Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३१ अक्टोबरमासः (हि.स.)। जतिनकुमारनायकः भारतीयनवी-करणीय-ऊर्जाविकासाभिकरणस्य अध्यक्षस्य प्रबन्धनिदेशकस्य च पदभारं स्वीकृतवान्।
संस्थया शनिवासरे निर्गते एकस्मिन् वक्तव्ये सूचितं यत् जतिनकुमारनायकः अक्टोबरमासस्य ३१ दिनाङ्के भारतीय-नवीकरणीय-ऊर्जाविकासाभिकरणस्य नूतनस्य अध्यक्षस्य प्रबन्ध-निदेशकस्य च पदभारं स्वीकृतवान्।
जतिनकुमारनायकः अस्मात् पूर्वं सार्वजनिकक्षेत्रस्य निर्माण्याः आरईसी लिमिटेड् इत्यस्याः कार्यकारीनिदेशकस्य पदे कार्यरतः आसीत्। नायकस्य त्रिंशद्वर्षाधिकस्य व्यापकः विविधश्च अनुभवः अस्ति। सः आरईसी-संस्थायाः अनुषङ्गिनिर्माण्याः आरईसी ट्रान्समिशन प्रोजेक्ट्स कम्पनी लिमिटेड् इत्यस्याः मुख्यवित्ताधिकारिरूपेण अपि कार्यं कृतवान्।
नायकः स्वस्य वृत्तिजीवनस्य प्रारम्भिके काले एनएचपीसी, हिन्दुस्तान कॉपर, नेशनल एल्युमिनियम कम्पनी लिमिटेड् तथा नीलाचल इस्पात निगम लिमिटेड् इत्येतासु संस्थासु अपि कार्यं कृतवान्। तस्य अनुभवः विद्युत्क्षेत्रे एव न, अपितु खननं धातुउद्योगश्च इत्येतेषु संसाधना-धारितेषु उद्योगेषु अपि अस्ति।
उल्लेखनीयम् अस्ति यत् नायकः ओडिशाराज्यस्य भुवनेश्वरनगरे स्थितात् उत्कलविश्वविद्यालयात् वाणिज्यविषये स्नातकोत्तरपदवीं प्राप्तवान्।
Hindusthan Samachar / Divya Ranjan