उपराष्ट्रपतिः प्रधानमन्त्री च जीएसएलवी-एफ१८ अभियानस्य सफलप्रक्षेपणाय इसरो-संस्थायाः सम्पूर्णं टोलीदलं वर्धापितवन्तौ।
नवदिल्ली, 31 अक्टूबरमासः (हि.स.)। उपराष्ट्रपतिः, प्रधानमन्त्री च जीएसएलवी-एफ१८ अभियानस्य सफलप्रक्षेपणाय इसरोदलस्य सदस्येभ्यः हार्दिकं वर्धापनं कृतवन्तौ। उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी तथा रक्षामन्त्री राजनाथसिंहः श
इसरो से तस्वीरें


नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।

उपराष्ट्रपतिः, प्रधानमन्त्री च जीएसएलवी-एफ१८ अभियानस्य सफलप्रक्षेपणाय इसरोदलस्य सदस्येभ्यः हार्दिकं वर्धापनं कृतवन्तौ।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी तथा रक्षामन्त्री राजनाथसिंहः शनिवासरे जीएसएलवी-एफ१८ अभियानस्य सफलप्रक्षेपणाय इसरो-संस्थायाः दलं हार्दिकतया वर्धापितवन्तः।

उपराष्ट्रपतिः एक्स इति सामाजिकमाध्यममञ्चे लिखितवान्, जीएसएलवी-एफ१८ अभियानस्य माध्यमेन एनवीएस-०३ नौसञ्चालन-उपग्रहः तस्य निर्धारितकक्षायां स्थापितः अस्ति। एषा उपलब्धिः भारतस्य स्वदेशीयं ‘नाविक’ नौसञ्चालनतन्त्रं सुदृढं करोति। अस्माकं उपग्रहाधारितानां नौसञ्चालनक्षमतानां वर्धनं करोति तथा अन्तरिक्षप्रौद्योगिकिक्षेत्रे आत्मनिर्भरतायां च देशस्य वर्धमानसामर्थ्यं प्रदर्शयति। भारतस्य अन्तरिक्षयात्रायाम् इतोऽपि बह्वीनाम् उपलब्धीनां प्राप्त्यर्थम् इसरोदलस्य सदस्येभ्यः हार्दिक्यः शुभकामनाः।

प्रधानमन्त्री मोदी अवदत् यत् एतदभियानं स्वदेशीयस्य उपग्रहाधारितस्य ‘नाविक’ नौसञ्चालनतन्त्रस्य सुदृढीकरणदिशि महत्त्वपूर्णं सोपानम् अस्ति। उन्नतक्षमतायुक्तः एनवीएस-०३ महत्त्वपूर्णप्रौद्योगिकिषु आत्मनिर्भरत्वस्य अस्माकं प्रयासान् अग्रे नेष्यति तथा तादृशीः नौसञ्चालनसेवाः प्रदातुं साहाय्यं करिष्यति, याभिः देशस्य जनाः लाभान्विताः भविष्यन्ति। भारतस्य अन्तरिक्षवैज्ञानिकानां समर्पणं तेषां प्रज्ञा च निरन्तरं देशं गौरवान्वितं कुर्वतः।

राजनाथसिंहः अवदत् यत् एषा उपलब्धिः सामरिकेषु महत्त्वपूर्णप्रौद्योगिकिक्षेत्रेषु च देशस्य क्षमतां वर्धयति। एषा नवाचारप्रौद्योगिक्यात्मनिर्भरताभ्यां प्रेरितस्य ‘आत्मनिर्भरभारतस्य’ दृष्टिकोणं प्रदर्शयति। अस्य अभियानस्य सफलता भारतस्य वैज्ञानिकानाम् अभियन्तॄणां च समर्पणस्य, प्रज्ञायाः प्रतिबद्धतायाश्च अन्यत् प्रमाणम् अस्ति।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी अवदत् यत् एषा उपलब्धिः भारतस्य स्वदेशीयस्य ‘नाविक’ नौसञ्चालनतन्त्रस्य सुदृढीकरणे, प्रौद्योगिक्यात्मनिर्भरतायाः संवर्धने तथा नौसञ्चालनक्षमतानां विकासे च अन्यत् महत्त्वपूर्णं सोपानम् अस्ति। अन्तरिक्षक्षेत्रे कार्यरतानां जनानाम् असाधारणं समर्पणं, नवाचारः वैज्ञानिकोत्कृष्टता च निरन्तरं भारतस्य वैश्विकप्रतिष्ठां वर्धयन्ति तथा आगामिसन्ततीः प्रेरयन्ति।

अपरत्र शुक्रवासरे केन्द्रीयप्रौद्योगिकीमन्त्री डॉ. जितेन्द्रसिंहः अवदत् यत् एषा उल्लेखनीया उपलब्धिः अन्तरिक्षप्रौद्योगिकिक्षेत्रे भारतस्य वर्धमानसामर्थ्यं स्वदेशीयानां नौसञ्चालनक्षमतानां सुदृढीकरणाय सर्वेषां दृढसङ्कल्पं च प्रदर्शयति। विगतेषु वर्षेषु प्रधानमन्त्री मोदीना अन्तरिक्षक्षेत्रे कृतानां क्रान्तिकारिणां सुधाराणां परिणामस्वरूपम् अन्तरिक्षक्षेत्रे भारतस्य सफलतागाथाः देशस्य संस्थापकयोः विक्रमसाराभाई-सतीशधवनयोः स्वप्नानि साकारं कुर्वन्ति। अद्य भारताय पुनः गौरवस्य अन्यस्य क्षणस्य उत्सवाचरणस्य दिवसः अस्ति।

उल्लेखनीयं यत् ह्यः शुक्रवासरे भारतीयान्तरिक्षानुसन्धानसङ्घटनेन (इसरो) श्रीहरिकोटास्थितात् सतीशधवन-अन्तरिक्षकेन्द्रात् तृतीयपीढ्याः नौसञ्चालन-उपग्रहस्य एनवीएस-०३ इत्यस्य सफलं प्रक्षेपणं कृतम्। अयं उपग्रहः जीएसएलवी-एफ१८ प्रक्षेपणयानेन रात्रौ ११ वादने ५१ निमेषे प्रक्षेपितः। प्रक्षेपणस्य किञ्चित्कालानन्तरमेव जीएसएलवी-एफ१८ प्रक्षेपणयानेन स्वकीयम् अभियानं सफलतया सम्पन्नम्। प्रक्षेपणयानेन एनवीएस-०३ उपग्रहः निर्धारिते भूस्थिरान्तरणकक्षायाम् (जीटीओ) स्थापितः। अस्मिन् नूतने उपग्रहे सटीककालगणनायै विदेशात् आयातिता परमाणुघटी स्थापिता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani