इति आशास्यते।

---------------------------------------------------------------------------------

Hindusthan Samachar / Sachin Budhauliya