केन्द्रसर्वकारस्य उपक्रमाः स्वास्थ्यसेवानां परिदृश्याय नूतनां दिशां प्रददति : राज्यपालः
धर्मशाला, 30 अक्टूबरमासः (हि.स.)। भारतस्य स्वास्थ्यसेवाक्षेत्रे विगतेषु कतिपयेषु वर्षेषु प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे व्यापकः परिवर्तनः दृष्टिगोचरः अभवत्। केन्द्रसर्वकारेण गुणवत्तापूर्णाः स्वास्थ्यसेवाः अधिकसुलभाः, अल्पव्यययुक
कार्यक्रम के दौरान राज्यपाल और अन्य।


धर्मशाला, 30 अक्टूबरमासः (हि.स.)।

भारतस्य स्वास्थ्यसेवाक्षेत्रे विगतेषु कतिपयेषु वर्षेषु प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे व्यापकः परिवर्तनः दृष्टिगोचरः अभवत्। केन्द्रसर्वकारेण गुणवत्तापूर्णाः स्वास्थ्यसेवाः अधिकसुलभाः, अल्पव्यययुक्ताः समावेशिन्यश्च कर्तुम् उद्दिश्य अनेकाः ऐतिहासिकाः पहलाः कृताः सन्ति। स्वास्थ्याधोसंरचनायाः विस्तारः, स्वास्थ्यबीमायाः व्यापकव्याप्तिः, प्राथमिकस्वास्थ्यसेवानां सुदृढीकरणं तथा अङ्कीयप्रौद्योगिक्याः समावेशः इत्येतेषां माध्यमेन स्वास्थ्यसेवानाम् उपलब्धतायां गुणवत्तायां च उल्लेखनीयः सुधारः अभवत्। अस्य विशेषलाभः ग्रामीणेषु दूरस्थेषु च क्षेत्रेषु निवसद्भ्यः जनेभ्यः प्राप्यते।

एतद् राज्यपालः कविन्द्रगुप्तः शुक्रवासरे काङ्गडाजनपदस्य पालमपुरे उत्तरक्षेत्रीयनेत्रविज्ञानसंस्थायाः अष्टत्रिंशतितमवार्षिकसम्मेलनं हिमाचलप्रदेशनेत्रविज्ञानसंस्थायाः वार्षिकोपवेशनं च सम्बोधयन् उक्तवान्। तेन उक्तं यत् स्वास्थ्यक्षेत्रे जायमानः अयं परिवर्तनः केवलं चिकित्सासुविधानां विस्तारपर्यन्तं सीमितः नास्ति, अपितु अस्य वास्तविकम् उद्देश्यं प्रत्येकं नागरिकं प्रति गुणवत्तापूर्णस्वास्थ्यसेवानां समानप्राप्तिः सुनिश्चित्य विकासप्रक्रियायाः केन्द्रे नागरिकाणां स्वास्थ्यस्य कल्याणस्य च प्राथमिकतां प्रदातुम् अस्ति।

राज्यपालः उक्तवान् यत् आयुष्मानभारतयोजना, आयुष्मानआरोग्यमन्दिराणि, प्रधानमन्त्रीभारतीयजनौषधिपरियोजना तथा आयुष्मानभारतडिजिटलमिशन इत्यादयः योजनाः देशस्य स्वास्थ्यव्यवस्थां सुदृढां कर्तुं अन्तिमव्यक्तिपर्यन्तं च अल्पव्यययुक्तचिकित्सासुविधाः प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

तेन सप्ततिवर्षेभ्यः अधिकायुषः वरिष्ठनागरिकाणां कृते आयुष्मानभारतयोजनायाः स्वास्थ्यसंरक्षणव्याप्तेः विस्तारं महत्त्वपूर्णं पदक्षेपम् इति वर्णयता उक्तं यत् अनेन वरिष्ठनागरिकाणां स्वास्थ्यस्य, सम्मानस्य श्रेष्ठजीवनस्य च सुनिश्चितीकरणे केन्द्रसर्वकारस्य प्रतिबद्धता प्रतिबिम्बिता भवति।

प्रदेशे स्नातकोत्तरचिकित्साशिक्षायाः ३२० नवीनासनानां स्वीकृतिं तथा एतदर्थं केन्द्रसर्वकारेण ४१५ कोटिरूप्यकाणां राशेः आवण्टनं च स्वागतीकुर्वन् राज्यपालः प्रधानमन्त्रिणे कृतज्ञतां ज्ञापितवान्।

राज्यपालः उत्तरक्षेत्रीयनेत्रविज्ञानसंस्थायै, हिमाचलप्रदेशनेत्रविज्ञानसंस्थायै तथा पालमपुररोटरीनेत्रप्रतिष्ठानाय अस्य सम्मेलनस्य आयोजनार्थं शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् एतादृशाः आयोजनाः वैज्ञानिकज्ञानस्य, व्यावसायिकानुभवानां नवीनचिकित्सापद्धतीनां च आदानप्रदानाय महत्त्वपूर्णं मञ्चं प्रददति। अनेन रोगिभ्यः उत्तमचिकित्सासुविधाः उपलब्धाः कर्तुं साहाय्यं भवति।

अस्मिन्नवसरे राज्यपालः डॉ. सुधीर सल्होत्रा इत्यस्मै उत्तरक्षेत्रीयनेत्रविज्ञानसंस्थायाः अष्टत्रिंशत्तमस्य अध्यक्षस्य पदभारं ग्राहितवान्। चिकित्साक्षेत्रे उल्लेखनीययोगदानार्थं डॉ. सूरत सिंह इत्यस्मै आजीवनसाधनापुरस्कारं प्रदत्तवान्। तेन एनजेडओएस पत्रिकायाः प्रकाशनं कृतम् तथा हिमाचलप्रदेशनेत्रविज्ञानसंस्थायाः जालपुटस्य अपि शुभारम्भः कृतः।

Hindusthan Samachar / Dheeraj Maithani