Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, ३१ अक्टोबरमासः (हि.स.)। कदाचित् कश्मीरघाट्याः अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन् क्रिकेट-दण्डनिर्माणोद्योगः अधुना विनाशस्य सीमायां स्थितः अस्ति। अस्य प्रमुखं कारणम् अपक्ववस्तुन: अर्थात् विल्ववृक्षाणां काष्ठस्य अभावः इति कथ्यते। राज्ये विलोवृक्षाणां काष्ठस्य उपलब्धता प्रतिवर्षं तीव्रगत्या न्यूनीभवति। यदि एषा स्थितिः एव अनुवर्तते, तर्हि केन्द्रशासितप्रदेशस्य वार्षिकत्रिशतकोटि-रूप्यकाधिकव्यापारः शीघ्रमेव विनाशं प्राप्स्यति इति आशङ्का वर्तते।
कश्मीरप्रदेशे क्रिकेटक्रीडायाः बल्ला विल््वृक्षस्य काष्ठेन निर्मीयन्ते। एतत् काष्ठं स्वस्य गुणवत्तायाः दृढतायाश्च कारणेन विश्वे प्रसिद्धम् अस्ति। किन्तु घाट्यां प्रतिवर्षं विलोवृक्षाणां सङ्ख्या न्यूनीभवति। अस्य प्रमुखं कारणं नूतनवृक्षारोपणस्य अभावः अस्ति। अस्मिन् उद्योगे संलग्नाः जनाः आशङ्कन्ते यत् यदि एषा स्थितिः एव अनुवर्तते, तर्हि अग्रिमेषु चतुर्षु-पञ्चसु वर्षेषु अयं उद्योगः पूर्णतया समाप्तः भविष्यति। उल्लेखनीयम् अस्ति यत् अयं उद्योगः प्रदेशे शतवर्षाधिककालात् प्रचलति।
अस्य उद्योगस्य निर्माणकेन्द्राणि दक्षिण-कश्मीरस्य अनन्तनाग-कुलगाम-पुलवामा-जनपदेषु तथा शोपियां-जनपदे च सर्वाधिकानि सन्ति। एतेषु जनपदेषु स्थापितासु निर्माणशालासु कार्यरताः ७० प्रतिशताधिकाः श्रमिकाः उत्तरप्रदेशात् पञ्जाबप्रदेशाच्च आगताः सन्ति। ते अत्र स्वजीविकां निर्वहन्ति। अनुमानतः घाट्यां प्रतिवर्षं प्रायः सव्वलक्षं क्रिकेटदण्डाः निर्मीयन्ते। एतेभ्यः विवरणेभ्यः अस्य व्यवसायस्य माध्यमेन कियन्तः परिवाराः जीविकां प्राप्नुवन्ति, कियती आयः, रोजगारः, राजस्वं च उत्पद्यते इति सहजतया ज्ञायते।
‘क्रिकेटदण्डनिर्मातृसङ्घः कश्मीरम्’ इत्यस्य उपाध्यक्षः प्रवक्ता च फौज़ुल कबीरः कथयति यत् कच्चामालस्य अभावः अस्य उद्योगस्य उपरि खड्गवत् लम्बमानः अस्ति, यः अग्रिमेषु चतुर्षु-पञ्चसु वर्षेषु उद्योगम् पूर्णतया समाप्तं कर्तुं शक्नोति। सः ‘हिन्दुस्थानसमाचारम्’ अवदत्, “वयं महता परिश्रमेण कश्मीरस्य निर्माणशालासु निर्मितान् क्रिकेटदण्डान् अन्ताराष्ट्रियस्तरं प्रापितवन्तः, येन ते स्वयोग्यताम् अनुरूपां मान्यतां प्राप्नुयुः। अस्माकं प्रयासानामेव परिणामः अस्ति यत् विगतेषु बहुवर्षेषु अन्ताराष्ट्रियक्रीडासु कश्मीरीक्रिकेटदण्डानां प्रयोगः भवति।”
सः अवदत् यत् कच्चामालस्य तीव्रक्षयकारणात् कश्मीरस्य क्रिकेटदण्ड-निर्माणोद्योगः विनाशस्य सीमायां वर्तते। एवं दृश्यते यत् अग्रिमेषु त्रिषु-चतुर्षु वर्षेषु एते संसाधनाः पूर्णतया समाप्ताः भविष्यन्ति। दक्षिणकश्मीरे तु अधुना विलोवृक्षाः प्रायः न अवशिष्टाः। गान्दरबलजनपदे ये कतिपयाः वृक्षाः अवशिष्टाः सन्ति, तेऽपि अग्रिमेषु द्विषु-त्रिषु वर्षेषु समाप्ताः भविष्यन्ति। यदा कच्चामालः एव न अवशिष्यते, तदा अस्य उद्योगस्य भविष्यत् कीदृशं भविष्यति इति अवगन्तुं कठिनं नास्ति।
कबीरः अवदत् यत् एकतः घाट्यां विलोवृक्षारोपणस्य न कश्चित् प्रचलनम् अस्ति, न च अस्य कृते सर्वकारस्य कापि योजना अस्ति। अपरतः अस्य काष्ठस्य तस्करी अपि क्रियते, यत् अधिकम् चिन्ताजनकम् अस्ति। सः अवदत्, “विलोवृक्षाणाम् आरोपणं सर्वथा सरलम् अस्ति। एतदर्थं बहिःप्रदेशात् कस्यापि पौधस्य आनयनस्य आवश्यकता नास्ति। केवलं कस्यचित् वृक्षस्य शाखां छित्त्वा भूमौ रोपयितुं शक्यते।” तथापि विलोवृक्षाणां संरक्षणाय सर्वकारस्य नीतिगतः सकारात्मकः दृष्टिकोणः न दृश्यते।
सः अवदत् यत् तस्कराः अत्रत्यं विलोवृक्षकाष्ठं बहिःप्रदेशं नयन्ति, किन्तु तस्य निरोधाय सर्वकारस्य प्रशासनस्य च स्तरयोः किमपि दृढकार्यं न क्रियते। अस्य उद्योगस्य पुरतः उपस्थितायाः गम्भीर-समस्यायाः विषये वयं मुख्यमन्त्रिणा उमर अब्दुल्ला इत्यनेन सह चर्चा अपि कृतवन्तः। सः अस्माकम् उद्योगस्य भ्रमणं कृतवान् तथा वनविभागाय विलोवृक्षाणाम् आरोपणस्य निर्देशमपि दत्तवान्, किन्तु धरातले विशेषा कार्यवाही न अभवत्।
मध्यकश्मीरस्य बडगामजनपदस्य कृषकः गुलाम मोहम्मद वानी ‘हिन्दुस्थान-समाचारम्’ अवदत् यत् घाट्यां जनाः विलोवृक्षाणां स्थाने सेववृक्षान् पॉपुलरवृक्षांश्च रोपयन्ति, यतः एतेभ्यः कृषकेभ्यः अधिका आयः प्राप्यते। तस्य मतानुसारं विलोवृक्षकाष्ठस्य मूल्यं न्यूनं प्राप्यते तथा च तस्य वृक्षस्य पूर्णतया विकसितुं बहुकालः अपेक्ष्यते। अतः आयप्राप्त्यर्थं दीर्घकालं प्रतीक्षितव्यम्। अपरतः पॉप्लरवृक्षाः शीघ्रं वर्धन्ते तथा च उत्तममूल्येन विक्रीयन्ते।
सः अपि अवदत् यत् पशुचारणभूमिः अपि निरन्तरं न्यूनीभवति, अतः कृषकाः विल्ववृक्षान् न रोपयन्ति। सः अवदत्, “दुर्भाग्यवशात् निर्माणकार्याणां कृते अन्यभूमिं क्रेतुं त्यक्त्वा सर्वकारः चरागाहभूमेः उपयोगं करोति। परिणामतः सा भूमिः अपि विनष्टा भवति, यत्र पूर्वं विल्ववृक्षाः रोप्यन्ते स्म।”
निर्मातॄणां तथा च साम्प्रतिकप्रति-वेदनानाम् अनुसारं घाट्यां क्रिकेट-दण्डनिर्माणस्य प्रायः ४०० निर्माणकेन्द्राणि सन्ति। एतानि मुख्यतया अनन्तनाग-कुलगाम-पुलवामा-जनपदेषु तथा शोपियां-जनपदस्य सङ्गम-अवन्तीपोरा-क्षेत्रयोः स्थितानि सन्ति। अनुमानतः अयं उद्योगः एकलक्षाधिक-जनानां जीविकायाः साधनम् अस्ति। एतेषु उत्तरप्रदेशात् पञ्जाबप्रदेशाच्च आगताः श्रमिकाः अपि सम्मिलिताः सन्ति। अस्य उद्योगस्य वार्षिकः व्यापारः प्रायः त्रिशतकोटिरूप्यकाणि इति कथ्यते, यद्यपि कतिपयाः निर्मातारः एषा राशिः सप्तशतकोटिरूप्यकाणि यावत् भवितुम् अर्हति इति वदन्ति।
Hindusthan Samachar / Divya Ranjan