तरङ्गशक्तिः २०२६ युद्धाभ्यासे आकाशे अद्भुतं दृश्यं दृष्टम्
अनेकदेशानां युद्धविमानैः एकस्मिन् काले संयुक्तरूपेण उड्डयनम् जोधपुरम्, ३ अक्टोबरमासः (हि.स.)। जोधपुरस्य वायुसैनिककेन्द्रे प्रचलिते ‘तरङ्गशक्तिः २०२६’ युद्धाभ्यासे शनिवासरे आकाशे अद्भुतं दृश्यं दृष्टम्। युद्धाभ्यासे भागं गृह्णतां सर्वेषां मित्रराष्
jodhpur


अनेकदेशानां युद्धविमानैः एकस्मिन् काले संयुक्तरूपेण उड्डयनम्

जोधपुरम्, ३ अक्टोबरमासः (हि.स.)। जोधपुरस्य वायुसैनिककेन्द्रे प्रचलिते ‘तरङ्गशक्तिः २०२६’ युद्धाभ्यासे शनिवासरे आकाशे अद्भुतं दृश्यं दृष्टम्। युद्धाभ्यासे भागं गृह्णतां सर्वेषां मित्रराष्ट्राणां युद्धविमानानि वायुसैनिकदलसदस्याश्च एकस्मिन् संयुक्तव्यूहे एकस्मिन् काले उड्डयनं कृतवन्तः।

भारतीयवायुसेनानुसारम्, एषः संयुक्तव्यूहः विभिन्नदेशानां मध्ये परस्परविश्वासस्य, यथार्थतायाः रक्षासौहार्दस्य च शक्तिशाली सन्देशं ददाति। अस्य आयोजनस्य मुख्यसन्देशः ‘सहभागितायामेव शक्तिः’ इति आसीत्। अनेन वैश्विकरक्षासहयोगः नूतनानि उच्चशिखराणि प्राप्तवान्।

जोधपुरस्य वायुसैनिककेन्द्रे २६ सेप्टे-म्बरतः १२ अक्टोबरपर्यन्तम् अयं युद्धाभ्यासः आयोज्यते। अस्मिन् अभ्यासे आयोजकदेशेन भारतसहितं अमेरिका, फ्रान्स, जर्मनी, ऑस्ट्रेलिया, संयुक्तारब-अमीरात्, श्रीलङ्का, बाङ्गलादेशः इत्यादीनां मित्रराष्ट्राणां वायुसेनाः स्वकीयैः युद्धविमानैः सैन्यकर्मिभिश्च प्रत्यक्षं भागं गृह्णन्ति। तदतिरिक्तं ३० तः अधिकाः देशाः पर्यवेक्षकत्वेन अस्मिन् युद्धाभ्यासे सम्मिलिताः सन्ति।

Hindusthan Samachar / Divya Ranjan