महाराष्ट्रस्य नासिकनगरे राष्ट्रपतिः सिंहस्थधर्मध्वजम् उत्तोल्य नासिकत्र्यम्बकेश्वरकुम्भपर्वणः शुभारम्भम् अकरोत्।
मुंबई, 31 अक्टूबरमासः (हि.स.)। महाराष्ट्रस्य नासिकनगरस्य रामतीर्थे राष्ट्रपतिः द्रौपदी मुर्मू शनिवासरे पवित्रायाः गोदावरीनद्याः तटे वैदिकमन्त्राणाम् उच्चारणस्य, शङ्खनादस्य साधुसन्तानां च सान्निध्ये सिंहस्थधर्मध्वजम् उत्तोल्य नासिकत्र्यम्बकेश्वरक
फोटो: नासिक में सिहस्थ धर्मध्वज फहराते हुए राष्ट्रपति द्रौपदी मुर्मू


मुंबई, 31 अक्टूबरमासः (हि.स.)।

महाराष्ट्रस्य नासिकनगरस्य रामतीर्थे राष्ट्रपतिः द्रौपदी मुर्मू शनिवासरे पवित्रायाः गोदावरीनद्याः तटे वैदिकमन्त्राणाम् उच्चारणस्य, शङ्खनादस्य साधुसन्तानां च सान्निध्ये सिंहस्थधर्मध्वजम् उत्तोल्य नासिकत्र्यम्बकेश्वरकुम्भपर्वणः शुभारम्भम् अकरोत्।

अनेन ऐतिहासिकसमारोहेण अद्यतः नासिकत्र्यम्बकेश्वरसिंहस्थकुम्भपर्वणः सज्जतायाः विधिवत् शुभारम्भः अभवत्। द्वादशवर्षाणाम् अन्तराले आयोज्यमानस्य अस्य महापर्वणः स्वागतार्थं सम्पूर्णं नासिकनगरं भक्तिमयेन वातावरणेन परिपूर्णम् अभवत्।

मुख्यमन्त्रिणः कार्यालयस्य अनुसारम् अस्य समारोहस्य प्रारम्भः पारम्परिकैः वैदिकानुष्ठानैः, यज्ञहवनैः मन्त्रपाठैश्च अभवत्। राष्ट्रपतिः मुर्मू विधिवत् गोदावरीनद्याः पूजनं धर्मध्वजस्य च पूजनम् अकरोत्। ततः पुरोहितानां मन्त्रपाठस्य मध्ये सा धर्मध्वजम् उत्तोलितवती। ध्वजारोहणेन सह गुञ्जितैः शङ्खनादैः मङ्गलवाद्यैश्च वातावरणं आध्यात्मिकया ऊर्जया परिपूर्णम् अभवत्।

अस्मिन् अवसरे उपमुख्यमन्त्री एकनाथ शिन्दे, उपमुख्यमन्त्री सुनीता ताई अजीत पवार, केन्द्रीयमन्त्री प्रतापराव जाधव, पालकमन्त्री गिरीश महाजन, मन्त्रिणः छगन भुजबलः, गुलाबराव पाटिलः, दादाजी भुसे, जयकुमार रावलः, संजय सावकारे, नरहरि जिरवालः, नितेश राणे च सहिताः अनेकाः जनप्रतिनिधयः प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्। विभिन्नानाम् अखाडानां महन्तानां, धर्माचार्याणां साधुसन्तानां च उपस्थित्या समारोहस्य आध्यात्मिकं गौरवं वर्धितम्।

जगद्गुरुः श्रीमद्रामानन्दाचार्यः नरेन्द्राचार्यमहाराजः, अखिलभारतीयस्य अखाडापरिषदः अध्यक्षः श्रीमहन्तः रवीन्द्रपुरीमहाराजः, श्रीमहन्तः ज्ञानदासमहाराजः, माधवाचार्यमहाराजः, राजेन्द्रदासमहाराजः सहिताः अनेके सन्तः अस्य ऐतिहासिकस्य अवसरस्य साक्षिणः भूत्वा स्वोपस्थितिं पञ्जीकृतवन्तः। धार्मिकानुष्ठानानि पुरोहितसङ्घस्य सतीशशुक्लस्य अध्यक्षस्य चन्द्रशेखरपञ्चाक्षरिणः मार्गदर्शने सम्पन्नानि।

धर्मध्वजस्य प्रतीकानां विशेषं महत्त्वम्

श्रीगङ्गागोदावरीधर्मध्वजे अङ्कितस्य प्रत्येकस्य प्रतीकस्य विशेषं धार्मिकम् आध्यात्मिकं च महत्त्वम् अस्ति। ध्वजे निर्मितः अमृतकुम्भः अमरत्वस्य, मोक्षस्य देवीशक्तेश्च प्रतीकः अस्ति। ओङ्कारचिह्नं ब्रह्माण्डस्य, सकारात्मकतायाः सर्वव्यापकतायाश्च द्योतकं वर्तते, यदा तु ‘श्री’ अक्षरं विजयस्य माङ्गल्यस्य च प्रतीकम् इति मन्यते। ध्वजे स्थापिताः द्वादश रेशमी लटकनाः सामाजिकैकतायाः सामूहिकशक्तेश्च सन्देशं यच्छन्ति। एकं घण्टं त्रयः घण्टिकाश्च ध्वनेः ब्रह्मनादस्य च प्रतीकाः सन्ति। ध्वजस्य अपरस्मिन् भागे गोदावरीनद्याः वाहनस्य मकरस्य सह सूर्यस्य चन्द्रस्य च मङ्गलचिह्नानि अङ्कितानि सन्ति।

धर्मध्वजारोहणेन सह आगामीसिंहस्थकुम्भमेलायाः सज्जतायाः कार्याण्यपि नूतनां दिशां प्राप्तवन्ति। नासिके त्र्यम्बकेश्वरे च देशविदेशेभ्यः आगच्छतां लक्षशः श्रद्धालूनां सुविधार्थम् प्रशासनं आधारभूतसंरचनायाः, स्वच्छतायाः, यातायातस्य, सुरक्षायाः नागरिकसुविधानां च व्यापकयोजनायाः कार्ये संलग्नम् अस्ति।

समारोहे विधायकाः सुहास कांडे, राहुल ढिकले, देवयानी फरांदे च सहिताः अन्ये जनप्रतिनिधयः, विभागीयायुक्तः डॉ. प्रवीण गेडाम, सिंहस्थकुम्भमेलाप्राधिकरणस्य आयुक्तः शेखर सिंह, महानगरपालिकायाः आयुक्ता मनीषा खत्री, जिलाधिकारी आयुष प्रसादः तथा विभिन्नविभागानां वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

गोदावरीनद्याः तटे उत्तोलितः धर्मध्वजः केवलं कुम्भपर्वणः आगमनस्य सूचकः नास्ति, अपितु भारतीयसंस्कृतेः समृद्धायाः विरासतायाः, सन्तपरम्परायाः, कोटिशः श्रद्धालूनां दृढश्रद्धायाश्च प्रतीकः अस्ति। अनेन समारोहेण नासिकनगरस्य धार्मिकायाः सांस्कृतिकायाश्च परिचयाय नूतनं गौरवं प्रदत्तम् तथा च आगामीसिंहस्थमहापर्वणः कृते उत्साहपूर्णं वातावरणं निर्मितम्।

---------------

Hindusthan Samachar / Dheeraj Maithani