Enter your Email Address to subscribe to our newsletters


केन्द्रीयमन्त्री मुख्यमन्त्रिणा च ‘एकतायै धावनम्’ इत्यस्य हरितध्वजं प्रदर्शितम्।
जनसमूहाय राष्ट्रियैकतायाः शपथं कारितवन्तौ।
जयपुरम्, ३१ अक्टोबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री, खाद्यमन्त्री उपभोक्तृविषयकमन्त्री च प्रह्लादजोशी तथा मुख्यमन्त्री भजनलालशर्मा सरदारवल्लभभाईपटेलस्य एकपञ्चाशदधिकशततम्यां (१५१वीं) जयन्त्यां जयपुरनगरे आयोजितायाः ‘एकतायै धावनम्’ इति स्पर्धायाः हरितध्वजं प्रदर्श्य शुभारम्भम् अकुरुताम्। अस्मात् पूर्वम् उपस्थितजनसमूहाय राष्ट्रियैकतायाः शपथः अपि कारितः।
अस्मिन्नवसरे केन्द्रीयशिक्षामन्त्री जोशी अवदत् यत् अद्य वयं यम् ‘एकं भारतम्’ पश्यामः, तस्य पृष्ठे सरदारपटेलस्य कुशलनेतृत्वस्य अथकपरिश्रमस्य च ऐतिहासिकं योगदानम् अस्ति, यत् कदापि विस्मर्तुं न शक्यते। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे सरदारपटेलस्य ‘एकभारतस्य’ सङ्कल्पं ‘श्रेष्ठभारतरूपेण’ साकारं कर्तुं कार्यं क्रियमाणम् अस्ति।
केन्द्रीयमन्त्री अवदत् यत् सरदारपटेलेन पञ्चशतात् अधिकानि देशीराज्यानि एकीकृत्य अखण्डभारतस्य निर्माणं कृतम्। राजस्थानराज्यस्य निर्माणे अपि तस्य योगदानं सर्वदा स्मरणीयम् अस्ति। तेनैव १९४९ तमस्य वर्षस्य मार्चमासस्य ३० दिनाङ्के बृहद्राजस्थानस्य सङ्कल्पः साकारः कृतः। सरदारपटेलाय वास्तविकश्रद्धाञ्जलिं समर्पयितुं गुजरातस्य केवडियानगरे विश्वस्य सर्वोच्चा प्रतिमा ‘एकतायाः प्रतिमा’ स्थापिता अस्ति, या राष्ट्राय तस्य समर्पणस्य एकतासङ्कल्पस्य च प्रतीकम् अस्ति। तेन युवभ्यः प्रतिमायाः अवलोकनं कर्तुं सरदारपटेलस्य जीवनात् विचारैश्च प्रेरणां ग्रहीतुं च आह्वानं कृतम्।
अस्मिन्नवसरे मुख्यमन्त्री भजनलालशर्मा अवदत् यत् सरदारवल्लभभाईपटेलेन स्वस्य दृढसङ्कल्पेन, अदम्येच्छाशक्त्या दूरदर्शितया च देशम् एकसूत्रे आबद्धुं कार्यं कृतम्। अस्माकं भाषाः परम्पराश्च भिन्नाः भवितुम् अर्हन्ति, किन्तु अस्माकं राष्ट्रियपरिचयः एकः एव अस्ति। सः अवदत् यत् प्रधानमन्त्रिणः मतम् अस्ति यत् सरदारपटेलस्य स्वप्नानां सशक्तभारतस्य निर्माणं युवानां सहकारेण सम्भवं भवति। अतः देशस्य युवानः ‘माय भारत’ इत्यादीनां मञ्चानां माध्यमेन राष्ट्रनिर्माणेन सह सम्बद्धाः क्रियन्ते। ‘स्टार्टअप इण्डिया’ तथा ‘मुद्रा योजनया’ युवानः रोजगारान्वेष्टृभ्यः रोजगारप्रदातारः कृताः। अपरतः ‘खेलो इण्डिया’ तथा ‘फिट इण्डिया मूवमेण्ट’ इत्यनयोः माध्यमेन ग्रामेषु स्थिताः प्रतिभाशालिनः क्रीडकाः अन्तरराष्ट्रीयस्तरे राष्ट्रध्वजं गौरवेण उन्नमयन्ति।
मुख्यमन्त्री शर्मणा उक्तं यत् राज्यसर्वकारः प्रत्येकस्मै युवने गुणवत्तापूर्णशिक्षां, पारदर्शिभर्तीन्, आधुनिकक्रीडासुविधाः कौशलविकासस्य च उत्तमावसरान् प्रददाति। युवनीतिः, नूतना रोजगारनीतिः, राज्यकौशलनीतिश्च माध्यमेन भविष्यं सुदृढं कर्तुं कार्यं क्रियमाणम् अस्ति। प्रदेशे ४१० परीक्षाः पूर्णपारदर्शितया सम्पन्नाः कृत्वा १ लक्ष ९३ सहस्रयुवभ्यः शासकीयाः नियुक्तयः प्रदत्ताः। एतदतिरिक्तं १ लक्ष १८ सहस्राणि नियुक्तयः प्रक्रियाधीनाः सन्ति तथा ७० सहस्रात् अधिकेषु पदेषु नियुक्तिप्रक्रिया शीघ्रमेव प्रारप्स्यते। तथैव ५ लक्षयुवभ्यः निजीक्षेत्रे रोजगारः प्रदत्तः।
सः अवदत् यत् प्रदेशे ३ लक्ष ७० सहस्रयुवभ्यः कौशलप्रशिक्षणं प्रदत्तम् अस्ति। ४ लक्षलाभार्थिभ्यः ‘युवासम्बलयोजनायाः’ अन्तर्गतं १ सहस्र ६४३ कोटिरूप्यकाणां राशिः वितरिता। ‘एकजनपदः-एकक्रीडा’ योजना तथा ‘क्रीडाजीवनबीमा’ योजना प्रारब्धे। २०२८ तमस्य वर्षस्य ओलम्पिकक्रीडार्थं विश्वस्तरीयाः सुविधाः प्रदातुं ‘मिशन ओलम्पिक-२०२८’ प्रारब्धम् अस्ति। अस्य कृते २० कोटिरूप्यकाणां व्ययेन उत्कृष्टताकेन्द्रस्य स्थापना क्रियते। अपरतः ५० ‘खेलो इण्डिया’ केन्द्राणि स्थापितानि। तेन आह्वानं कृतं यत् सरदारपटेलस्य विचारान् स्वीकृत्य अनुशासनस्य, सेवायाः, राष्ट्रं प्रथमम् इति भावनायाश्च अनुसारेण कार्यं कुर्वन्तु।
‘एकतायै धावनम्’ इति कार्यक्रमे अनेकैः पदकविजेतृभिः क्रीडकैः सह बहुसङ्ख्याकाः युवानः उत्साहपूर्वकं सहभागिताम् अकुर्वन्। अस्मिन्नवसरे युवकार्यक्रीडामन्त्री कर्नल राज्यवर्धनराठौडः, सांसदौ मदनराठौडः, मञ्जूशर्मा, महापौरः सुनीलकोठारी, उपमहापौरः सरोजकँवरः, मुख्यसचिवः वी. श्रीनिवासः, पुलिसमहानिदेशकः राजीवकुमारशर्मा तथा बहुसङ्ख्याकाः सामान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani