भारतीयः क्रीडकः अभिषेकः १५० अन्ताराष्ट्रियक्रीडास्पर्धाः पूर्णवान्, हॉकी इण्डिया इत्यनया सम्मानितः।
जालंधरम्, 30 अक्टूबरमासः (हि.स.)। भारतीयपुरुषहॉकीदले अग्रपङ्क्तिक्रीडकः अभिषेकः शुक्रवासरे स्वस्य अन्ताराष्ट्रियक्रीडाजीवने महत्त्वपूर्णाम् उपलब्धिम् अर्जितवान्। सः हीरो एशियन चैंपियंस ट्रॉफी पंजाब् २०२६ प्रतियोगितायां जापानदेशस्य विरुद्धं लीगचरणस
अभिषेक को जर्सी भेंट करते हॉकी इंडिया के महासचिव भोला नाथ सिंह (फोटो-हॉकी इंडिया)


जालंधरम्, 30 अक्टूबरमासः (हि.स.)।

भारतीयपुरुषहॉकीदले अग्रपङ्क्तिक्रीडकः अभिषेकः शुक्रवासरे स्वस्य अन्ताराष्ट्रियक्रीडाजीवने महत्त्वपूर्णाम् उपलब्धिम् अर्जितवान्। सः हीरो एशियन चैंपियंस ट्रॉफी पंजाब् २०२६ प्रतियोगितायां जापानदेशस्य विरुद्धं लीगचरणस्य प्रतिस्पर्धायां भारतस्य कृते १५० वरिष्ठान्ताराष्ट्रियहॉकीस्पर्धासु भागग्रहणस्य उपलब्धिं प्राप्तवान्। अस्याः उपलब्धेः कृते हॉकी इण्डियया तस्मै शुभकामनाः प्रदत्ताः।

प्रतिस्पर्धायाः पूर्वम् एशियाई हॉकी महासङ्घस्य उपाध्यक्षः हॉकी इण्डियायाः महासचिवश्च भोला नाथ सिंहः अभिषेकाय विशेषां स्मृतिजर्सीं प्रदत्तवान्। अपरतः जालन्धरस्य पुलिसायुक्तः सतिन्दर सिंहः तस्मै विशेषां हॉकीदण्डिकां प्रदाय सम्मानितवान्।

सप्तविंशतिवर्षीयः अभिषेकः वर्षे २०२२ वरिष्ठान्ताराष्ट्रियहॉकीक्रीडायां पदार्पणम् अकरोत्। ततः परं सः स्वस्य तीव्रगतिना, उत्कृष्टसञ्चालनेन तथा गोलप्राप्तिसामर्थ्येन भारतीयदलस्य आक्रमणपङ्क्तौ महत्त्वपूर्णं स्थानं प्राप्तवान्। अल्पे एव काले सः अनेकासु प्रमुखासु अन्ताराष्ट्रियप्रतियोगितासु भारतस्य सफलतायै योगदानम् अयच्छत्।

अभिषेकस्य क्रीडाजीवनस्य प्रमुखासु उपलब्धिषु पेरिस् ओलम्पिक् २०२४ प्रतियोगितायां कांस्यपदकप्राप्तिः, हांगझोऊ २०२३ तथा आइची नागोया २०२६ एशियाईक्रीडासु सुवर्णपदकप्राप्तिश्च अन्तर्भवन्ति। सः वर्षे २०२५ राजगीरे आयोजितायाम् एशियाकप् प्रतियोगितायां तथा वर्षे २०२४ हुलुनबुइरे आयोजितायाम् एशियन चैंपियंस ट्रॉफी प्रतियोगितायां विजयं प्राप्तवतः भारतीयदलयोः सदस्यः अपि आसीत्।

एतदतिरिक्तम् अभिषेकः बर्मिंघम राष्ट्रमण्डलक्रीडासु २०२२ अपि भारतस्य प्रतिनिधित्वम् अकरोत्, यत्र भारतीयदलेन रजतपदकं प्राप्तम्। तस्य एताभिः उपलब्धिभिः भारतीयहॉकीक्षेत्रे योगदानस्य च कृते वर्षे २०२४ तस्मै प्रतिष्ठितः अर्जुनपुरस्कारः प्रदत्तः।

हॉकी इण्डियायाः अध्यक्षः डॉ. दिलीप टिर्की अभिषेकस्य १५० अन्ताराष्ट्रियस्पर्धाः पूर्णीकरणस्य उपलब्धौ शुभकामनाः प्रददन् अवदत्, “वर्षे २०२२ पदार्पणात् आरभ्य अद्यावधि अभिषेकस्य यात्रा तस्य समर्पणं, कठिनपरिश्रमं तथा दलं प्रति प्रतिबद्धतां च प्रदर्शयति। अहं तस्य उज्ज्वलभविष्याय अग्रे च निरन्तरसफलतायै शुभकामनाः ददामि।

हॉकी इण्डियायाः महासचिवः भोला नाथ सिंहः अपि अभिषेकस्य उपलब्धौ प्रसन्नतां प्रकटितवान्। सः अवदत्, “अभिषेकेन १५० अन्तरराष्ट्रीयस्पर्धानां सङ्ख्यां पूर्णीकृत्य भारतीयहॉकीक्षेत्रे गौरवस्य क्षणः निर्मितः। प्रमुखासु अन्तारराष्ट्रियप्रतियोगितासु तस्य प्रदर्शनं देशाय किमपि कर्तुं तस्य सामर्थ्यं दृढसङ्कल्पं च प्रदर्शयति। ओलम्पिकक्रीडासु एशियाईक्रीडासु च पदकप्राप्तिः महती उपलब्धिः अस्ति। अस्मिन् सोपाने प्राप्तये अहं तस्मै शुभकामनाः ददामि तथा तस्य उज्ज्वलभविष्यस्य कामनां करोमि।”

---------------

Hindusthan Samachar / Dheeraj Maithani