“मतदानं रक्षतु, देशं रक्षतु” इति महारैलौ उत्तरप्रदेशः इतिहासं रचयिष्यति : आराधना मिश्रा
लखनऊ, 30 अक्टूबरमासः (हि.स.)। लोकतन्त्रस्य, संविधानस्य मताधिकारस्य च रक्षणसङ्कल्पेन नवम्बरमासस्य ०१ दिनाङ्के देहल्याः ऐतिहासिके रामलीलामैदाने आयोज्यमानां कांग्रेसदलस्य ‘मतं रक्षत, देशं रक्षत’ इति महारैलीं सफलां कर्तुम् उत्तरप्रदेशकांग्रेससमित्या
फाइल फोटो - प्रदेश कांग्रेस अध्यक्ष आराधना मिश्रा ‘मोना’


लखनऊ, 30 अक्टूबरमासः (हि.स.)।

लोकतन्त्रस्य, संविधानस्य मताधिकारस्य च रक्षणसङ्कल्पेन नवम्बरमासस्य ०१ दिनाङ्के देहल्याः ऐतिहासिके रामलीलामैदाने आयोज्यमानां कांग्रेसदलस्य ‘मतं रक्षत, देशं रक्षत’ इति महारैलीं सफलां कर्तुम् उत्तरप्रदेशकांग्रेससमित्या स्वसम्पूर्णा सङ्गठनात्मकशक्तिः नियोजिता अस्ति।

देहल्याः नियन्त्रणकक्षात् राष्ट्रियमहासचिवः सङ्गठनप्रभारी च के.सी. वेणुगोपालः प्रत्येकस्मिन् राज्ये महायात्रायाः सज्जतायाः नेतृत्वं कुर्वन् अस्ति। देहलीस्थितनियन्त्रणकक्षात् उत्तरप्रदेशमुख्यालयस्थितस्य सम्पर्ककेन्द्रस्य (कांग्रेसनियन्त्रणकक्षस्य) माध्यमेन दलस्य सर्वेषाम् अग्रणीसङ्गठनानां, विभागानां, षण्णां क्षेत्राणां प्रदेशस्य सर्वेषां ७५ जनपदानां च सज्जतायाः निरन्तरं समीक्षा निरीक्षणं च क्रियते।

उत्तरप्रदेशकांग्रेसाध्यक्षायाः आराधनामिश्रा ‘मोना’ इत्यस्याः नेतृत्वे प्रदेशकांग्रेससमित्या महारैल्यां अधिकतमां सहभागितां सुनिश्चितकर्तुं व्यापकं रणनीतिपत्रं सज्जीकृतम् अस्ति। जनपदस्तरात् प्रदेशस्तरपर्यन्तं सङ्गठनं सक्रियं कृत्वा कार्यकर्तॄन् देहलीं प्रापयितुं समन्विताः प्रयासाः क्रियन्ते। दलस्य लक्ष्यं वर्तते यत् उत्तरप्रदेशस्य सहभागितया एषा महारैली ऐतिहासिकी भवेत् तथा लोकतन्त्ररक्षणस्य सन्देशः देशस्य प्रत्येकं कोणं प्राप्नुयात्।

सर्वाणि षट् क्षेत्राणि, ७५ जनपदाः सम्पूर्णं सङ्गठनं च सक्रियाणि

प्रदेशकांग्रेसाध्यक्षा आराधनामिश्रा ‘मोना’ अवदत् यत् महायात्रायाः सज्जतायै अन्तिमरूपं प्रदीयते। प्रदेशस्य सर्वेषु षट्सु क्षेत्रेषु पश्चिमक्षेत्रे, ब्रजक्षेत्रे, अवधक्षेत्रे, बुन्देलखण्डक्षेत्रे, प्रयागक्षेत्रे पूर्वाञ्चलक्षेत्रे च सङ्गठनात्मकानि उपवेशनानि आयोजितानि सन्ति। सर्वेषु ७५ जनपदेषु जनपदाध्यक्षैः वरिष्ठनेतृभिश्च समन्वयं संस्थाप्य देहलीं गमनार्थं विस्तृता कार्ययोजना निर्मिता अस्ति। दलस्य सर्वेभ्यः अग्रणीसङ्गठनेभ्यः, विभागेभ्यः प्रकोष्ठेभ्यश्च सक्रियदायित्वानि अपि समर्पितानि सन्ति, येन प्रत्येकस्मिन् स्तरे उत्तमः समन्वयः प्रभावपूर्णा सहभागिता च सुनिश्चिता भवेत्।

पश्चिमोत्तरप्रदेशात् अधिकाधिकान् जनान् देहलीं प्रापयितुं सज्जता

उत्तरप्रदेशकांग्रेससमितेः कार्यकारी अध्यक्षः सांसदश्च इमरानमसूदः पश्चिमोत्तरप्रदेशे देहलीमहायात्रायाः सज्जतायाः दायित्वं दृढतया निर्वहन् अस्ति। इमरानमसूदस्य अनुसारम् अद्यावधि तेन ३० अधिकानि सङ्गठनात्मकानि उपवेशनानि कृतानि सन्ति। अपरत्र पूर्वोत्तरप्रदेशात् देहलीमहारैल्यां अधिकाधिकजनानां सहभागितां सुनिश्चितकर्तुं कांग्रेसदलस्य वरिष्ठप्रदेशोपाध्यक्षौ देवेन्द्रनिषादः आलोकप्रसादश्च क्षेत्रवारं जनपदवारं च उपवेशनानि आयोज्य दायित्वं निर्वहतः।

रामलीलामैदानस्थलात् मुखरः भविष्यति लोकतन्त्रस्य स्वरः

आराधनामिश्रा ‘मोना’ विश्वासं व्यक्तवती यत् नवम्बरमासस्य प्रथमदिनाङ्के देहल्याः रामलीलामैदाने उत्तरप्रदेशात् कांग्रेसकार्यकर्तॄणां लोकतन्त्रसमर्थकनागरिकाणां च व्यापकसहभागिता भविष्यति। तस्याः कथनानुसारम् एषा महारैली मताधिकारस्य सुरक्षायै, लोकतान्त्रिकमूल्यानां सुदृढीकरणाय जनाधिकाराणां प्रति कांग्रेसदलस्य प्रतिबद्धतायै च नवीनाम् ऊर्जां प्रदास्यति।

--------------------

Hindusthan Samachar / Dheeraj Maithani