अडाणी स्पोर्ट्सलाइन अकादम्याः सप्त स्केटिङ्क्रीडकाः द्विसुवर्णपदकसहितं पञ्चदशपदकानि विजितवन्तः।
अडाणी स्पोर्ट्सलाइन अकादम्याः सप्तभिः स्केटिङ्क्रीडकैः द्विसुवर्णपदकसहितानि पञ्चदश पदकानि विजितानि - अकादम्याः स्केटिङ्क्रीडकैः द्वे सुवर्णपदके, दश रजतपदकानि, त्रीणि कांस्यपदकानि च प्राप्तानि। अहमदाबादम्, ३० अक्टूबरमासः (हि.स.)। अडाणी स्पोर्ट्सला
काश्वी पांचाल


अडाणी स्पोर्ट्सलाइन अकादम्याः सप्तभिः स्केटिङ्क्रीडकैः द्विसुवर्णपदकसहितानि पञ्चदश पदकानि विजितानि

- अकादम्याः स्केटिङ्क्रीडकैः द्वे सुवर्णपदके, दश रजतपदकानि, त्रीणि कांस्यपदकानि च प्राप्तानि।

अहमदाबादम्, ३० अक्टूबरमासः (हि.स.)। अडाणी स्पोर्ट्सलाइन अकादम्याः सप्तक्रीडकाः ४६ तमायां जीएसआरएसए रोलर स्केटिङ् प्रतियोगितायां २०२६ मध्ये उत्कृष्टं प्रदर्शनं कुर्वन्तः समग्रतया पञ्चदश पदकानि प्राप्तवन्तः। एतेषु द्वे सुवर्णपदके, दश रजतपदकानि, त्रीणि कांस्यपदकानि च सन्ति। अहमदाबादस्य डीपीएस विद्यालये अक्टूबरमासस्य ९ दिनाङ्कतः १५ दिनाङ्कपर्यन्तम् आयोजितायां प्रतियोगितायाम् अकादम्याः क्रीडकाः इनलाइन तथा क्वाड् वर्गयोः रिङ्क् तथा मार्गीयस्पर्धासु भागम् अगृह्णन्।

प्रतियोगितायां पार्थ शाह तथा प्रांश शाह इत्येताभ्यां सुवर्णपदके विजिते। पञ्चदशतः अष्टादशवर्षपर्यन्तम् आयुवर्गस्य क्वाड् वर्गे पार्थः रिङ्क् इत्यस्य सहस्रमिटर् स्पर्धायां सुवर्णपदकम् अलभत। एतदतिरिक्तं सः मार्गीयायाम् एकलपदचक्रस्पर्धायां तथा रिङ्क् इत्यस्य ५०० मिटर् अधिकदूरीस्पर्धायां द्वे कांस्यपदके अपि प्राप्तवान्।

षड्वर्षात् न्यूनायुवर्गस्य बालकानाम् इनलाइन वर्गे प्रांशः रिङ्क् इत्यस्य द्विचक्र अधिकदूरीस्पर्धायां सुवर्णपदकम्, एकचक्र अधिकदूरीस्पर्धायां च रजतपदकम् अलभत।

पञ्चदशतः अष्टादशवर्षपर्यन्तम् आयुवर्गस्य बालिकानां क्वाड् वर्गे काश्वी पांचालः रिङ्क् इत्यस्य ५०० मिटर् अधिकदूरीस्पर्धायां, सहस्रमिटर् स्पर्धायां तथा मार्गीयायाः त्रिसहस्रमिटर् स्पर्धायां त्रीणि रजतपदकानि प्राप्तवती। अस्यैव आयुवर्गस्य बालकानां क्वाड् वर्गे श्लोक शाहः रिङ्क् इत्यस्य सहस्रमिटर् स्पर्धायां तथा मार्गीयायाः त्रिसहस्रमिटर् स्पर्धायां द्वे रजतपदके स्वनामधेये कृतवान्।

अष्टादशवर्षाधिकायुवर्गस्य बालिकानाम् इनलाइन वर्गे भक्तिः कंधारः रिङ्क् इत्यस्य पञ्चकिलोमीटर् पॉइंट् टू पॉइंट् स्पर्धायां, मार्गीयायाः दश किलोमीटर् पॉइंट् टू पॉइंट् स्पर्धायां तथा मिश्रितरिले स्पर्धायां त्रीणि रजतपदकानि प्राप्तवती। अष्टतः दशवर्षपर्यन्तम् आयुवर्गस्य बालकानाम् इनलाइन वर्गे नक्षः प्रजापतिः रिङ्क् इत्यस्य सहस्रमिटर् स्पर्धायां रजतपदकम् अलभत। अस्यैव आयुवर्गस्य बालिकानाम् इनलाइन स्पर्धायाम् आर्या तिबरेवाला रिङ्क् इत्यस्य एकचक्र अधिकदूरीस्पर्धायां कांस्यपदकं प्राप्तवती।

अडाणी स्पोर्ट्सलाइन संस्थायाः मुख्यव्यवसायाधिकारी संजयः अडेसरा क्रीडकानां प्रदर्शनं प्रति प्रसन्नतां प्रकटयन् अवदत् यत् एतानि पदकानि युवा स्केटिङ् क्रीडकानां अनुशासनस्य निरन्तरपरिश्रमस्य च परिणामः सन्ति। षड्वर्षात् न्यूनायुवर्गस्य लघुतमक्रीडकेभ्यः आरभ्य दीर्घदूरीस्पर्धासु भागं गृह्णद्भ्यः वरिष्ठक्रीडकेभ्यः पर्यन्तं सर्वैः उत्कृष्टं प्रदर्शनं कृतम्। एतादृश्यां स्तरीयप्रतियोगितायां पदकप्राप्तये बहुमासात्मकस्य अभ्यासस्य आवश्यकता भवति। अकादमी स्वस्य सर्वेषु क्रीडकेषु गर्वम् अनुभवति। क्रीडकेभ्यः उत्तमप्रशिक्षणं प्रतियोगितासु अनुभवप्राप्तेः अवसरान् च प्रदातुं प्रयासाः निरन्तरं प्रचलिष्यन्ते इति तेन उक्तम्।

अडाणी स्पोर्ट्सलाइन स्पीड स्केटिङ् अकादमी गुजरातराज्ये युवा प्रतिभानां परिचयं कृत्वा तासां प्रतिभानां परिष्करणस्य कार्यं करोति। अकादमी क्रीडकेभ्यः सुव्यवस्थितप्रशिक्षणं, उत्तमसुविधाः तथा नियमितरूपेण प्रतियोगितासु भागग्रहणस्य अवसरान् च प्रददाति, येन आधारस्तरे क्रीडकानां विकासाय सुदृढः आधारः निर्मातुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani