Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।देशे सर्वत्र शनिवासरे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य एकपञ्चाशदधिकशततमः (१५१वीं) जयन्ती आचरिता। अस्मिन्नवसरे राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी च सहिताः अनेकाः वरिष्ठनेतारः तस्मै श्रद्धाञ्जलिम् अर्पितवन्तः। देशे अयम् दिवसः ‘राष्ट्रियैकतादिवसः’ इत्याख्यया अपि आचर्यते।
राष्ट्रपतिः द्रौपदी मुर्मूः सहिताः अनेकाः गणमान्यव्यक्तयः राष्ट्रपतिभवनस्य गणतन्त्रमण्डपे तथा दिल्लीस्थे सरदारपटेलचौके सरदारवल्लभभाईपटेलाय पुष्पाञ्जलिम् अर्पितवन्तः। अस्मिन्नवसरे राष्ट्रनिर्माणे देशस्य एकीकरणे च तस्य ऐतिहासिकं योगदानं स्मृतम्।
उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सामाजिकमाध्यममञ्चे एक्स इत्यत्र सरदारपटेलाय श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् तस्य असाधारणं जीवनं राष्ट्रियैकतायाः, दृढसङ्कल्पस्य निःस्वार्थसेवायाश्च शक्तेः प्रमाणम् अस्ति। सः अवदत् यत् राष्ट्रियैकतादिवसस्य अवसरे राष्ट्रं राष्ट्रनिर्माणे सरदारपटेलस्य महान् योगदानं कृतज्ञतया स्मरति। तस्य आदर्शाः अद्यापि एकतायाः प्रगतेश्च मार्गे भारतस्य मार्गदर्शनं कुर्वन्ति।
प्रधानमन्त्री नरेन्द्रमोदी सरदारपटेलं स्मरन् अवदत् यत् सः स्वस्य सम्पूर्णं जीवनं सुदृढस्य, समृद्धस्य समर्थस्य च भारतस्य निर्माणाय समर्पितवान् आसीत्। प्रधानमन्त्रिणा उक्तं यत् भारतमातुः सेवायां सरदारपटेलस्य त्यागः समर्पणं च विकसितस्य आत्मनिर्भरस्य च भारतस्य निर्माणाय प्रेरणायाः महान् स्रोतः अस्ति।
लोकसभाध्यक्षः ओमबिरला अवदत् यत् सरदारपटेलस्य स्वप्नं केवलं स्वतन्त्रभारतस्य निर्माणं नासीत्, अपितु तादृशस्य सुदृढस्य, आत्मनिर्भरस्य सङ्गठितस्य च राष्ट्रस्य स्थापनम् आसीत्, यत्र विविधता राष्ट्रस्य शक्तिः भवेत् तथा राष्ट्रियैकता तस्य परिचायकं भवेत्। सः अवदत् यत् सरदारपटेलस्य जयन्त्यवसरे आचर्यमाणः राष्ट्रियैकतादिवसः देशस्य एकतायाः, अखण्डतायाः सुरक्षायाश्च प्रति प्रत्येकस्य नागरिकस्य कर्तव्यानि स्मारयति। तेन जनाः सरदारपटेलस्य आदर्शान् स्वीकृत्य सुदृढस्य, समरसस्य विकसितस्य च भारतस्य निर्माणे योगदानं दातुम् आहूताः।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् स्वातन्त्र्यसङ्ग्रामे सरदारपटेलस्य योगदानं तथा स्वातन्त्र्यप्राप्त्यनन्तरं शतशः देशीराज्यानां भारते एकीकरणं तस्य अदम्यसाहसस्य, दृढसङ्कल्पस्य राष्ट्रप्रति समर्पणस्य च उदाहरणम् अस्ति। सः अवदत् यत् सरदारपटेलस्य दूरदर्शिनं नेतृत्वम्, असाधारणं सङ्गठनकौशलं राष्ट्रसेवायाः भावना च आगामिसन्ततीः सदैव प्रेरयिष्यन्ति।
केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः सरदारपटेलाय श्रद्धाञ्जलिम् अर्पयन् अवदत् यत् सः स्वस्य अदम्यसाहसेन दूरदर्शितया च विभिन्नेषु देशीराज्येषु विभक्तं भारतम् एकसूत्रे आबद्ध्य सशक्तराष्ट्रस्य आधारशिलां स्थापितवान्। तेन उक्तं यत् सरदारपटेलेन अखिलभारतीयसेवानां स्थापनया देशस्य प्रशासनव्यवस्थायै सुदृढः आधारः प्रदत्तः। खेडा-बारडोलीसत्याग्रहयोः माध्यमेन कृषकाणाम् अधिकारार्थं तस्य सङ्घर्षः जनसेवायाः नेतृत्वस्य च अनुपमम् उदाहरणम् अस्ति। अमितशाहः अवदत् यत् सरदारपटेलस्य त्यागः, समर्पणं देशभक्तिश्च प्रत्येकं नागरिकं ‘एकं भारतं श्रेष्ठं भारतम्’ इत्यस्य निर्माणाय निरन्तरं प्रेरयिष्यति।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी सरदारपटेलं भारतरत्नेन सम्मानितं लौहपुरुषं च वर्णयन् अवदत् यत् सः स्वस्य अडिगसङ्कल्पेन दृढेच्छाशक्त्या च आधुनिकभारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वाहितवान्। तेन उक्तं यत् राष्ट्राय सरदारपटेलस्य योगदानात् तस्य आदर्शेभ्यश्च आगामिसन्ततयः शताब्दपर्यन्तं प्रेरणां प्राप्स्यन्ति।
सरदारवल्लभभाईपटेलः स्वतन्त्रभारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च आसीत्। स्वातन्त्र्यप्राप्त्यनन्तरं देशस्य शतशः देशीराज्यानाम् एकीकरणे तस्य महत्त्वपूर्णा भूमिका आसीत्। अस्य योगदानस्य कारणात् सः ‘लौहपुरुषः’ आधुनिकभारतस्य शिल्पकारः च इति रूपेण स्मर्यते। तस्य जयन्त्यवसरे आचर्यमाणः राष्ट्रियैकतादिवसः देशस्य एकतायाः, अखण्डतायाः राष्ट्रियसुरक्षायाश्च प्रति समर्पणस्य सन्देशं ददाति।
-------------------
Hindusthan Samachar / Dheeraj Maithani