एशियायीक्रीडाः २०२६ – भारतेन ८५ पदकैः सह स्वअभियानस्य समापनं कृतम्, पदकतालिकायां चतुर्थे स्थाने स्थितम्
– भारतेन शनिवासरे आहत्य ९ पदकानि जितानि, एतेषु पञ्च स्वर्णानि, द्वे रजते, द्वे कांस्ये च समाविष्टे स्तः नवदेहली, ०३ अक्टूबरमासः (हि.स.)। एशियायीक्रीडासु २०२६ शनिवासरे १५ तमे क्रीडादृष्ट्या अन्तिमे च दिने भारतेन पदकतालिकायां चतुर्थे स्थाने स्थित्वा
भारतीय पुरुष हॉकी टीम


– भारतेन शनिवासरे आहत्य ९ पदकानि जितानि, एतेषु पञ्च स्वर्णानि, द्वे रजते, द्वे कांस्ये च समाविष्टे स्तः

नवदेहली, ०३ अक्टूबरमासः (हि.स.)। एशियायीक्रीडासु २०२६ शनिवासरे १५ तमे क्रीडादृष्ट्या अन्तिमे च दिने भारतेन पदकतालिकायां चतुर्थे स्थाने स्थित्वा स्व–अभियानस्य समापनं कृतम्। शनिवासरे भारतीयक्रीडकैः धनुर्विद्यायाम्, गोल्फक्रीडायाम्, क्रिकेट्-क्रीडायाम्, मल्लयुद्धे, हॉकीनुक्रीडायां च उत्कृष्टं प्रदर्शनं कुर्वद्भिः आहत्य ९ पदकानि स्वनाम्नि कृतानि। दिनस्य महत्सु उपलब्धिषु कुमकुममोहोदमहोदयायाः व्यक्तिगत-रिकर्व-स्पर्धायां ऐतिहासिकं स्वर्णम्, प्रणवी-उर्समहोदयायाः गोल्फक्रीडायां स्वर्णम्, भारतीयपुरुष-क्रिकेट्-दलस्य पुरुष-हॉकी-दलस्य च स्वर्णम्, तथा च अमन-सेहरावतमहोदयस्य मल्लयुद्धे स्वर्णं समाविष्टम् अस्ति। रविवासरे एशियायीक्रीडानां २०२६ समापनसमारोहः आयोजितः भविष्यति।

एताभिः उपलब्धिभिः सह भारतस्य आहत्य पदकानां संख्या ८५ अभवत्। भारतेन आहत्य २१ स्वर्णानि, २७ रजतानि, ३७ कांस्यपदकानि च जितानि सन्ति तथा च तत् पदकतालिकायां चतुर्थे स्थाने अस्ति। पदकतालिकायां चीनादेशः ३४१ पदकैः सह शीर्षस्थाने अभवत्, एतेषु १६९ स्वर्णानि, ८९ रजतानि, ८३ कांस्यानि च समाविष्टानि सन्ति। जापानदेशः २६७ पदकैः सह द्वितीयस्थाने तथा दक्षिणकोरियादेशः १४९ पदकैः सह तृतीयस्थाने अस्ति।

हांगझोऊ-नगरस्य ऐतिहासिकात् प्रदर्शनात् भारतं कियत् पृष्ठतः?

एशियायीक्रीडानां पूर्वे संस्करणे, हांगझोऊ-२०२२ मध्ये भारतेन ऐतिहासिकं प्रदर्शनं कुर्वता प्रथमवारं १०० तः अधिकानि पदकानि जितानि आसन्। भारतेन तत्र आहत्य १०७ पदकानि प्राप्तानि आसन्, एतेषु २८ स्वर्णानि, ३८ रजतानि, ४१ कांस्यानि च समाविष्टानि आसन्।

अस्य तुलनायां एशियायीक्रीडासु २०२६ अधुनावधि भारतस्य कोशे ८५ पदकानि— २१ स्वर्णानि, २७ रजतानि, ३७ कांस्यानि च सन्ति। अर्थात् हांगझोऊ-नगरस्य आहत्य पदककीर्तिमानस्य तुलनायां भारतम् अस्मिन् समये २२ पदकानि पृष्ठतः अस्ति। स्वर्णपदकेष्वपि अस्मिन् वारे भारतस्य समीपे २१ पदकानि सन्ति, यदा तु हांगझोऊ-नगरस्य क्रीडासु तेन २८ स्वर्णानि जितानि आसन्।

तथापि, २०२६ तमस्य वर्षस्य क्रीडासु भारतीयक्रीडकैः अनेकाः एतादृश्यः उपलब्धयः प्राप्ताः याः देशस्य एशियायीक्रीडेतिहासः प्रथमवारं अङ्किताः अभवन्। धनुर्विद्या-गोल्फ-मल्लयुद्ध-हॉकी-क्रिकेट्-सहितासु अनेकासु क्रीडासु भारतीयक्रीडकानां प्रदर्शनेन पदकअभियानं विशिष्टं कृतम्।

--------––––––––––––––––––––

Hindusthan Samachar / Dheeraj Maithani