राष्ट्रियविज्ञानसङ्गोष्ठ्यां-२०२६ ओडिशाराज्यस्य सौम्यश्री थानापतिः विजेतृपदं प्राप्तवती
नवदिल्ली, ३१ अक्टोबरमासः (हि.स.)। ओडिशाराज्यस्य झारमुण्डा-स्थिता ओडिशा आदर्श विद्यालयस्य छात्रा सौम्यश्री थानापतिः नवदिल्ल्यां आयोजितायां द्विदिवसीयायां राष्ट्रियविज्ञानसङ्गोष्ठ्यां २०२६ इत्यस्यां विजेतृपदं प्राप्तवती। दिल्लीस्थे राष्ट्रियविज्ञानके
ओडिशा की सौम्यश्री थानापति


दिल्ली स्थित राष्ट्रीय विज्ञान केंद्र में आयोजित नेशनल साइंस सेमिनार 2026 में अतिथि और छात्रा सौम्यश्री थानापति


नवदिल्ली, ३१ अक्टोबरमासः (हि.स.)। ओडिशाराज्यस्य झारमुण्डा-स्थिता ओडिशा आदर्श विद्यालयस्य छात्रा सौम्यश्री थानापतिः नवदिल्ल्यां आयोजितायां द्विदिवसीयायां राष्ट्रियविज्ञानसङ्गोष्ठ्यां २०२६ इत्यस्यां विजेतृपदं प्राप्तवती। दिल्लीस्थे राष्ट्रियविज्ञानकेन्द्रे आयोजितायां राष्ट्रियस्तरीयायां प्रतियोगितायां देशस्य ३४ राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च विद्यार्थिनः सहभागिताम् अकुर्वन्। विजेत्र्यै सौम्यश्रियै चषकः, प्रमाणपत्रं ४८,००० रूप्यकाणां छात्रवृत्तिश्च प्रदत्ता।

आयोजनस्य प्रथमदिने शुक्रवासरे अस्याः वर्षस्य सङ्गोष्ठ्याः विषयः ‘भारतीय ऊर्जाभण्डारः २०४७ : सम्भावनाः आह्वाहनानि च’ इत्येतत् आसीत्। अस्मिन् विद्यार्थिभिः भारतस्य भविष्यत्कालीनानाम् ऊर्जावश्यकतानाम्, ऊर्जायाः वैकल्पिकस्रोतसाम्, प्रौद्योगिकीनवाचाराणां, स्थायि-ऊर्जासुरक्षायाश्च महत्त्वपूर्णेषु विषयेषु स्वविचाराः प्रस्तुताः। राष्ट्रियविज्ञानसङ्गोष्ठ्याः आयोजनं १९८२ तमवर्षात् प्रतिवर्षं भारतसर्वकारस्य संस्कृतिमन्त्रालयस्य अधीनस्थेन राष्ट्रियविज्ञानसङ्ग्रहालयपरिषदा (एनसीएसएम) क्रियते। अस्याः सङ्गोष्ठ्याः उद्देश्यं विद्यालयीयविद्यार्थिषु वैज्ञानिकदृष्टिकोणस्य, समालोचनात्मकचिन्तनस्य प्रभावीसम्प्रेषणकौशलस्य च विकासः अस्ति।

प्रतियोगितायां सौम्यश्री थानापतिः प्रथमस्थानं प्राप्तवती, अन्ये नव विद्यार्थिनः उपविजेतारः घोषिताः। सर्वेभ्यः उपविजेतृभ्यः चषकः, प्रमाणपत्रं २४,००० रूप्यकाणां छात्रवृत्तिश्च प्रदत्ता। एवं प्रतियोगितायां समग्रतया २.६४ लक्षरूप्यकाणां छात्रवृत्तिः वितरिता।

अपि च दादरा-नगरहवेली-दमन-दीवप्रदेशात् दिव्यांशी परिडा, महाराष्ट्रात् शरवरी श्रीधर बैत, बिहारात् समीरकुमारः, पश्चिमबङ्गात् ऋषन गुप्ता, त्रिपुरात् श्राबस्ती भट्टाचार्यः, चण्डीगढात् नवसीरत कौर, गुजरातात् स्वरा परेश पटेल, अरुणाचलप्रदेशात् रुबू डैनियल तथा हरियाणात् अक्षत कुमार मिश्रा च उपविजेतारः अभवन्।

विजेतॄणाम् उपविजेतॄणां च चयनं विविधैः शैक्षणिकवैज्ञानिकसंस्थाभिः सम्बद्धानां विशेषज्ञाणां समित्या कृतम्। अस्यां समितौ डॉ. सुमन्त बोरठाकुरः, डॉ. सुषमा एम. गिरीपुञ्जे, डॉ. मानस प्रतिम दासः, प्रो. प्रमोदकुमारः तथा प्रो. अनिलकुमारः च समाविष्टाः आसन्। समितिसदस्यैः विद्यार्थिनां विषयज्ञानस्य, प्रस्तुतिकरणस्य, वैज्ञानिकबोधस्य विचाराणां च आधारेण मूल्याङ्कनं कृतम्।

सङ्गोष्ठ्याः उद्घाटनं दीपप्रज्वलनेन अभवत्। पेट्रोलियम् तथा प्राकृतिकगैसनियामकपरिषदः (पीएनजीआरबी) अध्यक्षः डॉ. अनिलकुमार जैनः मुख्यातिथिरूपेण उपस्थितः आसीत्। नीतिआयोगस्य ऊर्जाविषयकः परामर्शदाता राजनाथरामः विशिष्टातिथिरूपेण उपस्थितः आसीत्।

एनसीएसएम-संस्थायाः महानिदेशकः के.एस. मुरली अवदत् यत् राष्ट्रियविज्ञानसङ्गोष्ठी विगतचत्वारिंशदधिकवर्षेभ्यः विद्यार्थिषु वैज्ञानिकजिज्ञासायाः, समालोचनात्मकचिन्तनस्य, संवादकौशलस्य च संवर्धनं कुर्वती अस्ति। अस्य वर्षस्य विषयः युवभ्यः ऊर्जासुरक्षायाः, प्रौद्योगिकीनवाचारस्य, सततविकासस्य च महत्त्वम् अवगन्तुं अवसरं प्रददाति।

दिल्लीस्थस्य राष्ट्रियविज्ञानकेन्द्रस्य निदेशकः विजयशङ्करशर्मा अवदत् यत् एतदायोजनं देशस्य विभिन्नभागेभ्यः प्रतिभाशालिनां विद्यार्थिनां कृते राष्ट्रियमहत्त्वपूर्णेषु विषयेषु स्वविचारान् प्रस्तुतुं मञ्चं प्रददाति। अनेन विद्यार्थिनां नवीकरणीयऊर्जायाः, उदयमानप्रौद्योगिकीनां, उत्तरदायिनः ऊर्जोपभोगस्य च विषये अवबोधस्य विकासे सहायता भवति।

कार्यक्रमस्य समापनसमारोहः अपि अक्टोबरमासस्य ३० दिनाङ्के आयोजितः। तस्मिन् नवदिल्लीस्थस्य अन्तरविश्वविद्यालयीयत्वरककेन्द्रस्य निदेशकः प्रो. अविनाशचन्द्रपाण्डेयः मुख्यातिथिरूपेण तथा टेरी-संस्थायाः विद्युत्-नवीकरणीयऊर्जाविभागस्य वरिष्ठनिदेशकः अजयकुमारसक्सेना विशिष्टातिथिरूपेण सहभागिताम् अकुर्वन्।

कार्यक्रमस्य समापनमकरोत् दिल्लीस्थस्य राष्ट्रियविज्ञानकेन्द्रस्य प्रधानक्यूरेटरः मोइनुद्दीन अन्सारिणा ज्ञापितं धन्यवादज्ञापनम्

-----------------

Hindusthan Samachar / Dheeraj Maithani