Enter your Email Address to subscribe to our newsletters

काठमांडूः, 30 अक्टूबरमासः (हि.स.)।
अस्मिन् वर्षे विवाहपञ्चम्याः पूर्वं सीतायाः जन्मभूमिं जनकपुरधामं भगवान् श्रीरामस्य नगर्या अयोध्यया च रेलमार्गेण संयोजयन्त्याः विशेषरेलसेवायाः प्रारम्भार्थं सज्जताः अन्तिमचरणं प्राप्ताः सन्ति। नेपालस्य प्रधानमन्त्रिणः बालेन्द्रशाहस्य प्रस्तावितभारतयात्रावसरे उभयोः देशयोः प्रधानमन्त्रिणौ संयुक्तरूपेण अस्याः विशेषरेलसेवायाः उद्घाटनं करिष्यतः।
नेपालरेलवे-कम्पन्याः प्रबन्धनिदेशकः परिवेशपराजुली अवदत् यत् उद्घाटनस्य तिथिः अद्यापि निर्धारिताः नास्ति, तथापि प्रधानमन्त्रिणः शाहस्य भारतयात्रायाः समये एव रेलसेवायाः प्रारम्भाय सज्जता क्रियते। प्रधानमन्त्रिणः शाहस्य भारतयात्रा नवम्बरमासस्य २३ दिनाङ्कात् प्रस्ताविता अस्ति। पराजुलिनः अनुसारं रामायणपरिपथस्य अन्तर्गतं जनकपुरधामतः अयोध्यापर्यन्तं विशेषरेलसेवायाः सञ्चालनार्थम् आवश्यकसज्जताविषये चर्चा प्रचलति। नेपालस्य सीमायां रेलयानस्य यात्रिणां च सुरक्षायाः दायित्वं नेपालीसुरक्षासंस्थासु भविष्यति तथा भारतीयक्षेत्रे भारतीयसुरक्षासंस्थासु एतद् दायित्वं भविष्यति। अस्याः व्यवस्थायाः विषये सैद्धान्तिकसहमति प्राप्ता अस्ति।
कतिपयदिनपूर्वं नेपालस्य भारतस्य च रेलविभागस्य, सुरक्षाविभागस्य, सीमाशुल्कविभागस्य तथा आप्रवासनविभागस्य अधिकारिणां संयुक्तदलेन विशेषनिरीक्षणयानेन जयनगर जनकपुरधाम कुर्था रेलमार्गस्य स्थलगतनिरीक्षणमपि कृतम् आसीत्। जनकपुरधाम अयोध्ययोः मध्ये प्रत्यक्षरेलसेवायाः प्रारम्भेण उभयोः देशयोः धार्मिकसांस्कृतिकसम्बन्धाः सुदृढाः भविष्यन्ति, धार्मिकपर्यटनस्य च प्रोत्साहनं भविष्यतीति अपेक्षा अस्ति।
जनकपुरधाम उद्योगवाणिज्यसङ्घस्य पूर्वाध्यक्षः जितेन्द्रमहासेठः अवदत् यत् सीतायाः जन्मभूमिं जनकपुरधामं भगवान् श्रीरामस्य नगर्या अयोध्यया च प्रत्यक्षरेलसेवया संयोजिते सति रामायणपरिपथस्य अन्तर्गतं तीर्थयात्रिणां धार्मिकपर्यटकानां च आवागमनं सुकरं भविष्यति। अस्याः विशेषरेलसेवायाः माध्यमेन नेपालस्य भारतस्य च प्रमुखाणां धार्मिकसांस्कृतिकस्थलानां मध्ये पर्यटनस्य प्रोत्साहनं भविष्यति, स्थानीयस्तरे आर्थिकगतिविधयश्च वर्धिष्यन्ते।
सम्प्रति भारतस्य जयनगरतः नेपालस्य जनकपुरधाममार्गेण महोत्तरीजनपदस्य बिजलपुरापर्यन्तं नियमितरेलसेवा सञ्चालिता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani