मध्यप्रदेशाय केन्द्रीयमन्त्रिण: पुरीमहोदयस्य व्यापकप्रशासनिकानुभवस्य कार्यकुशलतायाश्च लाभः प्राप्स्यते : मुख्यमन्त्री डॉ. यादवः
भोपालम्, ३१ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् केन्द्रीयमन्त्री हरदीपसिंहपुरी भारतसर्वकारे कुशलप्रशासकरूपेण विशिष्टं परिचयम् अधिगच्छति। तस्य व्यापकः प्रशासनिकानुभवः कार्यकुशलता च निश्चयेन केन्द्रसर्वकारस्य सहैव
मप्र से राज्यसभा के लिए नामांकन दाखिल करते हुए हरदीप सिंह पुरी (सीएम के ट्वीट से ली गई तस्वीर)


भोपालम्, ३१ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् केन्द्रीयमन्त्री हरदीपसिंहपुरी भारतसर्वकारे कुशलप्रशासकरूपेण विशिष्टं परिचयम् अधिगच्छति। तस्य व्यापकः प्रशासनिकानुभवः कार्यकुशलता च निश्चयेन केन्द्रसर्वकारस्य सहैव प्रदेशस्य विकासाय अपि लाभप्रदा सिद्धा भविष्यति तथा च तस्य अनुभवस्य लाभः प्रदेशाय प्राप्स्यते।

मुख्यमन्त्री डॉ. यादवः शनिवासरे विधानसभापरिसरे सञ्चारमाध्यमैः सह वार्तालापं कुर्वन् आसीत्। अस्मात् पूर्वं मुख्यमन्त्रिणः डॉ. यादवस्य उपस्थितौ शनिवासरे भाजपादलस्य राज्यसभा-प्रत्याशी तथा केन्द्रीयपेट्रोलियम-प्राकृतिकगैस-मन्त्री, आवासन-नगर-कार्यविषयकः मन्त्री च हरदीपसिंहपुरी मध्यप्रदेशविधानसभां प्राप्य पीठासीना-धिकारिणे स्वनामाङ्कनपत्रं समर्पितवान्। अस्मिन् अवसरे उपमुख्य-मन्त्रिणौ जगदीशदेवडा-राजेन्द्रशुक्लौ, नगरीयविकास-आवास-संसदीयकार्य-विभागस्य मन्त्री कैलाशविजयवर्गीयः, वरिष्ठः पञ्चायत-ग्रामीणविकास-श्रम-मन्त्री प्रह्लादसिंहपटेलः, प्रदेशाध्यक्षः हेमन्तखण्डेलवालः इत्यादयः वरिष्ठजन-प्रतिनिधयः, मन्त्रिणः, विधायकाश्च उपस्थिताः आसन्।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे प्रदेशाय केन्द्रीयमन्त्री हरदीपसिंहपुरी-सदृशस्य अनुभवीयस्य, वरिष्ठस्य, कुशलस्य च नेतृत्वस्य सहयोगः लप्स्यते इति सर्वेषां कृते हर्षस्य सौभाग्यस्य च विषयः अस्ति। मुख्यमन्त्री केन्द्रीयमन्त्री पुरीमहोदयस्य सफलतायै बाबा महाकालं प्रति प्रार्थनां कृतवान् तथा च तस्मै अभिनन्दनानि शुभकामनाश्च प्रदत्तवान्।

उल्लेखनीयम् अस्ति यत् मध्यप्रदेशं पेट्रोलियम-प्राकृतिकगैसक्षेत्रे समृद्धं कर्तुं तथा प्रदेशे आवासन-नगरीय-विकासक्षेत्रयोः सुविधानां विस्ताराय केन्द्रीयमन्त्री पुरीमहोदयस्य महत्त्वपूर्णं योगदानम् अस्ति। प्रायः ४९ सहस्रकोटि-रूप्यकाणां निवेशेन निर्मीयमाणस्य बीना-परिष्करणागारस्य विस्तारीकरणस्य अधःप्रवाह-पेट्रोरसायन-समुच्चयस्य च आधारशिला प्रधानमन्त्री मोदी १४ सेप्टेम्बर २०२३ दिनाङ्के स्थापितवान्।

प्रदेशस्य भोपालम्, इन्दौरम्, जबलपुरम्, ग्वालियरम्, सागरः, सतना, उज्जयिनी च इति सप्तनगराणि जनवरी २०१६ तः जून २०१७ पर्यन्तं स्मार्टसिटी-मिशनस्य अन्तर्गतं चयनितानि। उडानयोजनायाः अन्तर्गतं ग्वालियर-बेङ्गलूरु तथा ग्वालियर-कोलकाता विमानसेवाः २० जून २०१९ दिनाङ्के प्रारब्धाः। १६ मार्च २०२० दिनाङ्के इन्दौर-किशनगढयोः मध्ये प्रत्यक्षविमानसेवा प्रारब्धा। जबलपुरविमानस्थानकस्य नूतनस्य टर्मिनल इत्यस्य निर्माणाय जून २०१९ मासे अनुबन्धः प्रदत्तः। भोपालविमान-स्थानकस्य एटीसी-नियन्त्रणमीनार-सह-प्राविधिकखण्ड-परियोजनायाः अनुबन्धः एप्रिल २०२१ मासे प्रदत्तः।

भोपाल-इन्दौर-मेट्रोपरियोजनयोः केन्द्रमन्त्रिमण्डलेन ३ अक्टोबर २०१८ दिनाङ्के अनुमोदनं कृतम्। १४,४४२.२० कोटिरूप्यकाणां अस्याः परियोजनायाः कृते १९ अगस्त २०१९ दिनाङ्के त्रिपक्षीयसन्धौ हस्ताक्षराणि कृतानि। स्वच्छसर्वेक्षणे २०२४-२५ तमे वर्षे भोपालं देशस्य स्वच्छतमेषु प्रमुखनगरेषु स्थानं प्राप्तवत् तथा इन्दौरं ‘सुपरस्वच्छलीग्’ इत्यस्मिन् प्रविष्टम्। अमृत् २.० योजनायाः शुभारम्भः १ अक्टोबर २०२१ दिनाङ्के अभवत्। २०२४ वर्षस्य अन्तपर्यन्तं प्रदेशे १२ सहस्रं ९६३ कोटि: १४ लक्षरूप्यकाणां व्ययेन १,२७३ परियोजनाः अनुमोदिताः। २०२१ तः २०२६ पर्यन्तं ३५ एथेनॉल-आसवनालयाः तथा १५ संपीडित-जैवगैस-संयन्त्राणि स्थापितानि।

Hindusthan Samachar / Divya Ranjan