Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।
लोकसभाध्यक्षः ओम बिरला शनिवासरे शताब्दीसमारोहः २०२६ इत्यस्य अवसरे आध्यात्मिकविभूतिभ्यां आचार्यश्रीरामशर्मणे मातृभगवतीदेव्यै च भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। सः उक्तवान् यत् गायत्रीपरिवारस्य अयं शताब्दीसमारोहः केवलम् अतीतस्य स्मरणस्य अवसरः नास्ति, अपितु एषा तादृश्याः सृजनात्मकक्रान्तेः उत्सवः अस्ति, यया देशस्य सर्वेषु भागेषु असङ्ख्यजनानां जीवनेषु सकारात्मकः परिवर्तनः समागतः।
ओम बिरला अद्य देहल्यां गायत्रीपरिवारेण आयोजिते शताब्दीसमारोहे एतद् उक्तवान्। अस्मिन् अवसरे तेन राष्ट्रस्य आध्यात्मिकचेतनायाः जागरणे, सामाजिकपरिवर्तने राष्ट्रनिर्माणे च आचार्यश्रीरामशर्मणः मातृभगवतीदेव्याश्च अमूल्ययोगदानं स्मृतम्।
बिरला उक्तवान्, “आचार्यः अखण्डज्योतेः माध्यमेन देशस्य सर्वत्र आध्यात्मिकचेतनायाः प्रकाशं प्रसारितवान् तथा च व्यक्तिनिर्माणस्य, परिवारनिर्माणस्य, समाजनिर्माणस्य राष्ट्रनिर्माणस्य च आदर्शैः जनान् प्रेरितवान्। तस्य प्रेरणादायकः सङ्कल्पः ‘वयं परिवर्तयिष्यामः, युगं परिवर्तिष्यते’ देशस्य विश्वस्य च जनानां कृते मूलमन्त्रः अभवत्। गायत्रीमन्त्रस्य यज्ञस्य च माध्यमेन आचार्यः जनान् आध्यात्मिकचेतनया सह सम्बद्धवान् तथा च अन्तर्मनसः शुद्धतायाः आत्मिकजागरणस्य च मार्गं प्रशस्तवान्।”
गायत्रीपरिवारेण सह स्वकीयस्य व्यक्तिगतसम्बन्धस्य उल्लेखं कुर्वन् लोकसभाध्यक्षः उक्तवान् यत् तेन दूरस्थेषु ग्रामेषु लघुग्रामेषु च आचार्यस्य आध्यात्मिकदर्शनस्य परिवर्तनकारी प्रभावः दृष्टः। अस्मिन् दर्शनेन जनानां कठिनपरिस्थितिभ्यः, अन्धविश्वासेभ्यः हानिकराभ्यः सामाजिककुरीतिभ्यश्च बहिर्निर्गन्तुं मार्गदर्शनं कृतम्। अनेन आन्दोलननेन न केवलं जनानां सामाजिकजीवने परिवर्तनम् आगतम्, अपितु तेषां व्यक्तित्वविकासः, चरित्रनिर्माणं समाजं राष्ट्रं च प्रति उत्तरदायित्वभावना अपि सुदृढा अभवत्।
तेन उक्तं यत् मातुः योगदानं केवलम् आध्यात्मिकजागरणपर्यन्तं सीमितं नासीत्, अपितु तया सामाजिकपरिवर्तनस्य महिलासशक्तीकरणस्य च महत्त्वपूर्णस्य आन्दोलनस्य नेतृत्वं कृतम्। एषः सः कालः आसीत्, यदा देशस्य सर्वत्र महिलाः अनेकानां सामाजिकचुनौतीनां कुरीतीनां च सामना कुर्वन्ति स्म। माता महिलाः शिक्षां प्राप्तुं, आत्मविश्वासं विकसितुं आत्मनिर्भराश्च भवितुं प्रेरितवती। तस्याः जीवनं शिक्षाश्च एतस्य प्रमाणम् अस्ति यत् परिवारे महिलायाः व्यक्तित्वस्य विकासः सम्पूर्णस्य परिवारस्य समाजस्य च प्रगतेः आधारः भवति। तस्याः मातृत्वपूर्णेन स्नेहपूर्णेन च मार्गदर्शनेन असङ्ख्यानां महिलानां जीवनं परिवर्तितम् तथा च तासां सामाजिकस्य आध्यात्मिकस्य च सशक्तीकरणाय नूतना गतिः प्रदत्ता। महिलासशक्तीकरणस्य एषा दृष्टिः अद्य देशे सञ्चालितासु विविधासु योजनासु अपि प्रतिबिम्बिता भवति। आध्यात्मिकचेतनायाः भारतीयसंस्काराणां च आधारेण निर्मितं वातावरणं सकारात्मकदृष्टिकोणस्य विकासे, परिवाराणां सुदृढीकरणे प्रगतिशीलसमाजस्य निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति।
लोकसभाध्यक्षः उक्तवान् यत् शिक्षायाः प्रारम्भिकस्तरादेव तत्र आध्यात्मिकतायाः, सांस्कृतिकमूल्यानां चरित्रनिर्माणस्य च विषये दीयमानं महत्त्वं प्रशंसनीयम् अस्ति। तेन उक्तं यत् अद्य यदा अनेकेषु देशेषु जनाः तनावस्य अवसादस्य च सामना कुर्वन्ति, तदा आन्तरिकशान्तेः, आध्यात्मिकशक्तेः उद्देश्यपूर्णजीवनस्य च सन्देशः अधिकमहत्त्वपूर्णः अभवत्। यावत् समाजस्य अन्तिमव्यक्तेः जीवने सकारात्मकं परिवर्तनं न भवति, तावत् एतदभियानं निरन्तरं प्रचलितव्यम्। तेन उक्तं यत् आध्यात्मिकता, धर्मः, संस्कृतिः, चरित्रनिर्माणं राष्ट्रनिर्माणस्य आदर्शाश्च अस्य प्रयासस्य केन्द्रे स्थातव्याः।
बिरला उक्तवान् यत् आचार्यश्रीरामशर्मणा मातृभगवतीदेव्या च प्रज्वलिता आध्यात्मिकऊर्जा चेतना च इत्थमेव जनजीवनम् आलोकयन्ती भविष्यति तथा च समरसस्य, जागरूकस्य विकसितसमाजस्य च आधारं सुदृढं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani