त्यूणी प्लासू जलविद्युत्परियोजनायै अन्तिमवनस्वीकृतिः, निर्माणकार्यस्य मार्गः प्रशस्तः।
— ७२ मेगावाटक्षमतायुक्तायाः परियोजनायाः माध्यमेन प्रतिवर्षं २९.८५ कोटियूनिट् विद्युदुत्पादनस्य अनुमानम्। देहरादूनम्, ३० अक्टोबरमासः (हि.स.)। उत्तराखण्डे जलविद्युदुत्पादनस्य प्रोत्साहनदिशि महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। उत्तराखण्डजलविद्युत्
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


— ७२ मेगावाटक्षमतायुक्तायाः परियोजनायाः माध्यमेन प्रतिवर्षं २९.८५ कोटियूनिट् विद्युदुत्पादनस्य अनुमानम्।

देहरादूनम्, ३० अक्टोबरमासः (हि.स.)। उत्तराखण्डे जलविद्युदुत्पादनस्य प्रोत्साहनदिशि महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। उत्तराखण्डजलविद्युत्निगमलिमिटेड् (यूजेवीएनएल) इत्यस्य ७२ मेगावाटक्षमतायुक्तायै त्यूणी प्लासू जलविद्युत्परियोजनायै केन्द्रसर्वकारस्य पर्यावरणवनजलवायुपरिवर्तनमन्त्रालयात् अन्तिमवनस्वीकृतिः प्राप्ता अस्ति। अनेन देहरादूनजनपदस्य त्यूणीतहसीलक्षेत्रे टौंसनद्यां प्रस्तावितायाः परियोजनायाः निर्माणमार्गः प्रशस्तः अभवत्।

परियोजनायाः पूर्णतायाम् प्रतिवर्षं प्रायः २९८.५१ मिलियन यूनिट् अर्थात् २९.८५ कोटियूनिट् विद्युदुत्पादनस्य अनुमानम् अस्ति। मुख्यमन्त्री पुष्करसिंहधामी परियोजनायै अन्तिमवनस्वीकृतिप्राप्तौ प्रसन्नतां व्यक्तं कुर्वन् एतां राज्यस्य ऊर्जाक्षेत्रे आत्मनिर्भरत्वस्य दिशि महत्त्वपूर्णाम् उपलब्धिम् अवदत्। तेन उक्तं यत् उत्तराखण्डे जलविद्युदुत्पादनस्य विपुलाः सम्भावनाः सन्ति तथा राज्यसर्वकारः पर्यावरणसन्तुलनं संरक्ष्य तासाम् उपयोगाय प्रतिबद्धः अस्ति।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने राज्यसर्वकारः स्वच्छायाः नवीकरणीयायाश्च ऊर्जायाः प्रोत्साहनं कुर्वन् अस्ति। परियोजनायाः निर्माणेन प्रदेशस्य विद्युदुत्पादनक्षमता वर्धिष्यते तथा ऊर्जासुरक्षा सुदृढा भविष्यति। यूजेवीएनएल इत्यस्य प्रबन्धनिदेशकः अजयकुमारसिंहः उक्तवान् यत् अन्तिमवनस्वीकृतिप्राप्तिः परियोजनायै दीर्घकालात् क्रियमाणानां प्रयासानां महत्त्वपूर्णं साफल्यम् अस्ति। अनेन निर्माणसम्बद्धानि कार्याणि अग्रे नेतुं साहाय्यं भविष्यति। निगमः सर्वाणां वैधानिकानां तकनीकीप्रक्रियाणां च अनुपालनं कुर्वन् परियोजनां प्राथमिकताधारेण अग्रे नेष्यति।

अस्याः उपलब्धेः कृते तेन मुख्यमन्त्रिणः मार्गदर्शनाय निर्देशेभ्यश्च कृतज्ञता व्यक्ता। तथैव मुख्यसचिवस्य आनन्दबर्द्धनस्य, ऊर्जाविभागस्य प्रमुखसचिवस्य डॉ. आर. मीनाक्षीसुन्दरमस्य तथा वनपर्यावरणविभागस्य प्रमुखसचिवस्य आर.के. सुधांशोः अपि शासनस्तरे समन्वयाय सहकारितायै च आभारः प्रकटितः।

Hindusthan Samachar / Dheeraj Maithani