Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, ३१ अक्टोबरमासः (हि.स.)। महाराणा प्रतापशिक्षापरिषदि संस्थापक-सप्ताहसमारोहस्य सज्जताः प्रारब्धाः सन्ति। अस्मिन् वर्षे अपि संस्थापकानां स्मृतौ ४ दिसम्बरतः १० डिसेम्बरपर्यन्तं सप्त-दिवसीयः संस्थापक-सप्ताहसमारोहः आयोजयिष्यते। समा-रोहस्य शुभारम्भः ४ डिसेम्बर दिनाङ्के भविष्यति, १० डिसेम्बर दिनाङ्के च मुख्यसमारोहः पुरस्कारवितरणसमारोहश्च आयोजयिष्यते। समारोहस्य अन्तर्गतं विद्यार्थिनां प्रतिभायाः, सृजनात्मकतायाः, शैक्षणिकश्रेष्ठतायाः, क्रीडाकौशलस्य च प्रदर्शनाय विविधाः शैक्षणिकाः, सांस्कृतिकाः, क्रीडासम्बद्धाः च प्रतियोगिताः आयोजयिष्यन्ते। उद्घाटन-समारोहस्य मुख्यातिथीनां मुख्य-समारोहस्य च मुख्यातिथीनां नामानि निर्धारयितुं विचारविमर्शः प्रचलति। तेषां नामानि शीघ्रमेव घोषितानि भविष्यन्ति।
संस्थापकसप्ताहसमारोहस्य सज्जतासम्बद्धे शनिवासरे दिग्विजयनाथ-स्नातकोत्तरमहाविद्यालयस्य संवादकक्षे महाराणा प्रतापशिक्षापरिषदि संस्थानानां संस्थाध्यक्षाणां, संयोजक-मण्डलस्य सदस्याणां तथा समारोहसञ्चालनसमित्याः सदस्याणां सभा अभवत्। सभायाम् आयोजनस्य रूपरेखायाः, प्रतियोगितानां सञ्चालनस्य, प्रतिभागिनां सहभागितायाः व्यवस्थायाश्च विषये विस्तरेण चर्चा कृता।
सभायां महाराणा प्रतापशिक्षापरिषदि वरिष्ठसदस्यः डॉ. शैलेन्द्रप्रतापसिंहः अवदत् यत् संस्थापकसप्ताहसमारोहस्य मुख्यो-द्देश्यं विद्यार्थिनां सर्वतोमुखविकासेन सह तेषु शिक्षणेतरगतिविधिषु रुचिं प्रतिभां च प्रोत्साहयितुम् अस्ति। सः सर्वान् संस्थाध्यक्षान् स्वस्वसंस्थानानां विद्यार्थिनां शतप्रतिशतसहभागितां सुनिश्चितं कर्तुम् आहूतवान्। तथैव शिक्षापरिषदः बहिः स्थितानाम् अधिकाधिकानां शैक्षणिक-संस्थानानाम् अपि प्रतियोगितासु भागं ग्रहीतुं प्रेरयितुम् अनुरोधं कृतवान्, येन विद्यार्थिभ्यः स्वप्रतिभाप्रदर्शनस्य व्यापकः अवसरः प्राप्नुयात्।
सभायाः अध्यक्षतां कुर्वन् परिषदः वरिष्ठसदस्यः प्रमथनाथमिश्रः अवदत् यत् प्रबन्धसमित्या सञ्चालनसमित्या च आयोजनस्य प्रारम्भिकाः सज्जताः पूर्णाः कृताः सन्ति। ४ डिसेम्बर दिनाङ्के उद्घाटनसमारोहस्य तथा १० डिसेम्बर दिनाङ्के आयोज्यमानस्य मुख्यस-मारोहस्य मुख्यातिथीनां चयनविषये विचारविमर्शः प्रचलति। शीघ्रमेव मुख्यातिथीनां नामानि निर्धारितानि भविष्यन्ति।
सञ्चालनसमितेः सदस्यः डॉ. नीतीशशुक्लः अवदत् यत् मुख्यसमारोहात् पूर्वमेव प्रतियोगितानां क्रमः प्रारभ्यते। २२ नवम्बर दिनाङ्के पी.टी. तथा सर्वश्रेष्ठ एनसीसी-कैडेट्-चयनप्रतियोगिता आयोजयिष्यते। एतदर्थं निर्धारितप्रारूपेण आवेदनस्य अन्तिमतिथिः २० नवम्बर अस्ति। विद्यार्थिनां सर्वतोमुखविकासस्य उद्देश्येन ५ डिसम्बरतः १० डिसेम्बरपर्यन्तं विविधाः शैक्षणिकाः, साहित्यिकाः, सांस्कृतिकाः, क्रीडासम्बद्धाः च प्रतियोगिताः आयोजयिष्यन्ते।
सः अवदत् यत् अस्मिन् आयोजने महाराणा प्रतापशिक्षापरिषदि ५० अधिकसंस्थानानां तथा गोरखपुरमण्डलस्य १२५ अधिकशैक्षणिकसंस्थानानां विद्यार्थिनां सहभागिता प्रस्ताविता अस्ति। सर्वेभ्यः सम्बन्धितसंस्थानेभ्यः ई-मेलमाध्यमेन निमन्त्रणानि प्रेषितानि सन्ति। प्रतियोगितासु भागं ग्रहीतुं आवेदनस्य अन्तिमतिथिः ३० नवम्बर निर्धारितास्ति। आवेदनानि केवलम् अन्तर्जालमाध्यमेन एव स्वीकरिष्यन्ते। समारोहसम्बद्धा विस्तृता सूचना परिषदः जालपुटे www.mpspgkp.in इत्यत्र उपलब्धा अस्ति।
सप्त सुवर्णपदकैः प्रतिभानां सम्मानः भविष्यति
समारोहस्य मुख्यसमारोहे पुरस्कार-वितरणकार्यक्रमे च सप्त प्रतिष्ठितानि सुवर्णपदानि प्रदास्यन्ते। एतेषु श्रेष्ठसंस्थायै महायोगीगुरुश्रीगोरक्षनाथ-सुवर्णपदकम्, श्रेष्ठपरिचारकाय (घ-समूहे) ब्रह्मलीनबाबागोपालनाथ-सुवर्णपदकम्, श्रेष्ठकर्मचारिणे (ग-समूहे) योगिराज-बाबाब्रह्मनाथसुवर्णपदकम्, श्रेष्ठशिक्षकाय योगिराजबाबागम्भीर-नाथसुवर्णपदकम्, स्नातकोत्तरकक्षायाः श्रेष्ठविद्यार्थिने ब्रह्मलीनमहन्तदिग्विजय-नाथसुवर्णपदकम्, स्नातककक्षायाः श्रेष्ठविद्यार्थिने ब्रह्मलीनमहन्त-अवेद्य-नाथसुवर्णपदकम् तथा उच्चतर-माध्यमिकविद्यालयस्य एवं इण्टरमीडिएट-कक्षायोः श्रेष्ठविद्यार्थिने महाराणामेवाड़-सुवर्णपदकं प्रदास्यते।
सुवर्णपदानां चयनप्रक्रियायाः अन्तर्गतं ८ डिसेम्बर दिनाङ्के गोलघरस्थिते प्रतापाश्रमे साक्षात्कारः आयोजयिष्यते। एतदर्थम् आवेदनस्य अन्तिमतिथिः २४ नवम्बर निर्धारितास्ति।
विविधासु प्रतियोगितासु विद्यार्थिनां प्रतिभायाः प्रदर्शनम्
संस्थापकसप्ताहसमारोहस्य समये विद्यार्थिनां ज्ञानस्य, कौशलस्य, साहित्यिकरुचेः, सांस्कृतिकप्रतिभायाः सृजनात्मकक्षमतायाश्च मूल्याङ्कनाय व्यापकस्तरे प्रतियोगिताः आयोजयिष्यन्ते। एतासु योगासनम्, गोरखवाणी, चित्रकला, शिक्षाप्रदाः सन्तवचनानि, अन्त्याक्षरी, सामान्यज्ञानम्, हिन्दी-अङ्ग्रेजी-सुलेखः, निबन्धलेखनम्, प्रश्नमञ्चः, श्रीमद्भग-वद्गीता, श्रीरामचरितमानसः, सङ्गीत-गायनम् तथा हिन्दी-अङ्ग्रेजी-संस्कृतभाषासु भाषणप्रतियोगिताः सम्मिलिताः सन्ति। एतदतिरिक्तं कबड्डी, वालीबाल, बास्केटबाल इत्यादीनां क्रीडाप्रतियोगितानां माध्यमेन क्रीडकानाम् अपि स्वप्रतिभाप्रदर्शनस्य अवसरः प्राप्स्यते।
अस्मिन् वर्षे समारोहाय केचन नवीनाः प्रयोगाः अपि क्रियन्ते। हिन्दी, अङ्ग्रेजी, संस्कृतभाषासु वरिष्ठवर्गस्य भाषण-प्रतियोगिताः राज्यस्तरे आयोजयिष्यन्ते। एताभिः सह प्रो. यू.पी.सिंहस्मृतिपुरस्कारः अपि समारोहस्य अन्तर्गतं समावेशितः भविष्यति। अनेन महत्त्वपूर्णपुरस्काराणां सङ्ख्या १५ भविष्यति।
राज्यस्तरीयाः बास्केटबाल-वालीबाल-प्रतियोगिताः विशेषाकर्षणम्
युगपुरुषस्य महन्तदिग्विजयनाथस्य राष्ट्र-सन्तस्य महन्तअवेद्यनाथस्य च स्मृतौ राज्यस्तरीयाः धनपुरस्कारयुक्ताः बास्केटबाल-वालीबालप्रतियोगिताः अपि आयोजयिष्यन्ते। एतासु महन्तदिग्विजय-नाथराज्यस्तरीयधनपुरस्कारयुक्ता बास्केटबालप्रतियोगिता तथा महन्त-अवेद्यनाथराज्यस्तरीयधनपुरस्कारयुक्ता वालीबालप्रतियोगिता प्रमुखे भविष्यतः। एतदतिरिक्तं शिक्षापरिषदः स्तरस्य बालकानां बालिकानां च वर्गयोः वालीबाल-कबड्डीप्रतियोगिताः अपि आयोजयिष्यन्ते।
क्रीडाप्रतियोगितानाम् आयोजनाय विभिन्नेषु संस्थानेषु व्यवस्था कृता अस्ति। बालिकावर्गस्य क्रीडाप्रतियोगिताः महाराणा प्रतापबालिकान्तरमहाविद्यालये, सिविललाइन्स इत्यत्र भविष्यन्ति, बालकवर्गस्य प्रतियोगिताः च गोरखनाथस्थिते महाराणा प्रताप-पॉलिटेक्निकसंस्थाने आयोजयिष्यन्ते। महाराणा प्रतापशिक्षापरिषदि संस्थापक-सप्ताहसमारोहः विद्यार्थिभ्यः स्वप्रतिभा-प्रदर्शनस्य, प्रतिस्पर्धाभावनायाः विकासस्य तथा शिक्षया सह क्रीडासु सांस्कृतिकगतिविधिषु च उत्कृष्टतां प्राप्तुं महत्त्वपूर्णम् अवसरं प्रदास्यति।
Hindusthan Samachar / Divya Ranjan