Enter your Email Address to subscribe to our newsletters

मुंबई, 30 अक्टूबरमासः (हि.स.)।
कन्नडाभिनेता ऋषभशेट्टेः आगामी ऐतिहासिकचलचित्रं ‘छत्रपतिशिवाजीमहाराजः’ इत्येतदधिकृत्य महत्त्वपूर्णा सूचना समुपस्थिता अस्ति। अस्य भव्यस्य ऐतिहासिकनाट्यप्रधानचलचित्रस्य निर्माणेन सह निर्माता भूषणकुमारः सम्बद्धः अभवत्। चलचित्रस्य निर्देशनं सन्दीपसिंहः करिष्यति। छत्रपतिशिवाजीमहाराजस्य जीवनम्, स्वराज्यस्थापनायै तस्य संकल्पश्च आधारीकृत्य निर्मीयमाणं चलचित्रम् द्वयोः भागयोः विभक्तं भविष्यति। अस्य माध्यमेन महाराजस्य ऐतिहासिकयात्रा, निर्णायकाः युद्धाः, महत्यः विजयाः, बलिदानानि तथा तस्य जीवनसम्बद्धाः अल्पचर्चिताः पक्षाः च बृहत्तरे चलचित्रपटले प्रदर्शयितुं सज्जता क्रियते।
अस्य सहकारस्य घोषणावसरे भूषणकुमारेण ऋषभशेट्टेः कृते छत्रपतिशिवाजीमहाराजस्य प्रायः शतवर्षप्राचीना चित्रकृतिः उपहाररूपेण प्रदत्ता। एषः उपहारः महाराजस्य प्रति सम्मानस्य तथा तस्य जीवनं चलचित्रपटले सजीवं प्रदर्शयितुं निहितायाः उत्तरदायित्वस्य प्रतीकरूपेण मन्यते। चलचित्रस्य निर्माणं बृहता स्तरेण कर्तुं योजना अस्ति। अस्य कृते कलाकाराणां विशालः समूहः अनुभवीः तकनीकीविशेषज्ञाश्च एकत्र आनेतुं प्रयासः भविष्यति। निर्मातॄणां उद्देश्यं च अस्याः ऐतिहासिकगाथायाः भव्यं चलचित्रात्मकं स्वरूपं प्रदातुम् अस्ति।
प्राप्तवृत्तान्तानुसारं चलचित्रस्य चित्राङ्कनं २०२७ तमस्य वर्षस्य आरम्भे प्रारब्धुं शक्यते। अस्य निर्माणव्ययः ५०० कोटिरूप्यकेभ्यः अधिकः कथ्यते। ऋषभशेट्टेः सह भूमिः पेडणेकरः, विवेक ओबेरॉय तथा अर्जुन रामपालश्च महत्त्वपूर्णासु भूमिकासु दृश्येरन्। चलचित्रस्य निर्माणं टी सीरीज तथा लीजेण्ड स्टूडियो इत्यनयोः संस्थयोः बैनरतले भविष्यति। योजनानुसारम् अस्य प्रथमः भागः २०२८ तमे वर्षे द्वितीयः भागश्च २०२९ तमे वर्षे चलचित्रगृहेषु प्रदर्शयितुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani