Enter your Email Address to subscribe to our newsletters

अहमदाबादः, ३१ अक्टोबरमासः (हि.स.)। भारतीयमहिलाकबड्डीदलेन उत्कृष्टं प्रदर्शनं कुर्वता प्रथमायाः राष्ट्रमण्डल-कबड्डीप्रतियोगितायाः विजेतृपदं प्राप्तम्। निधिशर्मणः नेतृत्वे भारतं शनिवासरे क्रीडिते अन्तिमस्पर्धायां युगाण्डादलं ३५-१५ इति अङ्कैः पराजित्य स्वर्णपदकं विजितवत्। भारतीयदलं सम्पूर्णायां प्रतियोगितायाम् अपराजितं तिष्ठत् तथा षट्सु स्पर्धासु षट् विजयाः प्राप्तवत्।
अन्तिमस्पर्धायां भारतस्य पक्षतः साक्षी सर्वाधिकान् नव आक्रमणाङ्कान् प्राप्तवती। सा स्वस्य दशसु आक्रमण-प्रयासेषु नव अङ्कान् अर्जितवती, येषु द्वौ अतिरिक्ताङ्कौ अपि अन्तर्भूतौ आस्ताम्। अनु षड् अङ्कान् तथा दलनायिका निधिशर्मा पञ्च आक्रमणाङ्कान् योजितवत्यौ। रितुः सुमनः च रक्षणपङ्क्तौ उत्कृष्टं प्रदर्शनं कृत्वा चतुश्चतुरः अवरोधाङ्कान् प्राप्तवत्यौ।
भारतं स्पर्धायां विंशतिः आक्रमणाङ्कान् दश च अवरोधाङ्कान् प्राप्तवत् तथा द्विवारं युगाण्डादलं सर्वक्रीडकान् बहिः कर्तुं बाधितवत्। युगाण्डायाः पक्षतः नाकायोंगो शिराट् एकादश अङ्कान् प्राप्तवती, किन्तु तस्याः अन्यक्रीडकेभ्यः अपेक्षितं सहयोगं न प्राप्तम्।
प्रथमस्य अर्धभागस्य समाप्तौ भारतं २२-७ इति अङ्कैः प्रबलां अग्रतां प्राप्तवत्। प्रारम्भे उभयोः दलयोः मध्ये स्पर्धा समतुल्या आसीत्, किन्तु भारतीयक्रीडकाः शीघ्रमेव प्रभुत्वं स्थापितवन्तः। प्रथमस्य अर्धभागे भारतं एकमपि आक्रमणं विफलं विना षट् सफलान् अवरोधान् अकरोत्, यदा तु युगाण्डादलं स्वस्य सर्वेषु नवसु अवरोधप्रयासेषु विफलम् अभवत्।
द्वितीयार्धे युगाण्डादलं पुनरागमनस्य प्रयासम् अकरोत् तथा आक्रमणाङ्कानां विषये भारतात् एकम् अधिकम् अङ्कं प्राप्तवत्। तथापि भारतीयदलेन पुनः एकवारं युगाण्डादलं सर्वक्रीडकान् बहिः कर्तुं बाधित्वा विजयः सुनिश्चितः कृतः। भारतं युगाण्डायाः आक्रमणकर्तॄन् दशवारं सफलतया अवरुद्धवान्।
अन्तिमस्पर्धायाः श्रेष्ठा भारतीयक्रीडिका साक्षी षट्सु स्पर्धासु समग्रतया ५२ अङ्कान् प्राप्तवती। सा अवदत् यत् नव आक्रमणाङ्कान् प्राप्य दलस्य विजये योगदानं दातुं शक्नोति इति तस्यै आनन्दस्य विषयः अस्ति। तस्याः मते, एतादृशाभिः अन्ताराष्ट्रियप्रतियोगिताभिः कबड्डीक्रीडायाः प्रोत्साहनं भविष्यति तथा च युवा-क्रीडकेभ्यः अनुभवप्राप्तेः अवसरः मिलिष्यति।
भारतं प्रतियोगितायां मलेशियादलं ७३-१३, सिङ्गापुरदलं ३२-१६, युगाण्डादलं ४१-१८ तथा नाइजीरियादलं ३८-१० इति अङ्कैः पराजित्य समूह-अ मध्ये प्रथमस्थानं प्राप्तवान् आसीत्। ततः श्रीलङ्कादलं ३९-१४ इति अङ्कैः पराजित्य उपान्त्य-स्पर्धायां विजयम् अवाप्य अन्तिमस्पर्धायां स्थानं प्राप्तम्। अन्ते च विजेतृपदस्य स्पर्धायां युगाण्डादलं पराजित्य भारतं इतिहासं रचितवत्।
Hindusthan Samachar / Divya Ranjan